॥अन्याधिष्ठिते पूर्ववदभिलापात्॥ ‘व्रीहियवा ओषधिवनस्पतयः तिलमाषाइति जायन्त’ इत्यनेनानुशयिनां व्रीह्यादिभाव उच्यते। तत्र देवोजायते मनुष्यो जायत इतिवदिह ‘तिलमाषा इति जायन्त’ इति श्रवणाद्व्रीह्यादिशरीरकाएवानुशयिनो भवन्तीति प्राप्त उच्यते- अन्याधिष्ठिते पूर्ववदभिलापात्। अवरोहतां जीवानां जीवान्तराधिष्ठिते व्रीह्यादौ संश्लेषमात्र। कुतः? पूर्ववदभिलापात्। ‘आकाशाद्वायुं वायुर्भूत्वा धूमोभवती’ त्यादौ आकाशादिभावे हेतुभूतकर्मकीर्तनाभावाद्यथा आकाशदिषु संश्लेषमात्रं, एवं व्रीह्यादिस्थावरभावहेतुभूतकर्मकीर्तनाभावात्। उत्तरत्रैव ‘रमणीयचणा अभ्याशोहयदि’ति ब्राह्मणादिभावएव हेतुभूतस्य कर्मणः कीर्तनात् व्रीह्यादौ जीवान्तराधिष्ठिते संश्लेषमात्रमेव॥॥अशुद्धमिति चेन्न शब्दात्॥ इष्टादिकर्मणां पशुहंसामिश्रत्वात् हिंसायाश्च ‘नहिंस्या’दिति निषिद्धत्वेनानिष्टसाधनत्वेन पापतया तन्मिश्रतया सुकृतकर्मणामशुद्धत्वात् सुकृतांशस्य फलं स्वर्गेऽनुभूय हिंसांशस्य स्थावरादिभावलक्षणं" फलमवरोहन्नभुवतु। ननु ‘नहिंस्या’दिति निषेधः विहितक्रत्वर्थहिंसाव्यतिरिक्तविषयोऽस्त्विति चेन्न। पुष्ट्यादिरूपेष्टसाधनघृतपानादौ मोहादिरूपानिष्टसाधनत्वस्य च दर्शनेनोत्सर्गापवादन्यायस्यात्रानवतारात्।अतो यागाद्यनुप्रविष्टहिंसाफलत्वेन स्थावरभावोऽनुभोक्तव्य इतिचेन्न। प्रवर्तनानिवर्तनारूप विधिनिषेधयोरविरोधस्य वक्तुमशक्यतया सतिच विरोधे सामान्यविशेषन्यायेन निषेधस्य विहिताहिंसाव्यतिरिक्तविषयत्वात्। वस्तुतस्तु यागीयपशुहिंसायाः हिंसात्वस्यैवाभावात्। ‘नवाउवेतन्म्रियसे नरिष्यसी’ति मंत्रवर्णार्द्धिसात्वाभावस्यैव प्रतिपादनात्। नरिष्यसि नहिंस्यस इति हि तस्यार्थः। ननु ‘नरिष्यसी’ति मंत्रवर्णाद्धिंसात्वाभावाभ्युपगमेन म्रियस इति मंत्रवर्णात्तन्मरणस्य मरणत्वमपि न स्यात्। ततश्च नम्रियस इतिवन्नरिष्यसीत्युक्तिरप्यौपचारिकीत्येवाश्रयणीयम् मरणोद्देश्यकमरणानुकूलव्यापारत्वस्यैव हिंसात्वरूपत्वादितिचेत् नमरणोद्देश्यकमरणानुकूलव्यापारत्वं" हिंसात्वम्। कशाताडनतप्तसन्दांशिनीपाटनक्रकचदारणादीनां मरणोद्देश्यकमरणानुकूलव्यापारत्वाभावेन हिंसात्वाभावप्रसंगात्। अतस्तीव्रदुःखजननौपयिकव्यापारत्वस्यैव हिंसापदप्रवृत्तिनिमित्तत्वे वक्तव्ये व्रणादिचिकित्सके तादात्विकतीव्रवेदनोत्पादके हिंसकत्वव्यपदेशाभावेन बलवत्तद्धिताजनकत्वेसति तद्वेदनाजनकव्यापारत्वं" तद्धिंसात्वमित्याश्रयणीयम्। ततश्च व्रणचिकित्सया जायमानस्यारोग्यरूपहितस्य तादात्विकवेदनापेक्षया बलवत्त्वान्नहिंसात्वमिति स्थिते पशुमरणानुकूलव्यापारस्य पशुवेदनाजनकत्वेऽपि स्वर्गप्राप्त्यादिलक्षणस्य पशुहितस्य बलवत्त्वान्न हिंसात्वं। अतः ‘नहिंस्या’दिति निषेधाविषयत्वात् क्रत्वर्थपशुहिंसाया न पापजनकत्वमिति तद्वशेनावरोहतोऽनुशयिनो नव्रीह्यादिभावापत्तिरिति॥॥रेतस्सिग्योगोऽथ॥ इतश्चौपचारिकं व्रीह्यादिजन्मवचनम्। व्रीह्यादिभाववचनानन्तरं “योयोह्यन्नमत्ति योयोरेतस्सिञ्चत तद्भूयएवभवती"ति रेतस्सिग्भावोऽनुशयिनां श्रूयमाणो यथा नमुख्यः, एवं व्रीह्यादिभावोऽपीत्यर्थः॥।योनेश्शरीरम्॥ योनिप्राप्तेः पश्चादेवानुशयिनां ब्राह्मणादिशरीरप्राप्तिश्रवणात् ततः प्राक्नशरीरपरिग्रहः, किंतु संश्लेषमात्रम्। यत्र पुण्यापुण्यकर्मणी तत्रैव सुखदुःखे तत्रैव तद्धेतुभूतं शरीरम्। ततश्चाकाशादिषु कर्मकीर्तनाभावेन तत्फलभूतसुखाद्यनुभवाभावात् नतद्धेतुभूतं शरीरमिति न योनिप्राप्तेः प्राक्छरीरपरिग्रह इति स्थितम्। ॥इति अन्याधिष्ठिताधिकरणम्॥ इति चतुष्षष्टिप्रबंधनिर्माणसंसूचितसर्वतंत्रस्वतंत्रताबिरुदांचितैः श्रीमद्रंगरामानुजमुनिभिरनुगृहीतायां” श्रीशारीरकब्रह्मसूत्रव्याख्यायां श्रीशारीरकशास्त्रार्थदीपिकायां तृतीयाध्यायस्य प्रथमः पादः॥