05 नातिचिराधिकरणम्

॥नातिचिरेण विशेषात्॥ आकाशप्राप्तिप्रभृति यावद्व्रीह्यादिप्राप्ति किं तत्र तत्र गतिचिरं तिष्ठति उतानियम इति विशये नियमहेत्वभावा दनियम इति प्राप्त उच्यते नातिचिरेण विशेषात्। आकाशादितो नातिचिरेण निष्क्रमणं। कुतः?विशेषात्। उत्तरत्र व्रीह्यादि प्राप्तौ ‘अतोवै खलुदुर्निष्प्रपतर’मिति विशिष्य कृच्छ्रनिष्क्रमणाभिधानादिति स्थितं। ॥इति नातिचिराधिकरणम्॥