॥तत्स्वाभाव्यापत्ति रुपपत्तेः॥ यथैतमाकाशाद्वायुं वायुर्भूत्वा धूमो भवती"त्यादावाकाशादिभावोऽपि देवमनुष्यादिभाववत् तच्छरीरकत्वलक्षण एवास्त्विति पूर्वपक्षे प्राप्त उच्यते तत्स्वाभाव्यापत्तिरुपपत्तेः"। तत्स्वाभाव्यापत्तिः आकाशादिसादृश्यापत्तिरित्यर्थः। स्वभाव एव स्वाभाव्यं। “वर्तमानसामीप्य"इत्यादिवत् स्वार्थिकः ष्यङ्। अतः तत्स्वाभाव्यापत्तिः तत्सादृश्यापत्तिरित्यर्थ चन्द्रमण्डले शरीरारम्भकाणां भूतसूक्ष्माणां कर्मक्षये द्रवीभूतानामाकाशगतानां भेदकाकारग्रहाणेनाकाशादिसादृश्ये तदुपश्लिष्टानुशयिनोऽप्याकाशसमा भवन्तीत्यर्थः। कुतः? उपपत्तेः। सुखदुःखोपभोगाय हि तच्छरीरसंसर्गः। नह्यनुशयिनं प्रत्याकाशादेर्जीवान्तरशरीरभूतस्य तद्भोगाश्रयत्वमस्ति। युगपद्भोक्तृद्वयसमावेशे तयोः परस्परविरुद्धबोगार्थतया शरीरोन्मथनप्रसङ्गात्। ननु अवरोहन्तो जीवा एव तत्तदभिमानिदेवताभवन्त्विति चेन्न। सर्गाद्यकालमारभ्याप्रलयमाकाशाद्यभिमानिदेवताना मनुशयिभ्योऽन्यासां क्लृप्तानां” सत्वेनानुक्षणमवरोहतामनुशयिनामाकाशाद्यभिमानिदेवतात्वानुपपत्ते रिति स्थितम्॥ ॥इति तत्स्वाभाव्यापत्त्यधिकरणम्॥