03 अनिष्टादिकार्यधिकरणम्

॥अनिष्टादिकारिणामपिचश्रुतम्॥ ‘येवै केचास्माल्लोकात्प्रयंति चन्द्रमसमेव तेसर्वे गच्छन्ती’त्यविशेषश्च। वणात् इष्टादिकारिणामिव अनिष्टादिकारिणामपि चन्द्रप्राप्तिरस्त्येवेत्यर्थः। तर्हि सुकृतकारिणां दुष्कृतकारिणांच चन्द्रप्राप्तिसत्वे कोविशेषइत्यत्राह-॥संयमनेत्वनुभूयेतरेषामारोहावरोहौतद्गतिदर्शनात्॥ तुशब्दश्शंकांव्यावर्तयति। संयमने यमशासनेसति इतरेषां अनिष्टादिकारिणां यमयातनाः अनुभूय चन्द्रारोहावरोहौ। ‘अयं लोको नास्तिपरइति मानी पुनः पुनर्वशमापद्यतेम’ इति अनिष्टादिकारिणां दुष्कृतकारिणां यमवश्यतादर्शनात्॥।स्मरंतिच॥ ‘सर्वेचैते वशं यान्ति यमस्य भगवन्किल’ इति यमवश्यतास्मरणात्॥।अपि सप्त॥ पापकृतां गंतव्यत्वेन रौरवादीन् सप्तनरकानपि स्मरंति।ननु सप्तसुलोकेषु गच्छतां कथं यमसदनप्राप्तिस्तत्राह- ॥तत्रापि तद्व्यापारादविरोधः॥ तुशब्दश्शंकानिवृत्यर्थः। देवयानपितृयाणे हि फलभूते विद्याकर्मणोरित्यवसीयते। ‘तद्य इत्थं विदुर्येचेमेऽरण्ये श्रद्धां तप इत्युपासते तेऽर्चिषमभिसंभवन्ति।अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ती’ति विद्याकर्मणी प्रकृत्य हि देवयानपितृयाणे आम्नायेते। अतो विद्याकर्मविधुरेष्वनिष्टादिकारिषु देवयानपितृयानासंभवात् न चन्द्रप्राप्तिः। “येव केचास्माल्लोकात् प्रयंती"ति वचनं इष्टादिकारिसर्वविषयं नेतव्यम्नन्वनिष्टादिकारिणां चन्द्रप्राप्त्यभावे पञ्चमाहुत्यसंभवात् शरीरारंभएव नोपपद्यते तत्राह- ॥न तृतीये तथोपलब्धेः॥ ‘तानीमानि क्षुद्राण्यसकृदावृत्तीनि भूतानि भवन्ति जायस्वम्रियस्वेत्येतत् तृतीयं स्थान’मिति तृतीयस्थानशब्दितानामनिष्टादिकारिणां” क्षुद्रजन्तूनां न पञ्चमाहुत्यपेक्षा। तथाह्युपलभ्यते ‘तेनासौ लोको न संपूर्यत’ इति। तृतीयस्थानेन हि असौ चन्द्रलोको न प्राप्यत इति हि तस्यार्थः॥।स्मर्यतेऽपिच लोके॥ केषांचित्पुण्यकर्मणामपि द्रौपदीधृष्टद्युम्नप्रभृतीनां पञ्चमाहुत्यनपेक्षयैव देहारंभो भारतादिषु स्मर्यते॥।दर्शनाच्च॥ ‘तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्ति अण्डजं जीवजमुद्भिज्ज’ मिति श्रुत्युपात्ताण्डजजीवजोद्भिज्जलक्षणभूतजातिमध्ये केषाञ्चिदुद्भिज्जानां वृक्षादीनां पञ्चमाहुत्यनपेक्षा लोके दृष्टा।ननु ‘तेषां खल्वेषां भूतानां त्रीण्येवे’त्यवधारणं नोपपद्यते। स्वेदजानामत्रानुपात्तत्वात् तत्राह- ॥तृतीयशब्दावरोधस्संशोकजस्य॥ संशोकजस्य स्वेदजस्यापि ‘अण्डजं जीवजमुद्भिज्ज’मित्यत्र तृतीयेनोद्भिज्जशब्देनावरोधस्संग्रहो विद्यत इत्यर्थः। अतः केवलपापकर्मणां चन्द्रप्राप्तिर्न भवतीति स्थितम्॥ ॥इति अनिष्टादिकार्यधिकरणम्॥