॥कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्यां यथेतमनेवञ्च॥ यावत्संपातमुषित्वे" ति संपातशब्दितसर्वकर्मफलस्य तत्रैवोपभोक्तव्यत्वश्रवणात् “पाप्यांतं कर्मणस्तस यत्किंचेह करोत्ययं। तस्मान्लोकात्पुनरेत्यस्मै लोकाय कर्मण” इति बृहदारण्यके श्रवणात कर्मफलं भुक्त्वा निरनुशयएवावरोहति जीवः। अनुशयः भुक्तशिष्ठं कर्म। एवं प्राप्त उच्यते- कृतस्य कर्मणोऽत्यये अवसाने अनुशयवानेव प्रत्यवरोहति जीवः। दृष्टस्मृतिभ्यां श्रुतिस्मृतिभ्यामित्यर्थः। तद्यइहरमणीय चरणाअभ्याशोहयदि"ति श्रुतेः, “वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभ ततश्शेषेण विशिष्ठदेशजातिकुलरूपायुश्श्रुतवृत्तसुखमेधसो जन्मप्रतिपद्यन्ते विष्वञ्चो विपरीताविनश्यन्तीति स्मरणाच्च। अतस्सानुशयाएतिपद्यन्ते विष्वञ्चो विपरीताविनश्यन्तीति स्मरणाच्च। अतस्सानुशयाएवावरोहंति। “यावत्संपातमुषित्वे"त्यादिकंतु फलदानप्रवृत्तकर्मविशेषविषयं। तत्रच ‘अथैतमेवाध्वानंपुनर्निवर्तंते यथेतमाकाश’मिति श्रवणाद्यथागमनं प्रत्यागमनं। “आकाशाद्वायुं वायुर्भूत्व धूमोभवती"ति श्रवणात्। अनेवंच। येन प्रकारेण गतं तदन्येनप्रकारेणावरोहंतीत्यर्थः॥चरणादितिचेन्न तदुपलक्षणार्थेति कार्ष्णाजिनिः॥ ननु ‘रमणीयचरणा अभ्याशोहयत्ते रमणीयां योनिमापद्येर’न्नित्यादिना सदसच्चरणयोरेव सदसत्प्राप्तिहेतुत्वं” श्रूयते। चरणं आचारः शीलं वृत्तमिति पर्यायाः। ततश्च “रमणीयचरणा"इति श्रुतिवशादवरोहता सदसद्योनिजन्महेतुभूतचरणशब्दिताचारानुवृत्तावपि न कर्मशेषानुवृत्तौ प्रमाणमस्तीति चेन्न। चरणश्रुतिः” कर्मोपलक्षणार्थेतिकार्ष्णाजिनिराचार्यो मन्यते। केवलाच्चरणशब्दिता दाचारात्सुखदुःखहेतुभूतयोनिप्राप्त्यसंभवात्॥।आनर्थक्यमितिचेन्न तदपेक्षत्वात्॥ ननु संध्यावन्दनाद्याचारस्य सुखदुःखहेतुत्वाभावे आनर्थक्यमिति चेन्न। तदपेक्षत्वादग्निहोत्रादिपुण्यकर्मणः। संध्याहीनोऽशुचिर्नित्यमनर्हस्सर्वकर्मस्वि"ति श्रवणात् संध्यावंदनाद्याचारवतएव वैदिककर्मण्यधिकारात्॥सुकृतदुष्कृतेएवेति तु बादरिः॥ पुण्यं कर्माचरति पापं कर्माचरती"ति सुकृतदुष्कृतकर्मसु चरतिशब्दप्रयोगात् चर्यत इति चरणमित व्युत्पत्त्या सुकृतदुष्कृतेएव चरणशब्दाभिधेये। ‘यान्यनवद्यानिकर्माणि तानि सेवितव्यानि यान्यस्माकं सुचरितानि तानित्वयोपास्यानी’तिकर्माचारयोः पृथड्निर्देशस्तु गोबलीवर्दन्यायादुपपद्यते। वैतानिकानितु कर्माणि कर्माणीत्युच्यते। इतराणितु आचारशब्देनाभिलप्यंते। अतश्चरणशब्देन सुकृतदुष्कृतयोरेवाभिलापइति बादरिराचार्यो मन्यत इति स्थितं। ॥इति कृतात्ययाधिकरणम्॥