॥तदंतरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम्॥ लोकांतरं गच्छतो जीवस्य देहारंभकभूतसूक्ष्माणां तत्रैव सुलभतया नभूतसूक्ष्मपरिष्वक्ततया गमनमिति प्राप्त उच्यते- तदंतरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम्। पूर्वत्र “संज्ञामूर्तिकॢप्ति"रि सूत्रे मूर्तिशब्देन निर्दिष्टो देहस्तच्छब्देन परामृश्यते। तदंतरप्रतिपत्तौ देहांतरप्रतिपत्त्यर्थं” जीवो भूतसूक्ष्मैः परिष्वक्त एव रंहति गच्छतीत्यर्थः। पंचाग्निविद्यायां “वेत्थ यथा पंचम्यामाहुतावापः पुरुषवचसो भवन्ती"ति पंचस्वप्याहुतिष्वप्छब्दितानां भूतसूक्ष्माणां हूयमानतया संबंधं सिद्धवत्कृत्यैवापां पंचम्यामाहुतावापः पुरुषवचसो भवन्तीति कथं वेथ्थेति प्रश्नात् द्युपर्जन्यपृथिवीपुरुषयोषिद्रूपेष्वग्निष्वापश्श्रद्धासोमवृष्ट्यन्नरेतोरूपेण हूयमानास्सत्यः पंचम्यां रेतआहुतौ पुरुषाकारेण परिणमंतीति प्रतिवचनदर्शनाच्चाप्छब्दितभूतसूक्ष्मपरिष्वक्तएवारोहावरोहयोः” संचरतीति भावः॥ननु “आपः पुरुषवचसो भवन्ती"त्यपामेव पुरुषवचस्त्वं प्रतिपाद्यते नभूतांतराणामिति तत्रा ॥त्र्यात्मकत्वात्तु भूयस्त्वात्॥ तुशब्दश्चोद्यव्यावृत्त्यर्थः। केवलानामपां देहारंभकत्वासंभवेन त्र्यात्मकत्वादप्छब्दो भूतांतरस्याप्युपलक्षकः। तर्हि कुतोऽप्छब्देन निर्देश इत्यत्राह-भूयस्त्वात्। तेजोवन्नलक्षणभूतत्रयमध्ये देहस्य लोहितप्रचुरतया अपांभूयस्त्वादच्छब्देन निर्देशइतिभावः॥।प्राणगतेश्च॥ तमुत्क्रामंतं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामंतं सर्वे प्राणा अनूत्क्रांती"ति इन्द्रियाणामप सहगतिश्रवणात् भूतसूक्ष्मपरिष्वक्ततया जीवगमनाभावे निराश्रयाणामिंद्रियाणां गमनासंभवात् भूतसूक्ष्मपरिष्वक्तस्यैव गमनमभ्युपगन्तव्यं। “गृहीत्वैतानि संयाति वायुर्गंधानिवाशया"दिति इन्द्रियाणां च नयनस्य स्मरणात्तेषा चाश्रयतया भूतसूक्ष्माणां गतिरभ्युपगन्तव्या॥।अग्न्यादिगतिश्रुतेरितिचेन्नभाक्तत्वात्॥ यत्रास्य पुरुषस्य मृतस्याग्निंवागप्येति वातं प्राणश्चक्षुरादित्य"मित्यादिना प्राणानां मरणकाल अग्न्यादिष्वाप्ययश्रवणान्नप्राणानां जीवेन सह गतिस्संभवतीति चेन्न। अग्न्यादिष्वप्ययश्रवणस्य भाक्तत्वात्। ओषधीर्लोमानिवनस्पतीन्केशा"इति लोमकेशानामप्योषधिवनस्पत्यप्ययश्रवणात् तस्य च प्रत्यक्षबाधितत्वे ओषधिवनस्पतिषु लोमकेशाप्ययस्य भाक्तत्वस्याभ्युपगन्तव्यत्वात् तत्सहपठितानामग्न्यादिषु वागाद्यप्ययानामपि भाक्तत्वमेव। ततश्च “अग्निंवागप्येति"त्यस्यायमर्थः। “अग्निवाग्भूत्वामुखं प्राविश्य"दिति अग्नेर्वागधिष्ठत मुखप्रवेशप्रतिपादनान्मरणकाले म्नियमाणपुरुषवागधिष्ठातृतां परित्यज्यानधिष्ठातृरूपेण वर्तत इति॥।प्रथमेऽश्रवणादितिचेन्न ता एव ह्युपपत्तेः॥ यदुक्तं प्रश्नप्रतिवचनाभ्यां द्युपर्जन्यादिषु भूतसूक्ष्मपरिष्वक्तस्यैव जीवस्य गमनमिति तन्नोपपद्यते। प्रणवएव विस्बर इति न्यायेन प्रथमाहुतावेव ‘तस्मिन्नेतस्मिन्नग्नौ देवाश्श्रद्धां जुह्वती’ति प्रथमपर्याये श्रद्धाया एवहोम्यत्वश्रवणेन अप्च्छब्दितभूतसूक्ष्माणां होम्यत्वाश्रवणादिति चेन्न। यदि प्रथमे पर्याये अप्च्छब्दितव्यतिरिक्तायाः श्रद्धायाहोम्यत्वं तर्हि प्रश्नप्रतिवचनयोः अपांपंचम्यामाहुताविति निर्देशो नोपपद्येत। अपांपञ्चमाहुतिसंबंधो हि तदितराहुतिचतुष्टयसंबंधएवोपपद्यते। बुद्धिविशेषलक्षणश्रद्धाया आत्मतोनिष्कृष्य होमस्यानुपपत्तेश्च श्रद्धाशब्देन आपएवोच्यन्ते। ‘श्रद्धावाआप’ इति श्रुतेः॥।अश्रुतत्वादितिचेन्नेष्ठादिकारिणांप्रतीतेः॥ द्युपर्जन्यादिषु प्रश्नप्रतिवचनवशाद्भूतसूक्ष्माणां गमनसंभवेऽपि न तत्परिष्वक्तस्य जीवस्य गमनं, अश्रुतत्वादितिचेन्न। उत्तरत्र पितृयाणवाक्ये-‘मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चंद्रमसमेषसोमोराजे’ति द्युलोकं प्राप्तस्येष्टादिकारिणोजीवस्य सोमराजभावश्रवणादत्रापि “तस्या आहुतेस्सोमोराजासंभवती” द्युलोकं प्रविष्टानां भूतसूक्ष्माणां सोमराजभावश्रवणात्, अत्रापि “आपः पुरुषवचसो भवन्ती"ति अप्छब्द नकेवलभूतसूक्ष्ममात्रमुच्यते अपितु तत्परिष्वक्तोजीवः। पुरुषशब्दाभिलपनीयत्वमपि तत्परिष्वक्तस्य जीवस्यैव। ततश्च “आपःपुरुषवचसोभवन्ती"त्यत्रावादिशब्दानां तत्परिष्वक्तजीवपरत्वात् भूतसूक्ष्मपरिष्वक्तस्य जीवस्य गमनं सिद्धम्। ननु “तंदेवा भक्षयन्ती"ति सोमराजभावं प्राप्तस्य भक्ष्यमाणत्वश्रवणात् जीवस्यानदनीयत्वा पितृयाणमार्गे सोमराजशब्दनिर्दिष्टो नजीवइत्यत्राह-॥भाक्तंवाऽनात्मवित्त्वात्तथाहि दर्शयति॥ देवभक्ष्यमाणत्ववचनं भाक्तं। केवलेष्टादिकारिणामनात्मवित्त्वात्, अनात्मविदाञ्च “यथा पशुरेवं सदेवाना"मितिश्रुतिदर्शन पशुवद्भोगोपकरणत्वात् “तन्देवा भक्षयन्ती"त्युक्तिरुपपद्यते। अतो भूतसूक्ष्मपरिष्वक्त एव जी गच्छतीति स्थितं॥ ॥इति तदन्तरप्रतिपत्त्यधिकरणम्॥