॥संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात्॥ अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणी"ति स्वांशत्वेनात्मभूतस्य जीवस्यैवानुप्रवेश व्याकरणकर्तृत्वाभिधानात् परदेवतायाः स्वेन रूपेणानुप्रवेशानुक्तः, हिरण्यगर्भस्य नामरूपव्याकर्तृत्वस्य पुराणादिषु प्रसिद्धत्वात्, परमात्मांशभूतो हिरण्यगर्भ एव प्रवेशनामरूपव्याकरणयोः कर्ता। नचैवं ‘व्याकरवाणी’ति परमात्मनोऽभिसन्धिर्नोपपद्यत इति वाच्यम्। जीवसमष्ठ्याश्रयस्य प्रवेशव्याकरणकर्तुर्हिरण्यगर्भस्य परमात्मांशतयाऽत्यन्तभिन्नत्वाभावेन तद्गतनामरूपव्याकर्तृत्वस्य प्रवेशसमानाधिकरणस्य स्वनिष्ठतया परमात्मनोऽनुसन्धानोपपत्तेः, प्रयोजककर्तृतयाऽपि ‘व्याकरवाणी’त्यभिसन्ध्युपपत्तेश्च। यदि पुनः परमात्मन स्साक्षात्कर्त्रभावो भवेत् तर्हि ‘अनेन जीवेने’त्यनर्थकं। जीवस्य कर्तृत्वाभावेन ‘चारेणानुप्रविश्य परसैन्यं सङ्कलयानी’तिवत् करणत्व एव तृतीया वाच्या। करणत्वञ्च तदोपपद्यते, यदि परमात्मा प्रयोजककर्ता जीवश्च प्रयोज्यकर्ता स्यात्। प्रयोजककर्तुर्हि साक्षात्कर्ता करणं भवति प्रधानक्रियोद्देशेन प्रयोजकेन प्रयोज्यकर्तुर्व्याप्रियमाणत्वात्। अतः ‘जीवेने’ति करणत्वेन निर्दिश्यमानो जीवस्साक्षात्कर्तेत्यवसीयते। अतस्तेजोबन्नानि प्रविश्य हिरण्यगर्भ एव नामरूपेव्याकरोति। अतो हिरण्यगर्भकर्तृकैव नामरूपव्याक्रियेति पूर्वपक्षेप्राप्तउच्यते- संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात्। संज्ञामूर्तिकॢप्तिः नामरूपव्याकरणं त्रिवृत्करणं" कुर्वतः परमात्मन एव। न हिरण्यगर्भस्य। ‘अनेनैव जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरोत् तासां" त्रिवृतं त्रिवृतमेकैकामकरो’दिति त्रिवृत्करणनामरूपव्याकरणयोस्समानकर्तृकत्वावगमात्। नच त्रिवृत्करणं" हिरण्यगर्भकर्तृकं सम्भवति। हिरण्यगर्भस्य त्रिवृत्कृततेजोवन्नोत्पादितब्रह्माण्डसृष्टत्वावेदनेन तस्य त्रिवृत्करणकर्तृत्वासम्भावात्। अतो जीवसमष्टिशरीरकस्सन् परमात्मा नामरूपे व्याकरोदिति सिद्धम्। ‘अनेन जीवेनात्मनाऽनुप्रविश्ये’त्यस्योपपत्तिस्तु तद्वाक्यविवरणदशायामेवोक्ता तत्रैवानुसन्धेया॥ननु ‘यदग्ने रोहितं रूपं तेजसस्तद्रूपं, अन्नमशितं त्रेधा विधीयत’इत्युत्तरत्र चतुर्मुखसृष्टाग्न्यादिषु त्रिवृत्करणप्रकारप्रदर्शनात् त्रिवृत्करणमपि चतुर्मुखकर्तृकमेवेत्यत्राह- ॥मांसादिभौमं यथाशब्दमितरयोश्च॥ यदुक्तमण्डस्रष्ट्युत्तरकालं चतुर्मुखस्रष्टदेवादिविषयोयं “तासां त्रिवृत्तं त्रिवृतमेकैकामकरो"दि त्रिवृत्करणोपदेश इति तन्नोपपद्यते। “अन्नमशितं त्रेधा विधीयते” इत्यत्र मांसमनसोः पुरीषादणुत्वेनाणीयस्त्व च व्यपदिष्टयोराप्यत्वतैजसत्वप्रसंगात्॥ यद्यदपेक्षया सूक्ष्मं तत्तस्य कारणं। अत एव हि पार्थिवाप्यतैजसानामुत्तरोत्तरसूक्ष्मतयोत्तरोत्तरकारणत्वं। ततश्च पुरीषस्य स्थविष्त्वात्पार्थिवत्वं, ततस्सूक्ष्मस्य मांसस्याप्यत्वं, ततोणिष्ठस्य मनसस्तैजसत्वमभ्युपगन्तव्यं। तथा “आपः पीता” इत्यत्रापि स्थविष्ठस्य मूत्रस्य पार्थिवत्वं मध्यमस्य लोहितस्याप्यत्वं ततोप्यणीयस प्राणस्य तैजसत्वमभ्युपगन्तव्यं। तथा “तेजोऽशित"मित्यत्रापि स्थूलस्यास्थ्नः पार्थिवत्वं, मध्यमा मज्जाया आप्यत्वं, अणिष्ठाया वाचस्तैजसत्वमभ्युपगन्तव्यं। न चैवमिष्यते। प्रथमपर्याये पुरीषवन्मांसमनसी अपि पार्थिवे एव प्रतिपाद्येते। “अन्नमशितं त्रेधा विधीयते” इति प्रकमात्। तथा द्वितीये पर्या मूत्रलोहितप्राणानामब्विकारत्वं प्रतिपाद्यते। तृतीयपर्याये अस्थिमज्जावाचां तेजोविकारत्वमेव प्रतिपाद्यते। अतः “तासां त्रिवृतं त्रिवृतमेकैकामकरोत्” इत्युक्तत्रिवृत्करणप्रकारः अन्नमशितमित्यादिनानुप्रदर्श्यत तथा सति हि मनःप्राणवाचां तिसृणामपि अणीयस्त्वेन “अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागि” विरुध्येत। अतः प्रागेव त्रिवृत्कृतानां पृथिव्यादीनां पुरुषं प्राप्तानां “त्रिवृत्करणेन भवितव्यं अत्रिवृत्कृतानां तेषां कार्यारंभासामर्थ्यात्। अन्योन्यसंयुक्तानामेहि कार्यासंभसामर्थ्यं। तदेव च त्रिवृत्करणं तथा च स्मर्यते-” नानावीर्याः पृतग्भूतास्ततस्ते संहतिं विना। नाशक्नुवन् प्रजास्स्रष्टुमसमागत् कृत्स्नशः। समेत्यान्योन्य संयोगं परस्परसमाश्रयाः। महदाद्याविशेषांताह्यंडमुत्पादयंति त"इति अ एव च “अनेनैव जीवेनात्मनानुप्रविश्य नामरूपे व्याकरोत्। तासां त्रिवृतं त्रिवृतमेकैकामकरो"दि पाठक्रमोऽप्यर्थक्रमेण बाध्यते। अण्डान्तर्वर्त्यग्न्यादिषु त्रिवृत्करणप्रदर्शनं तु श्वेतकेतोश्शुश्रूषोरंडांतर्वर्तित्वेन तस्य बहिष्ठवस्तुषु त्रिवृत्करणप्रदर्शनायोगात्। त्रिवृत्कृतानां कार्येष्वग्न्यादिषु त्रिवृत्करणप्रदर्शनं” कृतमित्यविरोधः। नन्वंडांतर्गतानां सर्वेषां त्रिवृत्कृततेजोबन्नरूपत्वे व्यवस्थिततेजोबन्नव्यवहारः” कथं स्यादित्यत्राह-॥वैशेष्यात्तु तद्वादस्तद्वादः॥ ‘पृथिव्यांशानां भूयस्त्वे पृथिवीव्यवहारः। जलांशानां भूयस्त्वे जलव्यवहार’इति व्यवहारव्यवस्थोपपद्यत इत्यर्थः। ‘तद्वादस्तद्वाद’इति सूत्रे द्विरुक्तिरध्यायसमाप्तिद्योतनार्था॥ इति संज्ञामूर्तिक्लृप्त्यधिकरणं॥इति चतुष्षष्टिप्रबन्धनिर्माणससूचितसर्वतंत्रस्वतंत्रताबिरुदाञ्चितैः श्रीमद्रङ्ग रामानुजमुनिभिरनुगृहीतायां” श्रीशारीरकब्रह्मसूत्रव्याख्यायां श्रीशारीरकशास्त्रार्थदीपिकायां द्वितीयाध्यायस्य चतुर्थः पादः॥ द्वितीयोऽध्यायस्समाप्तः॥ श्रीमते रङ्गरामानुजमहादेशिकाय नमः॥