32 इन्द्रियाधिकरणम्

॥त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात्॥ किं सर्वे प्राणशब्दनिर्दिष्टा इन्द्रियाणि उत मुख्यप्राणव्यतिरिक्ता एवेति विशये जीवोपकरणत्वाविशेषात् प्राणशब्दवाच्यत्वाविशेषाच्च मुख्यप्राणाश्चेन्द्रियाणीति पूर्वपक्षे प्राप्त उच्यते- त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात्। त एव वागादय इन्द्रियाणि। न तु श्रेष्ठप्राणः। ततः" श्रेष्ठप्राणादन्यत्रैव इतरेष्वेव ‘इन्द्रियाणि दशैकञ्चे’तीन्द्रियत्वव्यपदेशात्। किंच ‘भेदश्रुतेः’ ‘एतस्माज्जायते प्राणो मगस्सर्वेन्द्रियाणि चे’ति प्राणापेक्षया इन्द्रियाणां भेदव्यपदेशात् न श्रेष्ठः प्राणइन्द्रियम्। न च तत्रैव ‘मनस्सर्वेन्द्रियाणिचे’ति मनसोऽपि भेदव्यपदेशादिन्द्रियत्वाभावश्शक्यशङ्कः। ‘मनष्षष्ठानीन्द्रियाणि, इन्द्रियाणि दशैकञ्चे’त्यादीनां मनस इन्द्रियान्तर्भावग्राहकप्रमाणानां" परोक्तरीत्या ‘गामग्निं ब्राह्मणं चैव त्रीणि तेजांसि न स्पृशे’दित्यत्र अतेजोस्यां गोब्राह्मणाभ्यां" तेजस्संख्यापूरणवत्, ‘वेदानध्यापयामास महाभारतपञ्चमा’नित्यादाववेदेन भारतेन वेदसंख्यापूरणवच्च, अनिन्द्रियेण मनसेन्द्रिय संख्यापूरकतयाऽन्यथासिद्धत्वेऽपि ‘इन्द्रियाणां मनश्चास्मी’त्यनन्यथासिद्धप्रमाणसद्भावेन मनस इन्द्रियत्वध्रौव्यात्, मुख्यप्राणे इन्द्रियत्वग्राकप्रमाणाभावाच्च। अतः ‘प्राणो मनस्सर्वेन्द्रियाणी’ति श्रुतौ न गोबलीवर्दन्यायावतारः, मनसितु तदवतारोस्त्येवेति द्रष्टव्यम्॥॥भेदश्रुतेर्वैलक्षण्याच्च॥ ‘एतस्यैव सर्वे रूपमभवन्नि’ति चक्षुरादीन्द्रियाणां तदधीनप्रवृत्तित्वलक्षणकार्यवैलक्षण्यदर्शनाच्च इन्द्रियेभ्यो भिन्न एव प्राण इति॥ ॥इति इन्द्रियाधिकरणम्॥