31 ज्योतिराद्यधिष्ठानाधिकरणम्

॥ज्योतिराद्यधिष्ठानं तु तदामननात्प्राणवता शब्दात्॥ जीवस्य यत्स्वभोगसाधनशरीराद्यधिष्ठातृत्वं न तत्परमायत्तमिति पूर्वपक्षे प्राप्त उच्यते- ज्योतिराद्यधिष्ठानं तु तदामननात्प्राणवता शब्दात्। प्राणवता जीवेन सह ज्योतिरादीनां अग्न्यादिदेवतानां" यत्प्राणविषयमधिष्ठानं जीवेनाग्न्यादिदेवताभिश्च क्रियमाणं प्राणकर्मकाधिष्ठानं यत् तत् तदामननात् तस्य परमात्मन आमननात्सङ्कल्पादेव भवति। ‘योऽग्नौ तिष्ठन्नग्नेरन्तरोयमग्निर्न वेद यस्याग्निश्शरीरं" योऽग्निमन्तरोयमयति, य आत्मनि तिष्ठ’न्नित्यादिशब्दात्॥॥तस्य च नित्यत्वात्॥ सर्वेषां परमात्मनाधिष्ठितत्वस्य यावत्स्वरूपभावित्वाच्चेति स्थितम्॥ ॥इति ज्योतिराद्यधिष्ठानाधिकरणम्॥