॥अणुश्च॥ वाजसनेयके प्राणविद्यायां ‘यद्वेव समः प्सुषिणा समो मशके न समो नागे न सम एभिस्त्रिभिर्लोकैस्समो अनेन सर्वेणे’ति श्रुत्या यथा घटमदीपप्रभा तावन्मात्रव्यापिनी प्रासाददीपप्रभा च प्रासादव्यापिनी एवं मुख्यप्राणोऽपि ब्रह्मादिपिपीलिकांतरशरीरेषु तत्तच्छरीरानुरूपव्याप्तिगत्वेन विभुस्स्यादिति पूर्वः पक्षः। सिद्धान्तस्तु ‘तमुत्क्रामन्तं प्राणो नूत्क्रामती’ति इन्द्रियाणामिव मुख्यप्राणस्यापि उत्क्रांतिश्रवणादणुत्वमिति॥ ॥इति श्रेष्ठाणुत्वाधिकरणम्॥