29 वायुक्रियाधिकरणम्

॥न वायुक्रिये पृथगुपदेशात्॥ मुख्यःप्राणः किं वायुमात्रं उत तदीयस्पन्दनक्रिया उत वायुरेव कञ्चिदवस्थाविशेषमापन्न इति विशये ‘यः प्राणस्सवायुरि’ति श्रुतेः वायुमात्रं प्राणः। अथवा उच्छ्रासनिश्वासात्मकवायुक्रियायां प्राणशब्दप्रसिद्धेः" क्रियावा स्यादिति पूर्वपक्षे प्राप्त उच्यते- न वायुक्रिये पृथगुपदेशात्। ‘एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च। खं वायुर्ज्योतिराप’ इति वाय्वपेक्षया पृथगेव द्रव्योत्पत्तिप्रकरणे व्यपदेशान्नवायुमात्रं तत्क्रिया वा प्राणाः॥ तर्हि किमग्निवद्भूतान्तरं, नेत्याह-॥चक्षुरादिवत्तुतत्सहशिष्ठ्यादिभ्यः॥ चक्षुरादिवदयं जीवोपकरणविशेषः नतत्वान्तरं, प्राणसंवादादिषु चक्षुरादिभिस्सह प्राणस्य शासनं श्रूयमाणं" हि तत्साम्यमवगमयति। तथा मुख्यः प्राणइत्यादिव्यपदेशोऽपि प्रामशब्दितचक्षुरादिसाजात्यमेवावगमयतात्यर्थः।ननु प्राणस्यापि जीवोपकरणत्वे तद्वदुपकारविशेषक्रिया वक्तव्या। तदभावान्नोपकरणत्वमित्यत्राह- ॥अकरणत्त्वाच्च नदोषस्तथा हि दर्शयति॥ करणं क्रिया। उपकारकक्रियाराहित्याद्यो दोषः स नसंभवति। शरीरदारणलक्षणोपकारकक्रियां हि श्रुतिरेव दर्शयति- ‘अहमेवैतत्पञ्चधात्मानं विभज्यैतद्बाणमवष्ठम्य विधारयामी’ति ‘प्राणेन रक्षन्नपरं कुलाय’ मिति च। नत्वेवं नामभेदात्कार्यभेदाच्च प्राणापानादयस्तत्वांतंर स्युः, नेत्युच्यते-॥पञ्चवृत्तिर्मनोवद्व्यपदिश्यते॥ यथा ‘कामस्सङ्कल्पोविचिकित्सा श्रद्धाश्रद्धे’त्यादिवचनान्मनएव कार्यभेदाद्यथा कामादिशब्दैर्वयपदिश्यते, कामादयो नमनसस्तत्वांतरं, एवं ‘प्राणोपानोव्यानउदानस्समान इत्येतत्सर्वं प्राणएवे’तिवचने प्राणस्यैकस्यैव कार्यभेदात् प्राणापानव्यानोदानादित्ववचनान्नतत्वान्तरं प्राणापानादयः, इति सिद्धान्तितम्। अत्र च धर्मभूतज्ञानावस्थाविशेषाः" कामादयो मनसस्तत्वांतरमेवेति कथं कामादीनां तत्वान्तरत्वनिषेधइति वाच्यम्। ‘कामादिरूपज्ञानपरिणामहेतुत्वावस्थस्य मनसएव कामादिशब्दैः" अभिधानान्नतत्वान्तरं कामस्सङ्कल्प’ इत्यादिवाक्ये कामादिशब्दितमिति व्यासार्यैरुक्तत्वात्। ॥इति वायुक्रियाधिकरणम्॥