28 प्राणाणुत्वाधिकरणम्

॥अणवश्च॥ ‘सर्वएव समास्सर्वे अनंता’ इत्यानंत्यश्रवणात् प्राणशब्दितानामिन्द्रियामणां विभुत्वमिति पूर्वपक्षे प्राप्त उच्यते- अणवश्च ‘तमुत्क्रामंतं प्राणोनूत्क्रामती’त्यादिनोत्क्रान्तिश्रवणात् परमितत्वे सिद्धे उत्क्रांत्यादौ पार्श्वस्थैरनुपलभ्यमानत्वादणवश्च प्राणा भवन्ति। ‘अनन्तानुपास्त’ इत्यानन्त्यश्रुतिस्तु दर्शनश्रवणाद्यनन्तकार्यविशिष्ठतया तदुपासनविधिपरेति मन्तव्यम्॥॥श्रेष्ठश्च॥ ‘आनीदवातं स्वधया ददेक’मिति महाप्रलये प्राणकार्याननश्रवणात् मुख्यप्राणोत्पत्तिवादो जीवोत्पत्तिवादवन्नेतव्य इति शंकायामाह-प्राणश्चोत्पद्यते। ‘श्रेष्ठप्राणोऽपि इन्द्रियवदुत्पद्यते। आनीदवात’मिति परब्रह्मणएकस्यैव विद्यमानत्वमुच्यते। न मुख्यप्राणस्य। ‘अवात’मिति वायुमात्रसत्तायास्तत्रैव प्रतिषिद्धत्वात्॥ ॥इति प्राणाणुत्वाधिकरणम्॥