॥तथा प्राणाः॥ ‘असद्वा इदमग्रआसीत् तदाहुः किं तदासीदिति ऋषयो वायते अग्रे सदासीत्तदाहुः के ते ऋषय इति प्राणावा ऋषय’ इति जगदुत्पत्तेः प्राक् प्राणशब्दितानामिन्द्रियाणां सद्भावश्रवणात् प्राणोत्पत्तिवादिश्रुतयो जीवोतपत्तिवादिश्रुतिवदन्यथा नेया इति पूर्वपक्षे प्राप्त उच्यते- तथा प्राणाः। वियदादिवत् प्राणशब्दवाच्यानीन्द्रियाण्युत्पद्यन्त एव। सदेव सोम्येदमग्रआसीत्, आत्मावा इदमेकएवाग्र आसी’दित्यादिषु प्राक्सृष्टेरेकत्वावधारणात्, ‘एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि चे’ति इन्द्रियाणामाहत्योत्पत्तिश्रवणाच्च उत्पद्यन्त एव। नचेन्द्रियोत्पत्तिवादो जीवोत्पत्तिवदन्यथा नेयः, बाधकाभावात्। ‘प्राणा वा ऋषय’इत्यत्र प्राणाशब्दस्य सार्वज्ञ्यवाचि ऋषिशब्दसमानाधिकृततया परमात्मवाचित्वेनेन्द्रियवाचित्वाभावात्॥कथं तर्ह्येकस्मिन् परमात्मनि ‘प्राणावाव ऋषय’इति बहुवचनोपपत्तिरिति चेत् तत्राह- ॥गैण्यसंभवात्तत्प्राक्छ्रुतेश्च॥ बहुवचनश्रुतिर्गौणी। तत्र बहुत्वासम्भवात्। परमात्मन एव सृष्टेः प्रागवस्थानश्रुतेः, तस्यैव प्राणशब्देन प्रतिपादनीयत्वात्॥॥तत्पूर्वकत्वाद्वाचः॥ वागादीन्द्रियस्य वागिन्द्रियकार्याभिलपनकर्मभूतनामवाच्यवियदादिसृष्टिपूर्वकत्वात् प्रलये वागिन्द्रियादिकार्यशब्दाभिलापादिप्रयोजनाभावात् न प्रलये तेषामवस्थानमिति स्थितम्॥ ॥इति प्राणोत्पत्त्यधिकरणम्॥