॥अंशो नानाव्यपदेशादन्यथा चापिदाशकितवादित्वमधीयत एके॥ ‘ज्ञाज्ञौ द्वावजावीशनीशा’ वित्यादिभेदश्रुत्यनुरोधादभेदवादो जात्याद्यभेदाभिप्रायेण गौणोनेतव्यः। अथवा ‘तत्वमस्याद्यभेदश्रुत्यनुरोधाद्भेदव्यपदेश औपाधिकभेदपरतया नेतव्यइत्येवं पूर्वपक्षे प्राप्त उच्यते– अंशोनानाव्यपदेशादन्यथाचापि दाशकितवादित्वमधीयत एके॥नानाव्यपदेशात् = भेदव्यपदेशात्। अन्यथाचापि = अभेदेनापि व्यपदेशात्, श्रुतिद्वयानुग्रहाय ब्रह्मणोंशोजीवइत्यवगम्यते। चिदचिद्विशिष्टं हि ब्रह्मणस्स्वरूपं। तत्र विशेषणभूतचिदंशस्यांतर्भूतत्वादभेदव्यपदेशोपपत्तिः। विशेष्यापेक्षया विशेषणस्य भिन्नत्वाद्भेदव्यपदेशस्याप्युपपत्तिः। ‘ब्रह्मदाशा ब्रह्मदासाब्रह्मेमे कितवाउते’ति दाशाकितवादीनामपि ब्रह्मत्वमेके शाखिनः अधीयते। नास्याभेदव्यपदेशस्य गौणत्वं वक्तुं युज्यते। नापि सृज्यत्वसंहार्यत्वादिलक्षणभेदव्यपदेशस्य मानांतरासिद्धार्थाभिधायिनोऽनुवादित्वं गौणत्वं वा वक्तुं" युज्यते। अतोव्यपदेशद्वयमुख्यत्वायनीलगोत्वाद्यपृथक्सिद्धविशेषणभूतरूपजात्यादिविशिष्टद्रव्यस्य यथा रूपजात्यादिविशेषणमंशः एवमपृथक्सिद्धविशेषणभूतशक्तिस्थानीयो जीवोंऽश इत्यर्थः॥॥मंत्रवर्णात्॥ ‘पादोऽस्य विश्वाभूतानी’ति मंत्रवर्णेन सर्वजीवानां भूतशब्दितानां पादशब्दितांशत्वप्रतिपादनाच्च जीवो ब्रह्मविशेषणांशः॥।अपि स्मर्यते॥ ‘ममैवांशो जीवलोक’ इति गीतावचनाच्च अंशत्वं। ननु जीवस्यांशत्वे जीवस्य ब्रह्मैकदेशत्वावश्यंभावेन तद्गता दोषाः ब्रह्मणि स्युः। नेत्युच्यते॥॥प्रकाशादिवत्तु नैवं परः॥ तुशब्दश्चोद्यं व्यावर्तयति। परः परमात्मा। एवं नजीववन्नदुष्टः। प्रकाशादिवत्। यथा प्रकाशगोत्वादिविशिष्टप्रभावद्गवादिद्रव्यस्य प्रभा गोत्वादिकमंशः, तादृशोऽयमंशः। नतु घटाकाशादिवत् तदेकदेशरूपः। अतो न जीवदोषेण परस्य दुष्टता॥।स्मरंति च॥ स्मरंति च पराशरादयः। ‘एकदेशस्थितस्याग्नेर्ज्योत्स्नाविस्तारिणी यथा। परस्य ब्रह्मणशक्तिस्तथेदमखिलं जग’दिति प्रकाशाद्यंशसाम्यं।ननु सर्वेषां जीवानां ब्रह्मांशत्वे समाने केषां चिद्वेदाध्ययनाद्यनुज्ञाकेषांचित्परिहार इति व्यवस्था कथं संगच्छतां। तत्राह– ॥अनुज्ञापरिहारौ देहसंबंधाज्ज्योतिरादिवत्॥ यथाऽग्न्यादेरेकरूपस्यैव श्रोत्रियचंडालागारादिसंबंधवशेन हेयत्वोपादेयत्वे, एवं ब्रह्मांशत्वाविशेषेऽपि जीवानां त्रैवर्णिकात्रैवर्णिकशरीरसंयोगाद्वेदाध्ययनाद्यनुज्ञापरिहारावुपपद्येते॥।असंततेश्चाव्यतिकरः॥ प्रतिशरीरं भिन्नानां जीवानामणुत्वेन सर्वत्रासंततत्वात् न भोगव्यतिकरदोषोऽपि भवति।ननु जीवब्रह्मभेदपक्षेऽपि अविद्याकृतोपाधिभेदाद्भोगसंकरत्स्यते। तत्राह- ॥आभास एव च॥ अखंडैकरसप्रकाशमात्रस्वरूपस्य ब्रह्मण अविद्याकृतस्वरूपतिरोधानतत्पूर्वकोपाधिभेदपरिकल्पन हेतुराभास एव। प्रकाशस्वरूपस्य तिरोधानं हि प्रकाशनाश एवेति पर्यवस्येत्।ननु पारमार्थिकोपाध्युपहितब्रह्मजीववादे उपाधिभेदहेतुभूतानाद्यदृष्टवशाद्भोगव्यवस्था भविष्यति। तत्राह- ॥अदृष्टानियमात्॥ ब्रह्मस्वरूपस्य छेदनभेदनाद्यसंभवेन सर्वेषामप्यदृष्टानामनियतत्वान्न भोगव्यवस्था सिध्येत्।ननु अदृष्टहेतुभूताभिसंध्यादिव्यवस्थया अदृष्टव्यवस्था तद्वारा भोगव्यवस्था च भविष्यतीत्यत्राह- ॥अभिसंध्यादिष्वपि चैवं॥ अभिसंध्यादीनामपि छेदनाद्यनर्हब्रह्मस्वरूपमात्रसंबंधित्वादव्यवस्था तदवस्थैव॥।प्रदेशभेदादिति चेन्नांतर्भावात्॥ ननु ब्रह्मस्वरूपस्यैकत्वेऽप्युपाधिसंबंधिप्रदेशभेदादुपपद्यते भोगव्यवस्थेति चेन्न। उपाधीनां" तत्र तत्र गमनात्सर्वप्रदेशानां सर्वोपाध्यंतर्भावेन भोगव्यतिरेकस्तदवस्थ एव प्रदेशभेदेनोपाधिसंबंधेऽपिसर्वस्य ब्रह्मप्रदेशत्वात् सर्वसंबंधिदुःखं ब्रह्मण एव स्यादिति ब्रह्मभावो महाननर्थआपद्येतेति। अतो जीवो ब्रह्मणो विशेषणांश इति स्थितं॥ ॥इति अंशाधिकरणम्॥ इति चतुष्षष्टिप्रबंधनिर्माणसंसूचितसर्वतंत्रताबिरुदांचितैः श्रीमद्रंग रामानुजमुनिभिरनुगृहीतायां श्रीशारीरकब्रह्मसूत्रव्याख्यायां" श्रीशारीरकशास्त्रार्थदीपिकायां द्वितीयाध्यायस्य तृतीयः पादः॥