॥परात्तु तच्छ्रुतेः॥ ‘कर्ता शास्त्रार्थवत्त्वा’दिति प्रतिपादितं जीवानां कर्तृत्वं न परमात्मायत्तम् । तथात्वे हि प्रवृत्तिनिवृत्त्योः सालभंजिकावदस्वतन्त्रं जीवं नियोजयतोर्विधिनिषेधशास्त्रयोरानर्थक्यं स्यादिति पूर्वपक्षे प्राप्त उच्यते - ‘परात्तु तच्छ्रुतेः । ‘तुशब्दः पक्षं व्यावर्तयति । तच्च कर्तृत्वं परात् परमात्मायत्तमित्यर्थः । ‘य आत्मानमन्तरो यमयती’ति तत्कर्तृत्वस्य परायत्तत्वश्रवणात् ॥नन्वेवं विधिनिषेधशास्त्रानर्थक्यं तत्राह -
॥कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः॥
परमात्मा जीवकृतं पूर्वप्रयत्नमपेक्ष्य तदनुमतिदानेन प्रवर्तयति । एवं सति विधिप्रतिषेधावैयर्थ्यानुग्राहकत्वादिकं सिध्यति । स भगवान् पुरुषोत्तमः अवाप्तसमस्तकामस्सर्वज्ञस्सर्वेश्वरः सत्यसंकल्पस्स्वमाहात्म्यानुगुणलीलाप्रवृत्तः एतानि कर्माणि समीचीनानि एतान्यसमीचीनानीति कर्मद्वैविध्यं सर्वं विधाय तदुपादानोचितदेहेन्द्रियादिकं तन्नियमनशक्तिञ्च सर्वेषां क्षेत्रज्ञानां सामान्येन प्रदिश्य स्वशासनावबोधिशास्त्रञ्च प्रदर्श्यान्तरात्मतयाऽनुप्रविश्यानुमन्तृतया च नियच्छंस्तिष्ठति । ते च क्षेत्रज्ञास्तदाहितशक्तयः तत्प्रदिष्टकरणकलेबरादिकाः तदाधाराः स्वयमेव स्वेच्छानुगुण्येन पुण्यापुण्यरूपे कर्मणी उपाददते । ततश्च पुण्यरूपकर्मकारिणं स्वशासनानुवर्तिनं ज्ञात्वा धर्मार्थकाममोक्षैर्वर्धयते । शासनातिवर्तिनं च तद्विपर्ययेण योजयति । अतस्स्वातन्त्र्यदयालुत्वादिवैकल्यचोद्यस्य नावकाशः । दया हि नाम स्वार्थनिरपेक्षा परदुःखासहिष्णुता । सा च स्वशासनातिवृत्तिव्यवसायिन्यपि वर्तमाना न गुणायावकल्पते । प्रत्युतापुंस्त्वमेवावहति । तन्निग्रह एव तत्र गुणः । अन्यथा शत्रुनिग्रहादीनामगुणत्वप्रसङ्गात् । स्वशासनातिवृत्तिमात्रेणानाद्यनन्त कल्पोपचितदुर्विषहानन्तापराधानङ्गीकारेण निरतिशयसुखसंवृद्धये स्वयमेव प्रयतेत । यथोक्तं - ‘तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयांति त’ इति ।
ननु कूपे पतन्तं बालकं दृष्ट्वा उपेक्षमाणस्यानुमतिं कृतवतो वा पुंसो नैर्घृण्यादिप्रसक्तिवत् स्वाहितकर्मप्रवृत्तपुरुषविषये उपेक्षकत्वे वा अनुमन्तृत्वे वा प्रयोजकत्वे वा सर्वेश्वरस्य तस्य निर्दयत्वादिकमवश्यंभावीति चेन्न । शास्त्रप्रवर्तनमुखेन सामान्येनाहितप्रवृत्तिनिवारणस्य कृतत्वान्नोपेक्षणम् । तत्तत्प्रवृत्तिकाले तु विशेषतो निवारकत्वाभावलक्षणमुपेक्षकत्वं तु स्वतन्त्रस्य न पर्यनुयोज्यम् । एतादृशस्वातन्त्र्यमेव दोष इति चेत्, तत्र किं प्रमाणम् । न प्रत्यक्षम् । तस्येश्वरविषये अप्रमाणत्वात् । नाप्यनुमानम् । तत्र हि किमीश्वराख्यं धर्मिणं शास्त्रैकसमधिगम्यमभ्युपेत्य तत्स्वातन्त्र्यस्य दोषत्वमनुमीयते । उतानभ्युपगम्य । अनभ्युपगमे हेतोराश्रयासिद्धिः । अभ्युपगमे धर्मिग्राहकेण शास्त्रेण तस्य गुणत्वेन प्रतिपन्नत्वात् कालात्ययापदिष्टत्वम् । चिकीर्षापूर्वककृतिमत्वेन सालभञ्जिकाविलक्षणतया जीवस्य कर्तृत्वान्न शास्त्रानर्थक्यम् ॥ प्रवर्तकज्ञानचिकीर्षोत्पादकत्वेन साफल्यात् । कालादिवत् साधारणकृतिहेतोरीश्वरस्य न वैषम्यादिप्रसक्तिश्च । उक्तञ्च भगवता पराशरेण ‘निमित्तमात्रमेवासौ सूज्यानां सर्गकर्मणी’ति । निमित्तमात्रं साधारणमित्यर्थः । गीतञ्च भगवताऽपि - ‘तस्य कर्तारमपि मां विध्यकर्तारमव्यय’मिति । साधारणं कर्तारं विद्धि असाधारणकर्तारं न विद्धीति हि तस्यार्थः । उक्तञ्च व्यासार्यैः - ‘वैयर्थ्यं" यावता न स्याद्विधानप्रतिषेधयोः । नियन्तृत्वश्रुतेस्तावान् संकोचो न त्वतः पर’ इति । नन्वेवं साधारणकारणत्वादिभिरेव सर्वकार्योत्पत्तिसंभवे ईश्वरस्य प्रयोजकत्वानुमन्तृत्वादिकं कुतोऽभ्युपगन्तव्यमिति चेत्, कल्पनायामेवेदृशचोद्यावकाशः । ‘अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा, एष ह्येव साधु कर्म कारयती’त्यादिप्रमाणप्रतिपन्नार्थे ईदृशचोद्यानवाकाशादिति । जीवस्य परमात्मायत्तकर्तृत्वे न कोऽपि दोषः । यत्वत्र परैरुक्तं - ‘स समानस्सन्नुभौ लोकौ संचरति ध्यायतीव लेलायतीवे’ति इवशब्दप्रयोगात् कर्तृत्वमात्मनो नास्त्येवेति तदसत् । पूर्वाधिकरणे सांख्याभिमतकर्तृत्वमात्मनः पूर्वपक्षीकृत्य कर्तृत्वस्य परैरपि सिद्धान्तितत्वात् । वस्तुस्थितौ चिन्त्यमानायामचेतनत्वात् कूटस्थत्वाच्च नान्तःकरणस्य वा चिते वा कर्तृत्वमित्यभ्युपगमस्य, परस्पराविवेकेन परस्परधर्माध्यास इत्यभ्युपगमस्य च, परेषां सांख्यानाञ्च साम्येन सांख्यपक्षात्परपक्षे वैषम्याभावेन ‘कर्ता शास्त्रार्थवत्वा’दित्यधिकरणविरोधस्य परपक्षे दुर्निरसत्वात् । न च ‘‘यथा च तक्षोभयथे’‘त्यत्र तत्त्वमसीत्यादिभिर्बहुकृत्वः कर्तृत्वाद्यनर्थानाश्रयब्रह्माभेदबोधनात्कर्तृत्वमपरमार्थ इति परैरुक्तमिति वाच्यम् । ‘यो वै बालाक एतेषां पुरुषाणां कर्ते’त्यादिवाक्यैर्ब्रह्मणस्सर्वकर्तृत्वावेदनेन ब्रह्माभेदबोधने सर्वकर्तृत्वापातेनाकर्तृत्वाप्रसक्तेः, ‘दृश्यते त्वग्र्यया बुध्या, मनसा तु विशुद्धेन, ध्यायन्तो मनसैव य’मिति करणत्वेन प्रतिपन्नस्य मनसः कर्तृत्वं ‘यो वेदेदं जिघ्राणीति स आत्मा ‘एष हि द्रष्टा श्रोता मन्ता कर्ता बोद्धा विज्ञानात्मा पुरुषः’ इति कर्तृत्वेन प्रतिपन्नस्याकर्तृत्वमित्युक्तेरयुक्तत्वात् विज्ञान शब्दिताया बुद्धेः कर्तृत्वे करणान्तराभ्युपगमप्रसङ्गात् प्रकृतिविवेकलक्षणसमाधौ प्रकृतेः कर्तृत्वासंभवेन आत्मनः पूर्वं कर्तृत्वमास्थेयमिति ‘शक्तिविपर्ययात्’, ‘समाध्यभावाच्चे’ति सूत्रयोः स्वयमेवोक्तत्वाच्च । कर्तृत्वादिबन्धस्यात्मगतत्वाभावे बन्धमोक्षयोर्वैयधिकरण्यप्रसङ्गात् । न च कर्तृत्वाद्यनर्थाश्रयान्तःकरणतादात्म्याध्यासाधिष्ठानभावलक्षणो वा ‘अविद्यास्तमयो मोक्षस्स संसार उदाहृत’ इत्युक्तरीत्या तदध्यासहेत्वविद्यालक्षणबन्धो वा आत्मगतस्संभवतीति वाच्यम् । ‘तदधीनत्वादर्थव’दिति सूत्रे अविद्यात्मिका हि सा बीजशक्तिरव्यक्तशब्दनिर्देश्या परमेश्वराश्रया मायामयी महासुप्तिः यस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवाः, तदेवाव्यक्तं क्वचिदाकाशशब्दनिर्दिष्टं ‘एतस्मिन्नु खल्वक्षरे गार्गि आकाश ओतश्च प्रोतश्चेति, क्वचिदक्षरशब्दोदितं ‘अक्षरात्परतः पर’ इति श्रुतेः । क्वचिन्मायेति निर्दिष्टं ‘मायां तु प्रकृतिं विद्यादि’ति मन्त्रवर्णादिति शङ्करभाष्ये परमेश्वराश्रिताया एवाविद्यायाः प्रतिपादनेन तन्मते जीवचैतन्ये संसारासंभवात् । न च वाचस्पतिना परमेश्वराश्रयेत्यत्र ‘परमेश्वरं विषयत्वेनाश्रयती’ति परमेश्वरविषयेत्यर्थः । विद्यास्वरूपस्य परमात्मनो विद्याश्रयत्वासंभवात् । यस्यां स्वरूपप्रतिबोधरहिताश्शेरत इत्यत्रापि यस्यामविद्यायां सत्यां शेरते जीवा इत्येवार्थः । अतश्च जीवाश्रया एवाविद्याः । न चाविद्योपाधिभेदाधीनो जीवभेदः, जीवभेदाधीनोऽविद्योपाधिभेद इति परस्पराश्रयादुभयासिद्धिरिति वाच्यम् । बीजांकुरन्यायेनानादित्वादुभयसिद्धेरिति अविद्यानां जीवाश्रितत्वमेव समर्थितमिति वाच्यम् । न च तस्याः जीवाश्रयत्वम् । जीवशब्दवाच्यस्य कल्पितत्वात् आविद्यकत्वाज्जीवशब्दवाच्यस्य, जीवशब्दलक्ष्यस्य तु ब्रह्माव्यतिरिकेण ब्रह्माश्रयत्वपक्षस्यैवाश्रितत्वापातादित्यानंदगिरिप्रभृतिभिस्तस्य पक्षस्य दूषिततया ‘आश्रयत्वविषयत्वभागिनी निर्विशेषचितिरेव केवला । पूर्वसिद्धतमसो हि पश्चिमेनाश्रयो भवति नापि गोचर’ इत्युक्तरीत्या चिन्मात्रस्यैवाविद्याश्रयत्वेन जीवस्य बंधाश्रयत्वासंभवात् । न च बन्धो मोक्षश्च न जीवाश्रितः, अपि तु चिन्मात्राश्रित एव, अतस्संभवत्येव बन्धमोक्षयोस्सामानाधिकरण्यमिति वाच्यम् । अस्मिन्पक्षे मुक्तिर्नाम चिन्मात्राश्रितांतःकरणतादात्म्याध्यासाधिष्ठानभावापादकाऽविद्यानिवृत्तिरेव वाच्या । तत्र चाविद्यैक्यपक्षे एकमुक्तौ सर्वमुक्तिप्रसंगः । नच कस्यापि मुक्तिर्नास्तीति शक्यं वक्तुम् । ‘शुकस्तु मारुताच्छीघ्रां गतिं कृत्वांतरिक्षगाम् । दर्शयित्वा प्रभावं स्वं सर्वभूतगतोऽभवत् ॥ तद्धैतत्पश्यन् ऋषिर्वामदेवः प्रतिपेदे, तद्यो यो देवानां प्रत्यबुध्यत स एव तदभव’ दित्यादिप्रमाणविरोधप्रसंगात् । अतोऽविद्यानानात्वेऽभ्युपगन्तव्ये तत्र च चिन्मात्राश्रितसर्वाविद्यानामेकविद्यानिवर्त्यत्वे एकमुक्तौ सर्वमुक्तिप्रसङ्गदोषतादवस्थ्यात्, एकाविद्यानिवृत्तिमात्राभ्युपगमे चाविद्यांतराश्रयत्वस्य चिन्मात्रे पूर्वमिव स्थितत्वेनांतःकरणतादात्म्याध्यासाधिष्ठानभावलक्षणसंसारानिवृत्ते-स्तदवस्थत्वात् । अतस्सोऽप्यनुपपन्नः । नन्वहमिति भासमाने अविद्यान्तःकरणोपाधिभेदभिन्ने चिदंशे अविद्यानिवृत्तिरुद्देश्येति चेन्न । अविद्याया अन्तःकरणस्य वा न दर्पणादिवत् प्रतिबिम्बनोपाधित्वं सम्भवति । दर्पणाद्युपाधिप्रतिहतनायनरश्मिगृह्यमाणस्य बिम्बस्यैव प्रतिबिम्बतया चक्षुषा अगृह्यमाणस्य चिदंशस्य प्रतिबिंबत्वासंभवेन घटादिवदवच्छेदकतयोपाधित्वे वक्तव्ये अन्तःकरणस्य संचरत उपाधित्वे अवच्छेद्यचैतन्यप्रदेशस्य भिन्नभिन्नतया कृतहानाकृताभ्यागमप्रसंगेन व्यापिन्या एवाविद्याया अवच्छेदकतयोपाधित्वे वक्तव्ये सर्वस्याप्यविद्यांतर्गतचित्प्रदेशस्य सर्वाविद्यावृतत्वेन एकस्य ब्रह्मविद्यया एकाविद्याया नाशेऽप्यविद्यांतरायत्तसंसारतादवस्थ्यात्, अविद्यावच्छिन्नविकारप्रदेशे अनवच्छिन्नस्य ब्रह्मणोऽवस्थानासंभवेन ब्रह्मणो विकारांतरवस्थान-प्रतिपादकांतर्यामिब्रह्मणानांजस्यप्रसंगाच्च । अंतर्यामिब्राह्मणस्य जीवविषयत्वाभावस्यांतर्याम्यधिकरणसिद्धत्वात् । नहि घटानवच्छिन्नाकाशस्य घटांतरवस्थितिस्संभवति । ‘अत्र ब्रह्म समश्नुत’ इति तन्मते अत्रैव ब्रह्मभावावेदकश्रुतिव्याकोपश्च स्यात् । अविद्यावच्छिन्नदेशे अनवच्छिन्नब्रह्मभावासम्भवात् । विकारांतरवस्थितस्य च गीताचार्यस्य भगवतः कृष्णस्य जीवत्वमेव स्यात् । ततश्च चिदाश्रितसर्वाविद्यानिवृत्तिकामनारूपमुमुक्षाया असंभवात्, एकाविद्यानिवृत्तिमात्रेण संसारस्यानपायात्, मुमुक्षाब्रह्मविचारादिकं वा एतादृशविवेकशालिनां न स्यात् । अत एव न प्रतिबिम्बो नाप्यवच्छेदो जीवः । अपितु कौन्तेयस्यैव राधेयत्ववत् ब्रह्मणः एवाविकृतस्याविद्यया जीवभाव इति पक्षोऽपि व्युदस्तः । तथासति नित्यमुक्तश्रुतेर्निर्विषयत्वप्रसङ्गात् । पारमार्थिकशोकाभावाभिप्राया नित्यमुक्तत्वश्रुतिरिति चेत् मोक्षे शोकाभावश्रुतेरपि पारमार्थिकशोकाभावविषयत्वप्रसंगात् । ‘विवादगोचरतापन्नप्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषयावरणस्वनिवर्त्यस्वदेशगत वत्स्वंतरपूर्वक’मित्यज्ञानस्य ज्ञानसमानाधिकरणत्वस्य विवरणे प्रतिपादितत्वात्, ‘जडस्याज्ञानाश्रयत्वे च भ्रांतिसम्यज्ज्ञानयोरपि तदाश्रयत्वप्रसंग’ इति विवरणकृतोक्तत्वाच्च, ज्ञात्राश्रितत्वेऽज्ञानस्य तदधीनं कर्तृत्वादिकमपि तस्यैव । ततश्चाज्ञानस्य ज्ञानाश्रयशुद्धजीवाश्रितत्वात् कर्तृत्वादिकमप्यज्ञानाश्रयशुद्धजीवाश्रितमेवेति सिद्धम् । ततश्च ‘ध्यायतीवेति जीवशब्दप्रयोगः परतंत्रप्रभौ ‘प्रभुरिवे’त्युक्तिवत् । अतः परतंत्रकर्तृत्वाश्रयत्वाज्जीवस्य इवशब्दप्रयोग उपपद्यत इत्येवास्थेयम् ॥
॥इति परायत्ताधिकरणम्॥