॥कर्ता शास्त्रार्थवत्त्वात्॥ जीवो न कर्ता तस्यानाधेयातिशयत्वेन आत्मनि कृतेरसंभवात्। ‘असंगोह्ययं पुरुष’इति श्रुत्या असंगत्वावगमेन कृतिनिमित्तसंयोगाद्यभावाच्च। हंताचेन्मन्यते हतं। उभौ तौ न विजानीतो नायं हन्ति नहन्यत’ इति आत्मनः कर्तृत्वस्य प्रतिषिद्धत्वात् ‘प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः। अहंकाराविमूढात्मा कर्ताऽहमिति मन्यते’ ‘नान्यंगुणेभ्यः कर्तारं यदाद्रष्टाऽनुपश्यती’त्यादिस्मरणाच्चांतः" करणरूपेण परिणता त्रिगुणात्मिका प्रकृतिरेव कर्त्री न जीव इति पूर्वपक्षे प्राप्त उच्यते- कर्ताशास्त्रार्थवत्वात्। आत्मैव कर्ता। न प्रकृतिः। ‘ज्योतिष्टोमेन स्वर्गकमो यजेते’त्यादि शास्त्राणामर्थवत्त्वावश्यम्भावात्। शास्त्रं ह्यप्रवृत्तस्य प्रवर्तकज्ञानोत्पादनद्वारा प्रवृत्तिमुत्पाद्य साफल्यंगच्छेत्। अन्तः" करणादेरचेतनस्य प्रवर्त्यत्वे तस्याचेतनत्वेन प्रवर्तकज्ञानोत्पादनासम्भवात् शास्त्रं विफलमेव स्यात्। न चात्मनोऽनाधेयातिशयत्वात् कृत्यभावश्शंक्यः।सुखदुःखाद्यतिशयस्य प्रत्यक्षसिद्धत्वेनानाधेयातिशयत्वासिद्धेः। न च कृतिनिमित्तसंयोगाभावः। ‘आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिण’ इति निमित्तसंयोगस्य श्रुत्या प्रतिपादनात्। असङ्गत्वश्रुतेस्तु जाग्रद्दशायां स्वप्नदृष्टेन जीवस्य सम्बन्धाभावमात्रपरत्वात् ‘हन्ताचेन्मन्यते हन्तु’मिति श्रुतेर्हननक्रियायां नित्यस्यात्मनः" कर्तुकर्मभावनिषेधपरत्वेन कर्तृत्वसामान्य प्रतिक्षेपकत्वाभावात्। यच्च ‘प्रकृतेः क्रियमाणानी’त्यादिना गुणानामेव कर्तृत्वं स्मर्यत इति तत्सांसारिकप्रवृत्तिष्वस्यात्मनः कर्तृता सत्वरजस्तमोगुणसंसर्गकृता न स्वरूपप्रयुक्तेति प्राप्ताप्राप्तविवेकेन गुणानामेव कर्तृत्वमित्युच्यते। तथा च तत्रैवोच्यते-‘कारणं" गुणसङ्गोऽस्य सदसद्योनिजन्मस्वि’ति। अत एव ‘अधिष्ठानं तथा कर्ता करणञ्च पृथग्विधम्। विविधा च पृथक्चेष्टा दैवञ्चैवात्र पञ्चमम्॥ तत्रैवंसति कर्तारमात्मानं केवलं तु यः। पश्यत्यकृतबुद्धित्वान्नसपश्यति दुर्मति’रिति अधिष्ठानसापेक्षे सत्यात्मनः कर्तृत्वे यः केवलमात्मानं कर्तारं पश्यति स न पश्यतीति केवलस्यैवात्मनः कर्तृत्वं निषिध्यते॥॥उपादानाद्विरोपदेशाच्च॥ ‘स यथा महाराज’ इति प्रकृत्य ‘एवमेवैष एतत्प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तत’इत्याद्युपादानविहारयोः कर्तृत्वोपदेशात्॥॥व्यपदेशाच्चक्रियायां नचेन्निर्देशविपर्ययः॥ ‘वॢज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि चे’ति लौकिकवैदिकक्रियासु कर्तुत्वव्यपदेशाच्चात्मा कर्ता॥ ननु न विज्ञानशब्देन आत्मनो व्यपदेशः। किन्तु बुद्धेरिति चेत् तथासति बुद्धेः करणत्वात् ‘विज्ञानेन यज्ञं तनुत’इति निर्देशस्स्यात्॥।उपलब्धिवदनियसः॥ यथात्वात्मनो विभुत्वे सार्वात्रिकोपलब्धिस्स्यादित्युपलब्ध्यनियमः प्रसज्यते, एवमात्मनोऽकर्तृत्वे प्रकृतेश्च कर्तृत्वे तस्यास्सर्वपुरुषसाधारणत्वात् सर्वाणि कर्माणि सर्वेषां भोगाय स्युः। अन्तः" करणादयोपि नियामकाभावादनियतास्स्युः॥॥शक्तिविपर्ययात्॥ बुद्धेः कर्तृत्वे भोक्तृत्वस्य कर्तृत्वसामानाधिकरण्याद्भोक्तृत्वमपि बुद्धेरेव स्यात्। ततश्च ‘पुरुषोऽस्ति भोक्तृभावा’दिति सांख्यदर्शनमसङ्गतमेवस्यात्॥।समाध्यभावाच्च॥ प्रकृतेः कर्तृत्वे आत्मनश्चाकर्तृत्वे प्रकृतिविविक्तात्मज्ञानलक्षणा समाधिश्च लुप्येत। प्रकृतेः" तादृशज्ञानसंभवात्। आत्मनोनिष्क्रियस्य कर्तृत्वामङ्गीकाराच्च॥ननु आत्मनः कर्तृत्वे स्वाभाविके सति सर्वदा कर्तृत्वं स्यात्। ॥यथाच तक्षोभयथा॥ यथा तक्षा सत्यामिच्छायां वाश्यादिसहकारिसम्पत्तौ करोति, नान्यदा, तथा आत्मापि इच्छादिसंपत्तौ करोति इतरथा न करोतीत्युपपद्यते। न च कर्तृत्वस्यानौपाधिकत्वे यावद्द्रव्यभावित्वमिति नियमः, बदरफले श्यामरक्तरूपयोरनौपाधिकयोरपि यावद्द्रव्यभावित्वादर्शनादिति सिद्धान्तितं। अनेनैवात्मनः कर्तृत्वसमर्थनेन बुद्धिगतं करणमिति लोकवेदयोः करणत्वेन प्रसिद्धाया बुद्धेः कर्तृत्वसमर्थनेन बुद्धिगतं कर्तृत्वमात्मन्यध्यस्यत इति बदंतो मृषावादिनोऽपि पराकृताः। अन्तः करणमिति लोकवेदयोः करणत्वेन प्रसिद्धाया बुद्धेः कर्तृत्वासंभवात्। ‘शक्तिविपर्यया’दिति सूत्रे बुद्धेः करणशक्तिर्हीयेत। कर्तृशक्तिश्चापद्येत। सत्यां च कर्तृशक्तौ कर्तृशक्तियुक्तायास्तस्याः करणमन्यत्कल्पनीयं स्यात्। शक्तेऽपि हि कर्ता लोके करणमुपादाय प्रवर्तत इति। ततश्च नाममात्रे विवादस्स्यात्। नार्थभेदः कश्चित्। करणव्यतिरिक्तस्य कर्तृत्वाभ्युपगमादिति परैरुक्तत्वात् ‘गुहां प्रविष्टा’विति सूत्रे च वस्तुतो नैकस्यापिकर्तृत्वं बुद्धेरचेतनत्वादात्मनो निर्विकारत्वादिति परैरेवोक्तत्वाच्चांतः करणगतं कर्तृत्वमात्मन्यध्यस्यत इत्युक्तिः पुर्वाषरविरुद्धैवेत्यास्तांतावत्॥ ॥इति कर्त्रधिकरणम्॥