22 ज्ञाधिकरणम्

॥ज्ञोऽतएव॥ ‘यो विज्ञाने तिष्ठन्, विज्ञानं यज्ञं तनुते, ‘ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थत’ इति श्रुतिस्मृतिभिर्ज्ञानस्वरूपत्वस्यैवात्मनः" प्रतीतेः नज्ञाता। अथवा ‘योवेदेदं जिघ्राणीति स आत्मा, एष हि द्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुष’ इति श्रवणात् ‘अहं जानाम्यहमज्ञासिष’ मित्याद्यनुभवाच्चागन्तुकज्ञानाश्रय एव। न स्वयंज्ञानरूपः। ज्ञानरूपत्ववचनानितु लाक्षणिकानीत्येवं पूर्वपक्षे प्राप्ते उच्यते- ‘ज्ञोऽतऎव’ अतएव ‘एषहि द्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुष’ इति विज्ञानात्मन एव जीवस्य द्रष्टृत्वादिश्रुतेरेवं ज्ञानात्मकोऽपि स्वाभाविकज्ञानाश्रयत्वे तज्ज्ञानस्य सर्वपदार्थ सम्बन्धात् सार्वऽयं सर्वदास्यादित्याशंक्याह-॥उत्क्रांतिगत्यागतीनाम्॥ ‘तेनप्रद्योतेनैष आत्मानिष्क्रामति, येवैकेचास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वेगच्छन्ति, तस्माल्लोकात्पुनरैत्यस्मैलोकाय कर्मण’ इति जीवस्य उत्क्रांतिगत्यागतीनां श्रवणाज्जीवो नविभुः॥ननु शरीरादुत्क्रमणं नाम शरीरविषयकाभिमानराहित्यं। तच्च विभोरप्यात्मनस्संभवतीत्यत्राह- ॥स्वात्मनाचोत्तरयोः॥ चशब्दोऽवधारणे। उत्क्रमणस्य कतंचित्संभवेऽपि उत्तरयोर्गमनामगनयोस्स्वरूपेणैव संपाद्यत्वात् विभुत्वे तदसंभवः। किञ्च भूतकरणग्रामासंपरिष्वक्तस्यैव ‘एतास्तेजोमात्रास्समभ्याददानो हृदयमेवान्ववक्रामति, शुक्रमादाय पुनरेति स्थान’मिति शरीर एव स्वात्मनैव गत्यागतिश्रवणात् विभुत्वे च तयोरसंभवान्न विभुरात्मा॥॥नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात्॥ ‘योऽयं विज्ञानमयःप्राणेष्वि’ति जीवं प्रस्तुस्य ‘स एष महानज आत्मे’ति महत्वश्रुतेर्नाणुर्जीव इति चेन्न। ‘यस्यानुवित्तः प्रतिबुद्ध आत्मे’ति जीवेतरं परमात्मानमधिकृत्य तस्यैव तत्र महत्वप्रतिपादनात्॥॥स्वशब्दोन्मानाभ्यांच्च॥ ‘एषोऽणुरात्मा चेतसा वेदितव्य’ इति अणुत्वलक्षणस्य स्वस्य वाचकशब्दश्रवणात् ‘वालाग्रशतभागस्य शतधाकल्पितस्य च। भागो जीवस्स विज्ञेय’ इति अणुसदृशं वस्तूद्धृत्य तन्मानत्वस्य जीवे आमननाच्चाणुरेव॥ननु अणुत्वे सत्येकदेशस्थस्य कथं सकलदेहव्यापिवेदनोपलंभ इत्यत्र मतांतरेण परिहारमाह- ॥अविरोधश्चंदनवत्॥ यथा हरिचन्दनबिन्दुः शरीरैकदेशस्थोऽपि सकलदेहव्यापिनमाह्लादं करोति, एवं जीवोऽपि भविष्यति॥॥अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदिहि॥ हरिचन्दनबिंद्वादेर्हृदयादिरूपदेशविशेषावस्थितिविशेषादस्ति तथाभावः, आत्मनो न देशविशेषावस्थितिरिति कथं तथात्वमिति चेन्न। ‘हृदि ह्यमात्मे’ति जीवस्यापि शरीरप्रदेश विशेषावस्थित्यभ्युपगमात्॥अथ स्वमतेन परिहारमाह- ॥गुणाद्वा लोकवत्॥ वाशब्दो मतांमख्यावृत्त्यर्थः। लोके यथा एकदेशस्थानामपि मणिद्युमणिप्रभृतीनां प्रभा व्यापिनी, एवमेकदेशस्थितस्यापि जीवस्य प्रभास्थानीयधर्मभूतज्ञानव्याप्त्या सर्वांगीणसुखदुःखाद्यनुभवसंभवात् न अनुपपत्तिः॥ननु आत्मव्यतिरिक्तं ज्ञानं नास्तीत्यत्राह- ॥व्यतिरेको गंधवत्तथा च दर्शयति॥ यथा गन्धस्य पृथिवीव्यतिरेकः प्रत्यक्षसिद्धः, तथा ‘अहं जानामी’ति ज्ञानस्यात्मव्यतिरेकः प्रत्यक्षसिद्धः। जानात्येवायं पुरुषइति।श्रुतिश्च तथा दर्शयति- ॥पृथगुपदेशात्॥ विज्ञानात्मनोः पृथक्कृत्य ‘न हि विज्ञातुर्विज्ञातेर्विपरिलोपो वेद्यत’इति तत्तद्वाचकशब्दैरेव पृथगुपदेशदर्शनादात्मधर्मभूतं ज्ञानमस्त्येव॥ननु ज्ञानस्यात्मापेक्षया पृथक्त्वे ‘यो विज्ञाने तिष्ठ’न्नित्यादिश्रुतीनां कागतिरित्यत्राह- ॥तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत्॥ तुशब्दश्चोद्यं व्यावर्तयति। जीवे विज्ञानगुणस्यैव सारभूतगुणत्वात् तद्विज्ञानमिति जीवो व्यपदिश्यते। यथा प्राज्ञस्य परमात्मनः आनन्दगुणसारत्वात् ‘यदेष आकाश आनन्दो नस्या’दिति आनन्दशब्देन व्यपदेशः-॥यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात्॥ यथा गोत्वादीनां यावद्गोव्यक्तिभावित्वाद्गोत्ववाचिभिर्गवादिशब्दैर्व्यक्तिनिर्देशो दृश्यते, एवमेव ज्ञानरूपधर्मस्य यावदात्मभावित्वात्तद्वाचक शब्देन धर्मिणो व्यपदेशो न दोषायेत्यर्थः। अत्र चकारात् ज्ञानवदात्मनोऽपि स्वप्रकाशत्वेन ज्ञानमिति व्यपदेशो न दोषायेति समुच्चिनोति- ननु सुषुप्त्यादिषु ज्ञानाभावान्नज्ञानस्य यावदात्मभाविधर्मत्वं तत्राह-॥पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात्॥ यथा सर्वदा विद्यमानस्य पुंस्त्वव्यञ्जकधातोः यौवनेऽभिव्यक्तिः, एवं सर्वदा विद्यमानस्यापि ज्ञानस्येन्द्रियसंप्रयोगदशायामभिव्यक्तिः। अतश्च ज्ञानस्वरूपोऽणुरात्मा च ज्ञाता च॥ननु ज्ञानरुपएवात्मा विभुरस्तु तत्राह- ॥नित्योपलब्ध्यनुपलब्धिप्रसंगोऽन्यतरनियमोवाऽन्यथा॥ किं सर्वगत आत्मा उपलब्धेरेव वा अनुपलब्धेरेव वा हेतुः। उतोभयत्र। आद्यपक्षद्वये उपलब्धिरेव वा अनुपलब्धिरेववेत्यन्यतरनियमस्स्यात्। तृतीयपक्षे सर्वदा उपलब्ध्यनुपलब्धी स्याताम्। ततश्चोपलम्भानुपलम्भौ पर्यायेण दृश्यमानौ नोपपद्येयाताम्। अणोर्ज्ञानस्वरूपस्यैवात्मन इन्द्रियसंप्रयोगादिकारणमहिम्ना कादाचित्की धर्मभूतज्ञानाभिव्यक्तिरिति। सिद्धान्त पक्षे तु नानुपपत्तिरिति स्थितम्॥ ॥इति ज्ञाधिकरणम्॥