21 आत्माधिकरणम्

यथा ‘वायुश्चान्तरिक्षं चैतदमृत’मिति वाय्वन्तरिक्षयोर्नित्यत्व श्रवणेऽपि ‘आत्मन आकाशस्सम्भूतः, आकाशाद्वायु’रिति च तयोरुत्पत्तिश्रवणेन तदेकविज्ञानेन सर्वविज्ञानसिध्यर्थं च सर्ववस्तुनो ब्रह्मविकारत्वस्य अवश्याश्रयणीयत्वादुत्पत्तिरंगीक्रियते, एवं जीवानां नित्यत्वश्रवणेऽपि ‘तोयेन जीवान् विससर्ज भूम्यां, प्रजापतिः प्रजा असृजते’ति जीवानामपि सृष्टिश्रवणात् एकविज्ञानेन सर्वविज्ञानसिध्यर्थं" च जीवस्यापि सृष्टिरभ्युपगन्तव्येति पूर्वपक्षे प्राप्त उच्यते- ॥नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः॥ आत्मा नोत्पद्यते। ‘न जायते म्रियते वा विपश्चित्, ज्ञाज्ञौ द्वावजा’विति उत्पत्तिनिषेधश्रुतेः" ताभ्य एव श्रुतिभ्यो नित्यत्वावगमाच्च। न च उत्पत्ति श्रुतेः सर्वविज्ञानप्रतिज्ञायाश्च विरोधश्शंक्यः। स्वरूपस्य नित्यत्वेऽपि ज्ञानसंकोचविकासलक्षणान्यथाभावरूपावस्थान्तरापत्तिसत्वेन उत्पत्तिश्रुतेस्सर्व विज्ञानप्रतिज्ञायाश्च उपपत्तेः। उत्पत्तिनिषेधश्रुतेश्च स्वरूपान्यथाभावलक्षणोत्पत्त्यभावपरतयाऽविरोधात्। इयांस्तु विशेषः। चिदचिदीश्वराणां त्रयाणामपि अवस्थान्तरापत्तिलक्षणोत्पत्तिरूपो विकारोऽस्त्येव। तथाऽपि अचेतनानां स्वरूपान्यथाभावलक्षणोत्पत्तिः। जीवानांतु सा नास्ति। अपि तु ज्ञानसङ्कोचविकासलक्षणस्वभावान्यथाभावरूपा। ईश्वरस्य तत्तन्नियन्तृत्वाद्यवस्थासत्वेऽपि उक्तलक्षणानिष्टद्वयाभावात् ‘नित्योनित्याना’मिति इतरविलक्षणनित्यत्वोक्तिरिति। न चेदं मंत्रद्वयं" परविषयमिति शक्यं वक्तुं। ‘न हन्यते हन्यमाने शरीर’ इत्येतद्विवरणरूपत्वाद्वितीयमन्त्रस्य। ‘हन्ताचे’दिति मंत्रश्च जीवविषयएव। लोकस्य परमात्मनि हन्तृहन्तव्यभावप्रतिपत्त्यभावात्। परमात्माहि प्रत्यक्षागोचरः। कथं तस्मिन् वध्यत्वादिप्रतिपत्तिः। ‘अहमेनं हन्मि, अयं मां हन्तुमागच्छती’ति वध्यघातुकभावाभिमानोहि देहिनां जीविषय एव। ननु ‘नास्य जरयैतज्जीर्यत’ इतिवत् परमात्मनोऽपि हननप्रतिषेध उपपद्यते। सत्यं" दहराकाशस्य देहान्तस्स्थित्या शङ्कितविकारनिषेध उपपद्यते। इह तु लोकसिद्धभ्रान्तिरर्थन्निरस्यते। न हि परमात्मनि वध्यघातकभावभ्रान्तिः कस्याप्यस्ति। अतोऽनुवादनिषेधावनुपपन्नौ। ‘न जायत’ इति मंत्रश्च तेनैकार्थः। न च वेदान्तवेद्यपरिशुद्धात्मस्वरूपे कथं हननादिप्रसक्तितत्पूर्वकनिषेधाविति वाच्यम्। तस्यैव क्षेत्रज्ञतया तत्प्रयुक्ततत्सम्भवात्। अतो मंत्रद्वयमपि जीवविषयकमिति द्रष्टव्यम्॥ ॥इति आत्माऽधिकरणम्॥