20 तेजोधिकरणम्

॥तेजाऽतस्तथाह्याह॥ ‘वायोरग्निः, अग्नेरापः, अद्भ्यः पृथिवी’ त्यादौ वायुरूपाद्ब्रह्मणः अग्निरुत्पद्यते उत केवलवायोरंवेति विशये अतः केवलवायोरेवेति विशये अतः केवलवायोरेव तेज उत्पद्यते। ‘वायोरग्नि’रिति श्रुतिराह॥॥आपः॥ आपस्तेजस एवोत्पद्यन्ते। ‘अग्नेराप’ इति श्रुतिराह–॥पृथिवी॥ पृथिव्यद्भ्य एवोत्पद्यते। ‘अद्भ्यः पृथिवी, ताअन्नमसृजंते’ति श्रुतिराह॥ननु कथमन्नशब्देन पृथिव्यभिधीयते तत्राह– ॥अधिकाररूपशब्दांतरेभ्यः॥ महाभूतसृष्ठ्यधिकारात् पृथिव्येवान्नकारणभूतान्नशब्दोनोपचारादुच्यते। तथा ‘यदग्नेरोहितं रूपं तेजसस्तद्रूपं" यच्छुक्लं तदपां यत्कृष्णं तदन्नस्ये’ति कृष्णरूपस्यान्नसंबन्धितया कीर्तनान्नमुख्यमन्नशब्देनोच्यते। अपि तु पृथिव्येव। तैत्तरीयेक– ‘अद्भ्यः पृथिवी’ति पृथिवीचाकविस्पष्टवाचकाकारश्रवणाच्चान्नशब्देन पृथिव्येवोच्यते। ततश्च केवलेवाय्वादेरेवाग्न्युत्पत्तिः। न तु तच्छरीरकब्रह्मण इति पूर्वपक्षे प्राप्त उच्यते–॥तदभिध्यानादेव तु तल्लिङ्गात्सः॥ तुशब्दः पक्षव्यावर्तकः। वाय्वग्न्यादिशब्दैस्सपरमात्मैवाभिधीयते। ‘तत्तेज ऐक्षत ता आप ऐक्षन्ते’ति तत्तकार्यसृष्टिसंकल्परूपाभिध्यानलक्षणात् परमात्मलिङ्गादचेतने तेज आदौ ईक्षणासंभवात्॥॥विपर्ययेण तु क्रमोऽत्र उपपद्यते च॥ चशब्दोऽवधारणार्थः। ‘एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणिच खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी’त्येवं सर्वेषां भूतानां परब्रह्मानन्तर्यरूपो ‘वायोरग्निः, अग्नेराप इत्युपक्रमविवर्येण श्रूयमाणो यः क्रमस्सवाय्वादिशरीरकपरमात्मोपादानकत्व एवोपपद्यते। नतु केवलवाय्वाद्युपादानकत्व इति॥॥अंतरा विज्ञानमनसी क्रमेण तल्लिंगादिति चेन्नाविशेषात्॥ विज्ञानसाधनत्वादिन्द्रियाणि विज्ञानमित्युच्यते। ननु ‘एतस्माज्जायत’ इति वाक्यं प्राणादीनां सर्वेषां" नाव्यवहितब्रह्मोपादानकत्वं प्रतिपादयति, किन्तु प्राणोत्पत्त्यनन्तरं मनसश्च सर्वेन्द्रियाणाञ्चोत्पत्तिः, तत आकाशादिभूतानामुत्पत्तिरिति इन्द्रियाणां मनसश्च प्राणभूतांतरालसृष्टत्व प्रतिपादनार्थं प्रवृत्तं, भूतसृष्टिक्रमप्रत्यभिज्ञानरूपाल्लिङ्गादिति चेन्न। अविशेषात्। अविशेषेण प्राणादीनां सर्वेषां" ब्रह्मानन्तर्यरूपक्रमप्रतीतेस्तत्परित्यागकारणाभावात्॥ननु वाय्वादि शरीरकब्रह्मणोऽग्न्याद्युतपत्तौ वाय्वादिशब्दानां तच्छरीरकब्रह्मणि लक्षणा स्यादित्यत्राह– ॥चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात्॥ तुशब्दश्शंकानिवृत्यर्थः। चराचरव्यपाश्रयो देवमनुष्यादिवृक्षादि व्यपदेशो भाक्तः। वाच्यैकदेशे भज्यत इत्यर्थः॥ सर्वेषां चराचरशब्दानां विशिष्टंब्रह्मैवार्थः। विशेषणमात्रप्रयोगस्त्वमुख्यः। ततश्च वाय्वादिशरीरक ब्रह्माभिधानं मुख्यमेव। यद्वा अभाक्त इति छेदः। वाय्वादिशब्दैः ब्रह्मव्यपदेशः" अभाक्तः मुख्य इति यावत्। शरीरवाचिशब्दानां शरीरिपर्यन्तत्वादिति॥ ॥इति तेजोऽधिकरणम्॥