॥नवियदश्रुतेः॥ छांदोग्ये ‘तत्तेजोऽसृजते’ति तेजस एव प्रथमतस्सृष्ट्यभिधानात् आकाशोत्पत्तेरश्रुतेराकाशो नोत्पद्यत इति पूर्वपक्षे प्राप्तउच्यते-॥अस्ति तु॥ आकाशस्याप्युतपत्तिरस्त्येव। तैत्तिरीयके ‘आत्मन आकाशस्संभूत’ इति उत्पत्तेश्श्रवणात्। पुनश्चोदयति–॥गौण्यासम्भवाच्छब्दाच्च॥ ‘आत्मन आकाशस्संभृत’ इत्युत्पत्तिश्रुतिः गौणी। निरवयवाकाशोत्पत्तेः छान्दोग्येचाश्रुतायाः प्रतिपादनासंभवात्, ‘वायुश्चांतरिक्षञ्चैतदमृत’मिति आकाशस्यामृतत्वश्रवणाच्चेत्यर्थः॥ननु ‘आत्मन आकाशस्संभूत’ इत्यत्र आकाशे संभूतशब्दस्य गौणत्वे ‘आकाशाद्वायुः, वायोरग्निः’ इत्यादौ श्रुतस्य संभूतशब्दस्य गौणत्वं स्यादित्यत्राह– ॥स्याच्चैकस्य ब्रह्मशब्दवत्॥ एकस्यैव संभूतशब्दस्य आकाशे गौणत्वं वायोरित्यादावनुषक्तस्यसंभूतशब्दस्य मुख्यत्वं संभवति। यथा मुंडके ‘तस्मादेतद्ब्रह्म नामरूपमन्नं च जायत’ इति प्रधाने गौणतया प्रयुक्तस्य ब्रह्मशब्दस्य एतस्मिन्नेव प्रकरणे ‘तपसा चीयते ब्रह्मे’ ति ब्रह्मणि मुख्यतया प्रयोगदर्शनात्॥चरिहरति– ॥प्रतिज्ञाऽहानिख्यतिरेकात्॥ आकाशस्यापि ब्रह्मोपादेयतया ब्रह्माव्यतिरेके सत्येव एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाया अहानिर्भवति। ब्रह्माकार्यस्यापि वस्तुनस्सत्वे एकविज्ञानेन सर्वविज्ञानप्रतिज्ञा हीयेतेत्यर्थः॥॥शब्देभ्यः॥ ‘सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयं, ऐतदात्म्यमिदं सर्व’मित्यादिशब्दैस्सर्वस्यापि वस्तुनो ब्रह्मकार्यत्वब्रह्मात्मकत्वप्रतिपादनपरैश्चायमर्थो विधीयते–॥यावद्विकारं तु विभागो लोकवत्॥ तुशब्दश्चार्थे। छांदोग्ये ‘ऐतदात्म्यमिदं सर्व’ मित्यादिभिराकाशादेस्सर्वस्य विकारत्वप्रतिपादनादेव विभागशब्दितोत्पत्तिरप्युक्तैव। यथा लोके ‘एते सर्वे देवदत्तपुत्रा’ इत्यभिधाय तेषु केषांचिदुत्पत्तिपादनेऽपि सर्वेषामप्युतपत्तिः प्रतिपादितैव भवति, तद्वत्। ‘वायुश्चान्तरिक्षं चैतदमृत’ मिति तु देवानामिव चिरकालस्थायित्वाभिप्रायाम्॥॥असंभवस्तु सतोऽनुपपत्तेः॥ आकाशोत्पत्तिप्रतिपादनेनैव वायोरप्युतपत्तिः प्रतिपादितैवेत्यर्थः। ननु ‘तदभिध्यानादेव तु तल्लिङ्गा’दिति उत्तराधिकरणे वाय्यवाकाशादिश्ब्दैः परमात्मैवाभिधीयत इति वक्ष्यते, ततश्च सच्छब्दवाच्यब्रह्मोपादेयतया ब्रह्माव्यतिरेके सति ब्रह्मणोऽप्युत्पत्तिरवर्जनीयेत्यत्राह–॥असंभवस्तु सतोऽनुपपत्तेः॥ तुशब्दोऽवधारणे। उतपत्त्यसंभवस्तु परस्य ब्रह्मण एव। इतरस्य सदेवेत्यवधारणाद्यनुपपत्तेस्संभवइत्यर्थः॥ ॥इति वियदधिकरणम्॥