॥पत्युरसामंजस्यात्॥ सर्वज्ञपशुपतिप्रणीतत्वात्पशुपतिमतमादरणीयमिति पूर्वपक्षे प्राप्त उच्यते- पत्युरसामञ्जस्यात्। पत्युः पशुपतेर्मतमनादरणीयं। वेदविरुद्धमुद्राषट्कधारण सुराकुंभस्थापनशवभस्म स्नानादि धर्माणां निमित्तमात्रेश्वरस्य चाभ्युपगमेन तन्मतस्यासमंजसत्वात्॥॥अधिष्ठानानुपपत्तेश्च॥ अवैदिकस्य तदभिमताशरीरेश्वरस्य प्रधानाधिष्ठातृत्वानुपपत्तेश्च॥॥ करणवच्चेन्न भोगादिभ्यः॥ यथा जीवस्य करणकळेबराधिष्ठाने करणकळेबरांतरनैरपेक्ष्यं, एवं पशुपतेरपि प्रधानाद्यधिष्ठानेऽपि शरीरांतरनैरपेष्यमस्त्विति चेन्न। तर्हि तथैव सुखदुःखभोगादयः प्रादुप्युः॥॥अन्तवत्त्वमसर्वज्ञता वा॥ वाशब्दश्चार्थः। तद्वदेव पुण्यापुण्यकर्मवश्यत्वादेरपि प्रसक्त्योत्पादविनाशवत्त्वज्ञानसङ्कोचादेरपि प्रसङ्गः। अतो निमित्तोपादानभेदवादिपाशुपतमतमनादरणीयम्॥ ॥इति पशुपत्यधिकरणम्॥ ————– ननु ‘नजायते म्रियत’ इति श्रुतिप्रतिषिद्धा ‘वासुदेवात् संकर्षणो नाम जीवो जायत’ इति कर्तुर्जीवात्करणस्य मनस उत्पत्तिश्श्रूयमाणाऽपि न संभवति। कर्तुर्जीवात् करणोत्पत्तेः ‘एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि चे’ ति मनसो ब्रह्मोत्पत्तिप्रतिषादक श्रुतिविरोधादिति॥