॥न प्रयोजनत्त्वात्॥ जन्मजरामरणादिदुःखबहुळं जगत्सृजतोऽवाप्तसमस्तकामस्य परमात्मनः प्रवृत्तेः स्वार्थत्वपरार्थत्वासम्भवात् प्रयोजनानुद्देशेन प्रेक्षावत्प्रवृत्तेरयोगात् प्रवृत्तिर्नोपपद्यत इति पूर्वः पक्षः। सिद्धान्तस्तु-॥लोकवत्तु लीलाकैवल्यम्॥ यथा महाराजस्यापि केवललीलाप्रयोजनाः कन्दुकादिक्रीडा दृष्टाः, एवं" परमात्मनोऽपि केवललीलार्था जगत्सृष्ट्यादिप्रवृत्तिरिति॥॥वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथाहि दर्शयति॥ ननु विषमं देवमनुष्यतिर्यगादि सृजतः परमात्मनो वैषम्यं प्रसजेत्, अतिघोरनरकादिसृष्ट्या निर्घृणत्वं" च प्रसजेदिति चेन्न। तत्तत्कर्मानुसारेण कर्मसापेक्षतया सृजतो न पक्षपातादिदोषप्रसक्तिः। ‘साधकारी साधुर्भवति पापकारी पापीभवति’। ‘निमित्तमात्रमेवासौ सृज्यानां सर्गकर्मणि। प्रधानकारणीभूता यतो वै सृज्यश्क्तय’ इति श्रुतिस्मृतिप्रमाणं दर्शयति। अतो वैषम्यनैर्घृण्ये नेति॥॥न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यतेच॥ ननु प्रळये जीवस्य ब्रह्मणाऽविभागेन तदाश्रीतानां च कर्मणामभावात् सर्गाद्यसृष्टौ स्वेच्छया तरतमभावापन्नं" जगत्सृजतो वैषम्यादिकमपरिहार्यमिति चेन्न। जीवानामनादित्वनात् तदानीं कर्मणामपि सत्वान्नवैषम्यादिप्रसंगः। न च जीवानामनादित्वे प्रळये ‘सदेवसोम्येदमग्र आसी’दिति अविभागोनोपपद्यत इतिवाच्यम्। अविभक्तनामरूपतया भेदकाकारस्फुरणमात्रेण अविभागव्यवहारोपपत्तेः। तदनादित्वञ्च ’ न जायते म्रियते वा विपश्चित्, ‘प्रकृतिं" पुरुषंचैव विध्यनादी उभावपी’ति श्रुतिस्मृतिषूपलभ्यते॥॥सर्वधर्मोपपत्तेश्च॥ प्रधानादिषु असम्भावितानामपि सृष्ट्युपयुक्तसार्वज्ञ्यसर्वशक्त्यादि सकलधर्माणां परमात्मन्येवोपपत्तेः" परमात्मैव जगत्कारणमिति स़ृष्टेर्लीलाप्रयोजनत्वं सिद्धम्॥ ॥इति प्रयोजनवत्त्वाधिकरणम्॥ इति चतुष्षष्टिप्रबन्धनिर्माणसंसूचितसर्वतन्त्रस्वतन्त्रताबिरुदांचितैः" श्रीमद्रङ्गरामानुजमुनिभिरनुगृहीतायां श्रीशारीरकब्रह्मसूत्रव्याख्यायां" श्रीशारीरकशास्त्रार्थदीपिकायां द्वितीयस्याध्यायस्य प्रथमः पादः॥