09 कृत्स्नप्रसक्त्यधिकरणम्

॥कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपोवा॥ दृष्टांततयोपन्यस्तस्य क्षीरजलादेस्सावयवत्वदर्शनात् तद्वद्ब्रह्मणोपि सावयवत्वं स्यात्, निरवयवत्वे कृत्स्नप्रसक्तिर्वा स्यादिति शङ्कयासंगतिः। कारणावस्थायां निरस्तचिदचिद्विभागतया निरवयवमेव ब्रह्म कार्यावस्थायां ‘बहुस्या’मिति सङ्कल्प आकाशवाय्वाद्यचिद्विभागं ब्रह्मादिस्तंबपर्यन्त क्षेत्रज्ञविभागं चाभवदित्युक्तं। एवंसति परं ब्रह्म कृत्स्नं कार्यत्वेनोपयुक्तमित्यंगीकार्यम्। यदि ब्रह्मणि अंशभेदं" परिकल्प्य चिदंशस्य क्षेत्रज्ञविभागविभक्तत्वं, अचिदंशस्याकाशादिविभागविभक्तत्वं परिकल्प्यते, तदा कारणीभूतस्य ब्रह्मणो निरवयवत्ववादिनीनां श्रुतीनां बाधितार्थकत्वं स्यात्। यदि सूक्ष्मचिदचिच्छरीरक" ब्रह्मणः कार्यत्वमित्यभ्युपगम्यते, तदा शरीर्यंशस्यापि कार्यत्वाभ्युपगमान्निरवयवत्व श्रुतिविरोधो दुर्वारः। तस्माद्ब्रह्मणो जगत्कारणत्वमनुपपन्नमिति पूर्वःपक्षः। सिद्धान्तस्तु-॥श्रुतेस्तु शब्दमूलत्वात्॥ तुशब्द उक्तदोषव्यावर्तकः। नैवमसामञ्जस्यम्। कुतः। श्रुतेः। श्रुतिस्तावद्ब्रह्मणो निरवयवत्वं" विचित्रजगत्स्रष्टृत्वञ्च प्रतिपादयति। ननु श्रुतिरपि ‘अग्निना सिञ्चती’तिवत् अयोग्यार्थप्रतिपादनासमर्था, तथाऽपि शब्दैकप्रमाणकस्य वस्तुनः सकलेतरवस्तुविलक्षणत्वात् विलक्षणधर्मयोगस्याविरुद्धत्वेन सामान्यतो दृष्टसाधनदूषणानर्हत्वं ब्रह्मण इति॥॥आत्मनि चैवं विचित्राश्च हि॥ एवं वस्त्वन्तरसम्बन्धिधर्मस्य वस्त्वन्तरारोपणे अचोतनघटादिदृष्ट धर्माणां तद्विजातीये नित्यचेतनेऽपि प्रसङ्गः, तदप्रसक्तिश्च स्वभाववैचित्र्याधीना। अन्योन्यविलक्षणानामग्निजलादीनां यथा विजातीयौष्ण्यशैत्यादि धर्मसम्बन्धः, तथा लोकविलक्षणे ब्रह्मणि लोकदृष्टवस्तुधर्मापेक्षया विलक्षणधर्मयोगो नानुपपन्नः॥॥स्वपक्षदोषाच्च॥ प्रधानकारणत्वपक्षे प्रधानस्य लौकिकवस्तुसजातीयत्वेन लोकदृष्टदोषाणां तत्रैव प्रसङ्गात् सकलेतरविलक्षणस्य ब्रह्मण एव जगत्कारणत्वमभ्युपगन्तव्यम्। प्रधानकारणत्वपक्षे निरवयवस्य प्रधानस्य जगत्कारणत्वं" न सम्भवति। सत्वरजस्तमसां तदवयवत्वाङ्गीकारे सत्वरजस्तमसां समूहस्य प्रधानत्वं वा उत सत्वरजस्तमोभिरारब्धस्य प्रधानत्वं वेति विकल्प्य प्रथमपक्षे तेषां निरवयवत्वेनासंयुक्तप्रदेशभेदरहितसंयोगवतां न स्थूलद्रव्यारम्भकत्वम्, द्वितीयपक्षे स्वाभ्युपगतप्रधानपरमकारणत्वासिद्धिः, स्वाभ्युपगत चतुर्विंशतिसंख्याविरोधश्चेति पक्षद्वयस्यापि दुष्टत्वेन प्रधानकारणत्वासम्भवात् ब्रह्मण एव जगत्कारणत्वं न्याय्यमिति॥॥सर्वोपेता च तद्दर्शनात्॥ प्रधानकारणत्वपक्षे प्रधानस्य लौकिकवस्तुसजातीयत्वेन लोकदृष्ट दोषाणां तत्रैव प्रसङ्गात् सकलेतरविलक्षणस्य ब्रह्मण एव जगत्कारणत्वमभ्युपगन्तव्यम्। प्रधानकारणत्वपक्षे निरवयवस्य प्रधानस्य जगत्कारणत्वं" न सम्भवति। सत्वरजस्तमसां तदवयवत्वाङ्गीकारे सत्वरजस्तमसां समूहस्य प्रधानत्वं वा उत सत्वरजस्तमोभिरारब्धस्य प्रधानत्वं वेति विकल्प्य प्रथमपक्षे तेषां निरवयवत्वेनासंयुक्तप्रदेशभेदरहितसंयोगवतां न स्थूलद्रव्यारम्भकत्वम्, द्वितीयपक्षे स्वाभ्युपगतप्रधानपरमकारणत्वासिद्धिः, स्वाभ्युपगत चतुर्विंशतिसंख्याविरोधश्चेति पक्षद्वयस्यापि दुष्टत्वेन प्रधानकारणत्वासम्भवात् ब्रह्मण एव जगत्कारणत्वं न्याय्यमिति॥ सकलेतरवस्तुविजातीया परा देवता सर्वशक्त्युपेता। ‘पराऽस्य शक्तिर्विविधैव श्रूयते, अपहतपाप्समे’त्यादिश्रुतिभिस्सकलेतरविलक्षणत्वसर्वशक्तिमत्त्वादिप्रतिपादनात्॥॥विकरणत्वान्नेति चेत्तदुक्तम्॥ यद्यप्येकमेव ब्रह्म सकलेतरविलक्षणं सर्वशक्ति, तथाऽपि ‘नतस्य कार्यं करणञ्च विद्यत’ इति करणकळेबरशून्यस्य जगत्स्रष्टृत्वं न संभवतीतिचेत् शब्दैकवेद्यस्य सकलेतरविलक्षणस्य करणकळेबराद्यनपेक्षजगत्स्रष्टृत्वमुपपन्नमिति, ‘शब्दमूलत्वात्, विचित्राश्चही’ति सूत्रखण्डाभ्यां प्रतिपादितम्। तथा च श्रुतिः- ‘पश्यत्यचक्षुस्स श्रृणोत्यकर्ण’ इत्येवमादिका॥ ॥इति कृत्स्नप्रसक्त्याधिकरणम्॥