08 उपसंहारदर्शनाधिकरणम्

॥उपसंहारदर्शनान्नेतिचेन्नक्षीरवद्धि॥ सत्यसङ्कल्पत्वादिभिः परस्य ब्रह्मणः वैलक्षण्यं प्रतिपादितं। तत्र संकल्पमात्रपरिकरत्वं ब्रह्मणो जगत्सृष्टावनुपपन्नमिति शङ्काया उत्थानात् सङ्गतिः। लोके तत्तत्कार्यजननोपयोगिसामर्थ्यवतोऽपि तत्तदुपकरणसापेक्षत्वदर्शनात् सर्वशक्तेः परब्रह्मणः ‘सदेवसोम्येदमग्र आसी’दित्यादि श्रुतिभिस्सृष्टेः" प्रागसहायत्वात् उपकरणशून्यत्वेन उपकरणनिरपेक्षजगत्स्रष्टृत्वं नसम्भवतीति चेन्न। क्षीरजलादेः" दधिहिमादिजननशक्तस्य दधिहेमादि जनने यथावा नोपकरणाद्यपेक्षत्वं तथा ब्रह्मणस्सर्वशक्तेरुपकरणनिरपेक्षं" सर्वजगत्स्रष्टृत्वमुपपद्यते। क्षीरादिष्वातंचनाद्यपेक्षा नदध्यादिभावाय। अपितु अचिरेण दधिभावापत्त्यर्थं" रसविशेषार्थं च॥॥देवादिवदपि लोके॥ यथा देवादीनां स्वीयलोकेषु संकल्पमात्रेण स्वापेक्षितपदार्थस्रष्टृत्वं तथा पुरुषेत्तमस्य सङ्कल्पमात्रेण सर्वजगत्स्रष्टृत्वमुपपद्यत इति नानुपपत्तिः॥ ॥इति उपसंहारदर्शनाधिकरणम्॥