07 इतरव्यपदेशाधिकरणम्

॥इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः॥ जगतो ब्रह्मानन्यत्वप्रतिपादकैः ‘तत्वमसी’त्यादिभिः जीवस्यापि ब्रह्मानन्यत्वं प्रतिपाद्यत इत्युक्तम्। तत्रेदं चोद्यते- यदीतरस्य जीवस्य ब्रह्मभावः एतद्वाक्यप्रतिपाद्यः, तदा ब्रह्मणस्सार्वज्ञ्यादिविशिष्टस्य हितरूप जगत्सृष्टिः अहितरूपजगदसृष्टिरित्यादिदोषप्रसङ्गः। अतः ब्रह्मणो जगत्कारणत्वं न संभवतीति पूर्वःपक्षः। सिद्धांतस्तु-॥अधिकन्तु भेदनिर्देशात्॥ तुशब्दः पक्षं व्यावर्तयति। आध्यात्मिकादिदुःखयोगार्हात् प्रत्यगात्मनः अधिकमर्थांतरभूतं ब्रह्म। कुतः? भेदनिर्देशात्। ‘य आत्मनि तिष्ठन्, पृथगात्मानं, तयोरन्यः पिप्पलंस्वाद्वत्ति, ज्ञाज्ञौद्वावजावीशनीशा’वित्यादिश्रुतिभिः" परब्रह्मणः प्रत्यगात्मनो भेदेन व्यपदेशात्॥॥अश्मादिवच्च तदनुपपत्तिः॥ अश्मकाष्ठलोष्टादीनामत्यंतहेयानामचिद्विशेषाणां निरवद्यनिर्विकार निखिलहेय प्रत्यनीककल्याणगुणैकतानब्रह्मस्वरूपैक्यं" यथा नोपपद्यते तथाऽनंतदुःखयोगार्हस्य चेतनस्य निखिलहेयप्रत्यनीकब्रह्मभावापत्तिः॥ ॥इति इतरव्यपदेशाधिकरणम्॥