तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ 15 ॥ नविलक्षत्वाधिकरणे कारणस्य ब्रह्मणः कार्यस्य जगतो वैलक्षण्येपि सांख्यं प्रत्यनन्यत्वं साधितं। वैलक्षण्यस्य भेदव्याप्तत्वात्। अत एव कुण्डलहिरण्ययोरप्यनन्यत्वमसिद्धं। सर्वत्र कार्यकारणयोर्बुद्धिशब्दादिभिर्भेदावश्यंभावादिति वदतो वैशेषिकस्य मतमास्थायानन्यत्वमाक्षिप्येदानीं समाधीयत इति सङ्गतिः। अत्र उपादेयमुपादानादन्यदेव। घटेनोदकमाह्रियते मृत्पिंडेन घटादिकं निर्मीयत इति कार्यभेदात् घटस्य दंडचक्रादिकं कारणं मृत्पिण्डस्य जलसंयोजनमर्दनादीति कारणभेदात्, तथा घटः पृथुबुध्नोदराकारः मृत्पिंडस्त्वतदाकार इत्याकारभेदात्, तथा पूर्वकालं कारणं अपरकालङ्कार्यमिति कालभेदात्, तथा बहवस्तन्तव एकः पट इति संज्ञासंख्याभेदात्, सत्यामेव मृदि घटोनष्ट इति प्रतीतेः कार्यकारणयोर्बुद्धिशब्दादिभिर्भेदस्य दर्शनाच्च उपादानादन्यदेवोपादेयं। इतरधा कारकव्यापारवैयर्थ्यप्रसंगादिति कार्यकारणभेदवादिमतावलंबनेन पूर्वपक्षे प्राप्त उच्यते- तदनन्यत्वमारम्भणशब्दादिभ्यः। तस्मात्परमकारणाद्ब्रह्मणो जगतोऽनन्यत्वं" वाचारम्भण शब्दादिभिरवगम्यते। आदिशब्देन ‘सदेवसोम्येदमग्रआसीत् येनाश्रुतं श्रुतंभवति एकमेवाद्वितीय’ मित्यादिकं गृह्यते। ननु संस्थानस्य असत उत्पत्तौ असत्कार्यवादप्रसङ्गत इति चेत्, असत्कार्यवादिमतेऽपि उत्पत्तेरुत्पत्तिमत्तत्वेऽनवस्था स्यात् उत्पत्तिराहित्ये सत्कार्यवादप्रसङ्गः। अस्माकन्तु अवस्थानां" पृथक्प्रतिपत्तिकार्ययोगानर्हत्वात् पृथगुत्पत्त्यादिकं नापोक्षितम्। अतो घटस्योत्पत्तिर्नाम घटत्वावस्थासम्बन्ध एव। न त्वसतस्सत्वरूपं। अत उपादेयमुपादानादन्यदेव। तथा च उपादाने ज्ञाते उपादेयस्य ज्ञातताभवतीति भावः॥॥भावे चोपलब्धेः॥ हिरण्यकुंडलादिकार्यभावेऽपि ‘कुंडलायेदं हिरण्य’ मिति प्रत्यभिज्ञारूपोपलब्धेः सत्वादेवेत्यर्थः॥॥सत्वाच्चापरस्य॥ अपरस्य कार्यस्य कारणे तादात्म्येन सम्बन्धेन सत्वाच्चोपादानादनन्यदुपादेयम्। सदेव सोम्येदमग्र आसी’ दिति कार्ये नष्टेऽपि कारणे कार्यतादात्म्यप्रतीतेरित्यर्थः। ‘भावेचोपलब्धे’रिति सूत्रे कार्यदशायां कार्ये कारणतादात्म्यप्रतीतिः प्रमाणतया उपन्यस्ता। उत्तरसूत्रे तु कार्यनाशानन्तरमपि कारणे कार्यभेदप्रतीतिः प्रमामतयोपन्यस्तेति विशेषः॥॥असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषाद्युक्तेश्शब्दान्तराच्च॥ ‘असद्वा इदमग्र आसीत्, इदं वा अग्रे नैव किंचनासी’दिति जगतस्सृष्टेः प्रागसत्त्वव्यपदेशात् सृष्टेः" प्रागपि सता उपादानेनोपादेयस्यैक्यं नोपपद्यतइति चेन्न। नामरूपविभागलक्षणधर्मान्तरा भावमादायासद्व्यपदेशोपपत्तेः। जगतस्सत्त्वंनामरूपभाक्त्वम्। असत्वं नाम तद्विरोधिनी सूक्ष्मावस्था। न तु सर्वात्मना असत्त्वं। कुतोऽवगम्यत इति चेत्-वाक्यशेषात्। ‘इदं वा अग्रे नैव किंचनासी’ दित्यत्र ‘तदसदेव सन्मनोऽकुरुते’ति वाक्यशेषे मनस्स्रष्टृत्वप्रतिपादनात्। युक्तेश्च-घटस्य सत्त्वं नाम घटत्वावस्थासंबन्धः। असत्त्वं" नाम तद्विरोधिकपालत्वचूर्णत्वावस्थासंबन्धः। एवं तर्हि तद्व्यतिरिक्ता घटाभावो नाम कश्चिदुपलभ्यते। शब्दान्तराच्च। ‘कुतस्तु सोम्यैवं स्यादितिहोवाचे’ति तुच्छत्वं प्रतिक्षिप्य ‘सदेव सोम्येदमग्र आसी’दिति स्थापितत्वात्, ‘तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियते’ति सुस्पष्टमभिधानाच्च॥॥पटवच्च॥ यथा तंतवः व्यतिषङ्गविशेषाभाजः पट इति नामरूपकार्यादिकं भजन्ते तद्वद्ब्रह्मापि॥॥यथा च प्राणादिः॥ यथा वायुरेक एव शरीरे वृत्तिविशेषं भजमानः प्राणापानादिनामरूपकार्यांतराणि भजते, तद्वदेकमेव ब्रह्म विचित्रस्थिरत्रसरूपं जगद्भवतीति परमकारणात् परस्माद्ब्रह्मणोऽनन्यत्वं जगतोऽप्युपगन्तव्यम्॥ ॥इति आरंभणाधिकरणम्॥