05 भोक्त्रापत्त्यधिकरणम्

॥भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत्॥ पूर्व अधिकरणस्य अतिदेश अधिकरणत्वात्् पूर्व अधिकरणेन संगतं इदं अधिकरणम्। तत्र हि ‘न तु दृष्टान्तभावात्’ इति सूत्रेण शरीरगत बालत्व युवत्वादीनां शरीरिण्यप्रसक्तिं दृष्टान्तीकृत्य चिदचित् शरीरकं ब्रह्मेति तद्गतदोषाणां ब्रह्मण्यप्रसक्तिः उक्ता। इयं अनुपपन्ना। जीववत् शरीरित्वे तत्कृत सुखदुःखावश्यंभावात्। इति आक्षेपिकी संगतिः। ‘यस्य आत्मा शरीरं यस्य पृथिवी शरीरम््’ इत्यादिना सर्वस्य अपि परमात्म शरीरतया जीववत् परमात्मनः अपि शरीरं प्रति स्मामित्वे सति ‘न हवैसशरीरस्य’ इत्यादिना परमात्मनः" अपि प्रिय अप्रिय भोक्तृत्वम् अवर्जनीयं इति जीवेश्वरस्वभाव अविभाग इति पूर्वपक्षे, स्यात् लोकवत् इति सिद्धान्तः। अस्य अर्थः- सप्तम्यर्थेवतिः। यथा लोके राजशासन अनुवर्तिनां तत् अतिवर्तिनां च राज अनुग्रह निग्रहकृत सुख दुःख भोगे अपि न राज्ञि तत्् प्रसक्तिः, एवं न परमात्मनि शासके भोक्तृत्व प्रसक्तिः इति। पूर्वं ‘संभोगप्राप्तिः’ इति सूत्रे मनुष्यादि सर्व शरीरान्तरवस्थित्या परमात्मनः" भोक्तृत्वं आक्षिप्य परितः दह्यमानगृहान्तर्वर्तित्वे जीवपरयोः अविशिष्टेपि ‘तयोरन्यः पिप्पलं" स्वाद्व़त्तयनश्नन्नन्यो अबिचाकशीति’ इति श्रुत्यनुसारेण देह अभिमानि जीववत् न परस्य भोक्तृत्वं" इति हेतु वैशेष्यात् इति सूत्रखण्डेन परिहृतम्। अत्र तु ‘न ह वै सशरीरस्य’ इति श्रुत्यनुसारेण शरीर स्वामित्व प्रयुक्तं भोक्तृत्वं अवर्जनीयं इति आक्षिप्य लोक दृष्टान्तेन परिह्रियते। न च एवम् ‘न ह वै सशरीरस्य’ इति विरोधः। स्वकर्म उपार्जित शरीरं प्रति स्वामित्व प्रयुक्तं अत्र विषयत्वात् तस्याः। न तु शरीर स्वामि मात्र विषयत्वं। अत एव अन्तर्यामिब्राह्मणे- ‘यस्य पृथिवी शरीरं’ इत्यादिना परस्य पृथिव्यादि शरीर स्वामित्वं उक्त्वा तत् तदभिमानि देवतावत् तत्तत्कृत सुख दुःख भोक्तृत्व आशङ्का निरासाय प्रति पर्यायं ‘एषत आत्माऽन्तर्याम्यमृत’ इति अमृतत्व वचनं उपपन्नं तथा उत्तरत्र ‘न स्थानतोऽपि परस्य’ इति अधिकरणे एतत् सूत्रद्वयनाययोपमर्दनेन यथा शासकस्यापि राज्ञस्स्वेच्छायाऽपि स्वेच्छेया हेयमनुष्यादिशरीरेषु वसतो दुःखभोक्तृत्वमवर्जनीयमित्याक्षिप्य नित्याविर्भूतापहृतपाप्मत्वादिगुणकस्याखिलहेयप्रत्यनीकस्य परमात्मनो नसम्भवतीत्युक्तमिति न पौनरुक्त्यप्रसक्तिः॥ इति भोक्त्रापत्त्यधिकरणम् ॥ 5 ॥