॥ एतेन शिष्टापरिग्रहा अपि व्याख्याताः॥ प्रधानकारणवादिसांख्यतर्कमात्रेण समन्वयभङ्गाभावेऽपि परमाणुकारणवादिकणभक्षाक्षचरणक्ष पणकादिबहुतांत्रिकाभिमततर्कै स्समन्वयभङ्गस्स्यादिति अधिकाशङ्कानिरासाय पूर्वान्यायातिदेशार्थमिदम् अधिकरणम्॥ परमाणुकारणवादिनां" तर्कैस्समन्वयभङ्गस्संभवति नवेति विशये संभवत्येव समन्वयभंगः। न च तेषां तर्काणां परस्परविरोधसंभवेन तद्भञ्जनसामर्थ्यं नास्तीतिशक्यं वक्तुं। यथा शुनां परस्परविरोधसत्त्वेऽपि एकं वराहमैकमत्येन मारयितुं तद्भक्षणलिप्सा प्रवृत्तानां सर्वेषां शुनां तदलाभेऽपि वराहस्य मारणं भवति, एवं परमाणवस्सत्याः" शून्याः" विज्ञानात्मकाश्चतुर्विधा एक विधाइत्यवांतरकलह संभवेऽपि अल्पपरिमाणानामेव तंत्वादीनां महापरिमाणप़टाद्यारंभकत्वदर्शनात् तद्विपरीतपरिमाणयोर्ब्रह्मजगतोरुपादानोपादेयभावो न संभवतीतिप्रतिष्ठितेन सकलपरमाणुकारणवादि अभिमतेन तर्केण तद्भङ्ग उपपद्यत इति पूर्वपक्षः। सिद्धांतस्तु– यथा नानादिग्विप्रकीर्णमपि बहुलं तमस्तोममेक एवादित्यः प्रतिक्षिपति एवमुदाहृतमन्यदप्येतादृश तर्कजालं" ‘यथा सोम्यैकेनमृत्पिंडेन सर्वं मृन्मय’मित्यादिवाक्योक्तमृत्पिंडारब्धघटशरावादिप्रत्युदाहरणेन प्रतिक्षिपन् वेद एव जागर्तीति नात्र प्रयतितव्यमस्तीति हृदिनिधाय पूर्वन्यायमतिदिशति सूत्रकारः॥ एतेन शिष्टापरिग्रहा अपिव्याख्याताः। न परिगृह्यते वैदिकैरित्यपरिग्रहः। एतेन - तर्काप्रतिष्ठानलक्षणकपिलस्मृतिनिरसनहेतुना परिशिष्टाः कणभक्षादिस्मृतयोपि निरस्ताव्याख्याताः। परमाणुकारणवादस्सर्वसंमत इति न तेषां तर्कस्याप्रतिष्ठितत्वाभावशङ्का, तर्कमूलत्वाविशेषात्। परमाणूनां शून्यत्वादिविवादादपि तर्कस्याप्रतिष्ठितत्वमेवेति॥ ॥ इति शिष्टापरिग्रहाधिकरणम् ॥