03 विलक्षणत्वाधिकरणम्

॥ न विलक्षणत्वादस्य तथात्वं च शब्दात्॥ मन्वादिस्मृतिभिरेवापबृंहणं कार्यमित्युक्तमयुक्तम्। तासां तर्कविरुद्धत्वात्। अतस्तर्कानुगृहीतया सांख्यस्मृत्यैवोपबृंहणं कार्यमिति प्रत्यवस्थानात्सङ्गतिः। ब्रह्मणो जगद्विलक्षणत्वेनोपादानत्वं" न सम्भवति। घटरूचकादिषु सलक्षणानामेव मृत्सुवर्णादीनामुपादानत्वं दृष्टम्। प्रकृते च ब्रह्मजगतोर्विलक्षणत्वं" ‘विज्ञानञ्चाविज्ञानञ्चे’ति विज्ञानत्वप्रतिपादकशब्दादेवावगम्यते॥ननु जगतोऽचेतनत्वेन मृदब्रवीदिति अचेतनाया मृदो वक्तृत्वं नोपपद्यते। तत्राह– ॥अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्॥ मृदादिशब्दैस्तत्तदभिमानिदेवता व्यपदिश्यते ‘हन्ताहमिमास्तिस्रो देवता’ इति तेजोऽबन्नानां तत्तद्देवताशब्देन विशेषणादचेतनानां च देवता तेजोबन्नादिशब्दैर्व्यपदिश्यत इत्यध्यवस्यामः। ‘अग्निर्वाग्भूत्वा मुखं प्राविश’ दित्यग्नेर्वाच्यनुप्रवेशरूपानुगतिश्रवणाद्वागादिशब्दैस्तदनुप्रवेशेनैतत् अभिमताग्न्याद्यभिमाने नानुपपत्तिः। अतश्चेतनस्य ब्रह्मण अचेतनजगदुपादानत्वं न सम्भवतीति पूर्वपक्षे प्राप्त उच्यते–॥दृश्यते तु॥ तुशब्दश्चोद्यत्यावृत्त्यर्थः। विलक्षणेभ्यो गोमयादिभ्यः वृश्चिकादेरुत्पत्तिदर्शनात्॥॥ असदितिचेन्न प्रतिषेधमात्रत्वात्॥ विलक्षणादुपादानाद्विलक्षणोत्पत्त्यङ्गीकारे उपादेयस्योत्पत्तेः प्राग्विलक्षणोपादानात्मनाऽवस्थानस्य वक्तुमशक्यत्वेनासत्कार्यवादप्रसङ्ग इति चेन्न। उपादानोपादेययोस्सालक्षण्यनियमप्रतिषेधमात्र एवास्माकं संरम्भः। सूक्ष्मचिदचिद्विशिष्टं ब्रह्म स्वस्माद्विलक्षणाकारेण परिणमत इत्येतदयुक्तमित्यत्राह–॥ अपीतौ तद्वत्प्रसंगादसमञ्जसम्॥ ब्रह्मण एव जगद्रूपेण परिणामे तयोरैक्यादप्ययादिषु सर्वदशास्वचेतनगता दोषाः ब्रह्मणस्स्युः। ततश्च ब्रह्मणो निरनिष्टत्वनिरवद्यत्वप्रतिपादकश्रुत्यसामञ्जस्यं। परिहरति–॥ न तु दृष्टान्तभावात्॥ न त्वेवं सम्भवति। यथा बालस्य युवानं प्रत्युपादानत्वेऽपि ‘बालो युवे’त्यादिशब्दैरात्मनो अभिधानेऽपि बालात्वयुवत्वादिभिर्नाम्ना दुष्यते, एवमेवाचेतनगतैर्नात्मा दुष्यते॥॥ स्वपक्षदोषाच्च ॥ निर्विकारस्य चिन्मात्रैकरसस्य पुरुषस्य प्रकृतिसन्निधानेन प्रकृतिधर्माध्यासनिबन्धना जगत्प्रवृत्तिरिति सांख्यपक्षोऽपि दुष्ट एव॥॥ तर्काप्रतिष्ठानादपि ॥ तर्माणामन्योन्यव्याघातेनाप्रतिष्ठितत्वात्तन्मूलः प्रधानकारणवादस्त्याज्य एव॥॥ अन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसंगः ॥ यथा प्रतिकूलतर्कापराहतिः, तथा सत्तर्कैः प्रधानकारणत्वमनुमीयत इतिचेत्, एवमपि कालान्तरेऽतिशयितानां तर्काणां सम्भवेन प्रतिकूलतर्कपराहतिदोषानिस्तारात्। अतस्तर्कैः प्रधानकारणत्वानुमानासम्भवात् सांख्याभिमतस्य पक्षस्योक्तप्रकारेण दुष्टत्वादुपादानोपादेययोस्सालक्षण्य नियमाभावात्तयोरनन्यत्वेऽपि दृष्टान्तबलेन उपादेयगतानां धर्माणामुपादानेऽप्रसक्तेः मन्वाद्युपबृंहितश्रुत्या प्रतिपादितं ब्रह्मणे जगदुपादानत्वं निर्बाधमिति न क्वापि विरोधगन्धः॥ ॥ इति विलक्षणत्वाधिकरणम् ॥