॥एतेन योगः प्रत्युक्तः॥ अत्रापि विषयसंशयपूर्वपक्षसिद्धान्तहेतवः पूर्ववद्द्रष्टव्याः। हिरण्यगर्भस्य भ्रमासंभवात् तत्कृतशास्त्रस्येश्वराभ्युपगमेन श्वेताश्वतरोपनिषदाद्युक्त योगानुष्ठानवर्णनेन च कपिलादिस्मृतिवैलक्षण्येन च वेदान्तान्तरङ्गत्वात्तेनोपबृह्मणं" कार्यमित्यधिकाशङ्का। ईश्वराधिष्ठितप्रधानकारणतया च ब्रह्मकारणत्वमपि युक्तमित्येतदुक्तम्। हिरण्यगर्भस्यापि क्षेत्रज्ञत्वेन भ्रमसंभवात् तत्कृतशास्त्रास्यापि भ्रममूलत्वसंभवादब्रह्मात्मकप्रधानकारणवादस्य निमित्तमात्रेश्वरस्याभ्युपगमाद्वेदान्तोदितध्येयापेक्षया विलक्षणध्येयविधानाच्च विरुद्धत्वेन न हिरण्यगर्भस्मृतिरनुरोद्धव्येति परिहारश्च द्रष्टव्यः। एतेन निमित्तोपादानभेदनिराकरणेनैव हिरण्यगर्भमतमनादरणीयमिति सूत्रार्थः॥ ॥इति योगप्रत्युक्त्यधिकरणम्॥