01 स्मृत्यधिकरणम्

॥स्मृतयनवकाशदोषप्रसंग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसंगात्॥ अतीतपञ्चत्रिंशदधिकरणन्यायातिदेशरूपत्वात्सङ्गतिः। पूर्वस्मिन्नध्याये सर्वज्ञं सत्यसङ्कल्पं ब्रह्मैव जगतो निमित्तमुपादानकारणं चेति श्रुतयः प्रतिपादयन्तीत्युक्तं। तत्र सम्भावितसर्वविधविरोध समाधानेन तदेव स्थिरीकर्तुं द्वितीयाध्याय आरभ्यते। तत्र प्रथमाधिकरणे सांख्यस्मृतिविरोधेन वेदांतानामन्यपरत्वाशङ्का निराक्रियते। ननु स्मृतिविरोधे श्रुतेरान्यपर्यशङ्का निरालम्बना, पूर्वतन्त्रे औदुंबरीसर्वस्पर्शनस्मृत्या श्रुतेरन्यपरत्वस्य निरस्तत्वादिति चेन्न। वेदांतानामतिगहननानाप्रकाराणां स्फुचार्थानामपि ‘वेदार्थोऽयं" स्वयं ज्ञातस्तत्राज्ञानंभवेदपि। ऋषिभिर्निश्चेते तस्मिन् का शङ्का स्यान्महात्मभि’रित्युक्तरीत्या उपबृह्मणनिश्चेयार्थत्वे सांख्यव्यासादिस्मृत्योः कया स्मृत्या उपबृह्मणं" न्याय्यमिति संशये सांख्यस्मृत्यैवोपबृह्मणं कार्यं। तथा हि ‘सदेवसोम्येदमग्र आसीत्, असद्वा इदमग्र आसीत्, तद्धेदं तर्ह्यव्याकृतमासी’दित्येवंरूपश्रुतीनां परस्परविरुद्धार्थतया प्रतीयमानानां स्वतोऽर्थनिर्णयासमर्थानां" तत्वप्रतिपादकसर्वज्ञकपिलस्मृत्यनुसारेणार्थनिर्णयो वाच्यः। इतरधा सांख्यस्मृतेर्मन्वादिस्मृतिवत् कर्मस्वरूपेऽप्यवकाशाभावेनानवकाशत्वरूपो दोषः प्रसज्येतेति तत्र ‘स्मृत्यनवकाशदोषप्रसङ्ग’ इति सूत्रखण्डेन पूर्वपक्षं कृत्वा ‘नान्यस्मृत्यनवकाशदोषप्रसंगा’दिति सूत्रशेषेण ‘इतरेषाञ्चानुपलब्धे’रिति सूत्रशेषेण च सिद्धांतः कृतः। ‘यद्वै किञ्च मनुरवदत्तद्भेषज’ मिति श्रुतिप्रतिपादितप्रामाण्यानां" श्रुत्यविरुद्धानां भूयसीनां मन्वादिस्मृतीनां प्रधानकारणवादेऽनवकाशप्रसङ्गेन श्रुतिविरुद्धाया अतादृश्या एकस्यास्सांख्यस्मृतेरनादरणीयत्वमुचितम्। मन्वादिस्मृतयो हि ऐककण्ठ्येन परमात्मानमभिदधति। यथाहमनुः–‘आसीदिदं तमोभूत’मित्यारभ्य ‘ततस्स्वयंभूर्भगवानव्यक्तो व्यञ्जयन्निदम्। महाभूतादिवृत्तौजाः" प्रादुरासीत्तमोनुदः॥ सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः। अप एव ससर्जादौ तासुवीर्यमपासृजत’दिति। भगवद्गीतासुच– ‘अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा। अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तत’ इति॥ श्रीमहाभारते–‘कुतस्सृष्टमिदं" सर्वं जगत्स्थावरजङ्गमम्। प्रलये च कमप्येति तन्मे ब्रूहि पितामहे’ति पृष्ट आह ‘नारायणो जगन्मूर्तिरनन्तात्मा सनातन’ इति, तथा ‘तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तमे’ति, ‘अव्यक्तं पुरुषे ब्रह्मन्निष्क्रिय संप्रलीयत’ इति च। आह च भगवान् पराशरः–‘विष्णोस्सकाशादुद्भूतं जगत्तत्रैव च स्थितं। स्थितिसंयमकर्ताऽसौ जगतोऽस्य जगच्च स’ इति। आह चापस्तंबः– ‘पूः प्राणिनस्सर्व एवगुहाशयस्ये’त्यारभ्य ‘तस्मात्कायाः" प्रभवंति सर्वे समूलं शाश्वतिकस्सनित्य’ इति। न च मन्वादिस्मृतीनां कर्मस्वरूपे सावकाशत्वं शक्यं" वक्तुं। कर्माराध्यपरमात्मस्वरूपेऽपि तात्पर्यसंभवात्॥ननु कपिलेन मन्वाद्यभिमतस्य परमात्मनोऽनुपलब्धेः तत्राप्रामाणिकत्वमिति चेत्तत्राह– ॥ इतरेषांचानुलब्धेः॥ इतरेषां मन्वादीनां बहूनां वैदिकानां सांख्योक्तप्रकारेण तत्वानुपलब्धेः सांख्यस्मृतिर्नानुरोद्धव्येति। न च श्रुतीनां सदसदव्याकृतादिना कारणत्वप्रतिपादकत्वदर्शनात् साङ्ख्यस्मृतिप्रतिपादितप्रधानकारणत्व आश्रयणं न युक्तमिति वाच्यं। ‘असद्वा इद मग्रआसी’दित्यत्र ‘सोकामयते’ति प्रकृतस्य ब्रह्मण एव ‘तदप्येष श्लोकोभवती’ति समाकृष्य ‘असद्वा इदमग्र आसी’दित्यभिधानादसच्छब्दस्सूक्ष्मचिदचिद्विशिष्ट ब्रह्मपर इति ‘तद्वेदंतर्ह्यव्याकृतमासी’दित्यत्रापि अव्याकृतस्य ‘स एष इह प्रविष्ट आनखाग्रेभ्यः, पश्यत्यचक्षुस्सश्रृणोत्यकर्ण’ इत्यादिनोत्तरत्र समाकृष्यमाणत्वात् पश्यत्वादीनामचेतने अभावात् अव्वाकृतशब्दोऽपि अव्याकृतशब्दिताव्यक्तशरीरक" परमात्मपर इति च वक्तुमुचितत्वान्नास्याश्शङ्काया अवकाश इति नसांख्यस्मृतिरनुरोद्धव्येति॥ इति स्मृत्यधिकरणम्॥