॥एतेन सर्वे व्याख्याता व्याख्याताः॥ अतीतपञ्चत्रिंशदधिकरणन्यायातिदेशरूपत्वात्सङ्गतिः। अतीताधिकरणेषु अनुदाहृतकारणवाक्यविशेषाः किमुक्तलक्षणब्रह्मपरः" उत नेति तेषां उक्तन्यायविषयत्वासम्भवसम्भवाभ्यां संशये अनुदाहृताः कारणवाक्यविशेषाः परमपुरुषैकांतिका न भवन्ति। ‘हिरण्यगर्भस्समवर्तताग्रे, भूतस्य जातः पतिरेक आसीत्’। ‘यदा तमस्तन्न दिवा न रात्रिः" न सन्नचासच्छिव एव केवल’ इत्यादिकारणवाक्यांतरेषु ब्रह्मशिवादिशब्दोक्तकारणांन्तरप्रतीतेरिति प्राप्तेऽभिधीयते-सिद्धांतस्तु-प्रमिताधिकरणोक्तन्यायैरेव तेऽपि परमापुरुषविषयास्सिध्यन्तीति। तत्सिद्धिप्रकारास्तु श्वेताश्वतरतैत्तिरीयकसुबालनारायणोपनिषदादिभाष्येषु प्रतिपादिताइति नात्र लिख्यन्ते। श्वेताश्वतरोपनिषत्तु हिरण्यगर्भशिवादिपदैः कलुषिते पारम्ये भगवत्परतया विशदीक्रियते। तथाहि-प्रथमद्वितीयखण्डयोः ‘व्यक्ताव्यक्तं भरते विश्वमीशः। यदात्मकत्वेन तु ब्रह्मतत्वं" ज्ञात्वा देवं। एषहि देवः प्रदिशोनुसर्वा’ इति देवात्मेशब्रह्मशब्दैः परमात्मा निर्दिश्यते। ते च शब्दाः ‘अपहतपाप्मादिव्यो देव एको नारायणः। विश्वन्नारायणन्देवं। आत्मा नारायणः परः। अंगुष्ठमात्रः" पुरुषोंगुष्ठञ्च समाश्रितः। ईशस्सर्वस्य जगतः। येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्वतो ब्रह्मविद्यां’ इत्यादिवाक्यगतनारायणप प्रत्यभिज्ञापकाः। अत्र ईशशब्दश्च न रूढ्या प्रयुक्तः,अपितु गुणयोगात्। ‘अनीशश्चात्मा, ज्ञाज्ञौ द्वावजावीशनीशौ, ईशस्सर्वस्य’ति निर्देशस्य सप्रतिसंबन्धितयाऽवयवविवक्षाज्ञापकत्वात् ‘अनन्तश्चात्मा विश्वरूपोह्यकर्ता’ इत्यत्र अनन्तशब्दो योगरूढः। रूढ्यविवक्षानिमित्तसप्रतियोगिकनिर्देशाभावात्। तृतीये च खणडे ‘यएतद्विदुरमृतास्तेभवन्ती’त्यनेन ‘अम्भस्यपार’ इत्यनुवाकः प्रत्यभिज्ञाप्यते। सहि परमपुरुषविषयः। एवमुपक्रमो भगवत्परः। ‘एकोहिरुद्र’ इत्यनन्तरं ‘विश्वतश्चक्षुरुतविश्वतोमुख’ इति मन्त्रश्च भगवत्प्रत्यभिज्ञापकः। तस्य विद्युद्वर्णपुरुषविषयत्वात्। ‘द्यावापृथिवी जनयन् देव’ इति ‘शीर्ष्णोद्यौस्समवर्तत, पद्भ्यां भूमि’ रित्यस्य प्रत्यबिज्ञापकं। ‘यो देवानां प्रभवश्चोद्भवश्च विश्वाधिको रुद्रो महर्षिः, हिरण्यगर्भं जनयामास पूर्व’ मित्येतत्तु यच्छब्दानुवादरूपतया प्रमाणान्तरसापेक्षतया दुर्बलमिदं, रुद्रस्य बह्वृचशतपथब्राह्मणावगतहिरण्यगर्भजन्यत्वविरोधिहिरण्यगर्भजनकत्वं न प्रतिपादयितुं" प्रभवति। बह्वृचे-‘तदितास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः। सद्यो जज्ञानो निरिणाति शत्रू’निति हिरण्यगर्भस्रष्टृत्वं रुद्रशब्दरूढ्यर्थस्य प्रतिपाद्यते। सुबालोपनिषदि ‘ललाटात्क्रोधजो रुद्र’ इति नारायणादुत्पन्नत्वं प्रतीयते। महोपनिषदि ‘सोम्यं कामं मनसा ध्यायीत त्र्यक्षश्शूलपाणिः" पुरुषो जायत’ इति, नारायणोपनिषदि ‘नारायणाद्रुद्रोजयत’ इति, बृहदारण्यके ‘ब्रह्म वा इद’मिति ब्रह्म प्रकृत्य ‘इन्द्रो वरुणस्सोमो रुद्रः पर्जन्य’ इति, इन्द्रादितुल्यतया रुद्रस्यापि ब्रह्मणस्सकाशादुत्पत्तिः" प्रतिपाद्यते। शतपथे अष्टमूर्त्तिब्राह्मणे ‘भूतानांच प्रजापतिस्संवत्सरमुषसि रेतोऽसिञ्चत्संवत्सरे कुमारोऽजायत सोऽरोदीत्तं प्रजापतिरब्रवीत् कुमार किं रोदिषीति सोऽब्रवीत् अनपहतपाप्माऽस्मीति अनाहितनामा नाम मे धेहि पाप्मनोऽपहत्या इति तं पुनः प्रजापतिरब्रवीत् रुद्रोसीति’ इत्यादिना रुद्रस्य चतुर्मुखजन्यत्वं अनपहतपाप्मत्वादिकमावेद्यते। तथा शैलालिब्राह्मणे चतुर्मुखसृष्टत्वं रुद्रस्य प्रतिपाद्यते। साम्नि च ‘विरूपाक्षाय दन्ताञ्जये ब्रह्मणः पुत्राये’ति ब्रह्मणः पुत्रत्वं प्रतीयते। ‘सोऽब्रवीत् वरं वृणै अहमेव पशूनामधिपतिरसानीति तस्माद्रुदः पशूनामधिपति’रिति वरदानलब्धपशुपतिभावश्श्रूयते। ‘विष्णोरेवास्यप्रभृधे हविर्भिः विधेहि रुद्रीयं महत्त्व’मिति विष्ण्वाराधनलब्धमहिमत्वं रुद्रस्य श्रूयते। अतो हिरण्यगर्भजन्यत्वेन नारायणजन्यत्वेन च अनपहतपाप्मत्वेन कर्माधीनैश्वर्यवत्त्वेन च श्रुतस्य रुद्रस्य तद्विरुद्धहिरण्यगर्भ जनकत्वस्य अवताररूपोत्पत्तिरिति विरोधपरिहास्सय वा असम्भवात्। कल्पभेदेन एकस्यैव रुद्रस्य हिरण्यगर्भरूपात् स्वस्मादुत्पत्तिः, कल्पान्तरे रुद्ररूपात्तस्माद्धिरण्यगर्भरूपतयोत्पत्तिरिति कल्पनस्यापि कार्यत्वेन कर्मवश्यत्वेन प्रतिपादिते तस्मिन्नसम्भवात्, इन्द्रादिनामपि तथात्वापाताच्च, तस्य विश्वाधिकत्वरूपविशेषणासम्भवाच्च। ततश्च रुद्रशब्दस्य कार्यरुद्रव्यतिरिक्तविषयत्वे सति अस्य वाक्यस्यानुवादरूपतया ‘नारायणाद्ब्रह्मा जायत’ इत्यादियोग्यार्थप्रापकवाक्यानुगुण्येन भगवत्परत्वनिश्चयः" रुद्रस्य हिरण्यगर्भजनकत्वाभावेन रूढ्यर्थत्यागे स्वीकार्ये हिरण्यगर्भशब्दस्य रूढिं परित्यज्य स्कन्दपरत्वमाश्रीयतां, प्रसिद्धस्य रुद्रस्य स्कन्दजनकत्वसम्भवादित्यपि शङ्का निरस्ता। विश्वाधिकत्वादिविशेषणानां" रुद्रे असम्भवात्। अतो रुद्रशब्दो भगवत्परः। ‘रुद्रोबहुशिरा’ इति सहर्सनामपाठात्। ‘यातेरुद्रशिवातनू’रित्यस्यानन्तरं" ‘ततःपरं ब्रह्मपरं बृहन्त’मिति वाक्यं ‘नारयणः परंब्रह्मे’ति महोपनिषत्प्रत्यभिज्ञापकं। ‘ईशन्तं" ज्ञात्वा अमृताभवन्ती’ त्यत्र ईशशब्दः पूर्ववद्यौगिकः। वैरूप्यायोगात्। ‘वेदाह’ मित्यन्तरवाक्यस्थैतच्छब्दः" पूर्वरुद्रशब्दवाच्यस्य महापुरुषत्वमवगमयति। प्रकृतपरामर्शित्वात्। ‘ततो यदुत्तरतर’मिति वाक्यमपि ‘परमतस्सेतून्माने’ त्यत्रोपपादितरीत्या प्रकृतोपसंहारपरं। सर्वाननशिरोग्रीवत्वं च सूक्तार्थस्मारक। सर्वव्यापिपदन्तु ‘व्याप्य नारायण’ इत्येतत्स्मारयति। भगवच्छब्दस्तु ‘भगवान् पवित्रं वासुदेवः" पवित्रं परमंपवित्रं भगवान्वासुदेवः ये भगवन्तं वासुदेवमेवं विदु’ रिति वासुदेवसाधारणः। अतएव हि स्मर्यते- ‘एवमेष महाशब्दो मैत्रेय भगवा निति। परमब्रह्मभूतस्य वासुदेवस्य नान्यग’ इति। ‘सत्वस्यैष प्रवर्तक’ इति सत्वप्रवर्तकत्वञ्च भगवतइति स्थितं। ‘योह खलु वा अस्य सात्विकोंशः सोऽसौ ब्रह्मचारिणः" योऽयंविष्णु’रिति मैत्रायणीयश्रुतेः। ‘अंगुष्ठमात्रः पुरुषोन्तरात्मे’ति अन्तरात्मत्वञ्च सुबालोपनिषत्प्रत्यभिज्ञापकं। ‘हृदामनीषी’ति तु विद्युद्वर्णपुरुषस्मारकं। अनन्तरं ‘सहस्रशीर्षे’ त्यादि पुरुषसूक्तमन्त्रद्वयमधीतं। ‘सर्वस्यप्रभुमीशान’ मित्येतन्नपुंसकत्वात् यौगिकमेव, नतु रूढं। पुल्लिङ्गताप्रसङ्गात्। ‘सर्वस्य शरणं सुहृ’ दित्येतत्तु ‘निवासश्शरणंसुहृद्गतिः नारायण’ इति श्रुतिप्रत्यभिज्ञापकं। ‘तमाहुरग्न्यं" पुरुषं महांत’मिति महापुरुषएव स्पष्टमुक्तः। धातृशब्दमपि महापुरुषशब्देनैकार्थयति ‘अणोरणीया’निति मन्त्रः। चतुर्थे च खण्डे ‘द्वासुपर्णा’ इत्यादिवाक्यद्वयं मुण्डकोपनिषदैकार्थ्यात्परमपुरुषपरं। अतः ‘मायिनन्तु महेश्वर’मित्यत्र महेश्वरशब्दो मायाप्रेरकत्वपरः। ‘सर्वलोकमहेश्वरं। क्षीरोदस्योत्तरे तीरे जग्मुर्लोकहितार्थिन’ इत्यारभ्य ‘ततः खस्थोमहेश्वरः’ इत्यादिषु महेश्वरशब्दो भगवति प्रयुक्तः। ‘येनेदं सञ्चविचैति सर्व’मिति प्रकृतं सर्वस्य नियन्तृत्वमेव ‘तमीशानं पर’ मित्यत्रोच्यते। पूर्वं" ‘अंगुष्ठमात्रः पुरुषोऽन्तरात्मे’ति पुरुषस्योक्तत्वात्। तत्र च ‘ईशानो भूतभव्यस्ये’ति श्रुत्यन्तरप्रसिद्धेशानशब्दस्य प्रतिसंबध्यभिधानेन रूढिविरहावगमात्, भूतभव्यशब्दनिर्दिष्टस्यैवेह सर्वशब्दप्रतिपन्नत्वाच्च, तद्वदेव रूढिविरहस्सिद्धः। ‘य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम’ इत्यत्र ‘हिरण्यगर्भ’ इत्यष्टर्चतुल्यविषयत्वं प्रतीयते। तच्च भगवत्परमित्युपपादितम्। एवं भगवत्परानेकोपनिषदैकार्थ्यप्रतीतेः" ‘ज्ञात्वा शिवं, शिवएव केवल’ इति शिवशब्दद्वयं तत्परम्। एवं" मुहुरभ्यस्यमानस्यापि शिवशब्दस्य ‘आकाशं प्रत्यस्तं यन्ति आकाशोह्येवैभ्यो ज्याया’नित्यत्र अभ्यस्ताकाशशब्दस्येव रूढार्थत्याग उपपन्नः। किं च ‘सर्वव्यापीच भगवान् तस्मात्सर्वगतश्शिव’ इत्ययं शिवशब्दः प्राकरणिकशिवशब्दानां" माङ्गलिकपरत्वमेव सूचयति। सर्वगतत्वेऽपि भगवच्छब्द वाच्यत्वान्निर्दोष इति हि तस्य वाक्यस्यार्थः। अन्यथा सर्वव्यापिसर्वगतपदयोः पुनरुक्तिप्रसङ्गात्। ‘तदक्षरं तत्सवितुर्वरेण्य’ मित्यनेन ‘अक्षरं" परमं प्रभुं तत्सवितुर्वरेण्यं ध्रुवमचलममृतं विष्णुसंज्ञं सर्वाधारं धामे’ति श्रुतिद्वयैकार्थ्यमवगम्यते। ‘हृदामनीषी’ति वाक्यं ‘नैनमूर्ध्वं नतिर्यञ्च’मिति मंत्रद्वयमध्यगतवाक्यस्थ शिवशब्दस्यपरमपुरुषविषयतां" गमयति। तद्धि त्रयं समुद्रान्तर्वर्तिविद्युद्वर्णपुरुषविषयं। अतो ‘मानस्तोक’ इति मन्त्रस्थरुद्रशब्दोऽप्यवयवशक्त्या पर्यवसानवृत्या वा भगवद्विषयः। पञ्चमखण्डे ‘भावकरं शिव’मिति शिवशब्दो व्याख्यातः। षष्ठे च ‘यः" कालकाल’ इति कालस्यापि परिच्छेदकः काल उक्तः, नायमन्तकः। ‘भगेश’ मित्यनेनापि भगशब्दवाच्यानामैश्वर्यादीनां" षण्णां ईश्वरत्वमेव प्रतीयते। ऐश्वर्यनिरंकुशत्वमेवोक्तं। ‘तमीश्वराणां परमं महेश्वर’मिति प्रतिसम्बन्धिनिर्देशात् महेश्वरपदे रूढिर्नशक्यशह्कः। ‘देवतानां परमं दैवत’मित्यनन्तरनिर्देशवत्। तद्धि वाक्यं देवतापारम्यपरं। तत्र च दैवपतिशब्दौ न क्वचिद्देवताविशेषे रूढौ। तत्स्थानीयश्च महेश्वरशब्दः। अतो न रूढ्युन्मेषः। ‘न तत्समश्च, पराऽस्य शक्ति’रित्यादिभिश्च तत्पारम्योपपादनं ‘एको देवः, एको नारायण’ इत्यनेनैकार्थ्यात्। ‘न तत्र सूर्यो भाती’ति मंत्रश्च कठवल्ल्यधीतत्वात् विष्णोः प्रत्यभिज्ञापकं ‘नान्यः पंथा’ इति पुंसूक्तं स्मारयति। ईशादिशब्दानां यौगिकत्वं ईशानत्वस्य निरुपाधिकत्व़ञ्च दर्शयति ‘ईशोऽस्येति। ‘योब्रह्माणं विदधाति पूर्वं, शरणं प्रपद्ये, अमृतस्य परं सेतु’मिति निर्देशाश्च नारायणत्वसाधकाः, य इत्यनुवादरूपत्वात्। ब्रह्मणो भगवन्नाभिसम्भवत्वस्य प्रमाणप्रतिपन्नत्वात्। ‘निवासश्शरणं सुहृ’दिति श्रुतेः। ‘अमृतस्यैष सेतु’रिति मुण़्डके श्रवणात्। ‘यदा चर्मव’दिति वाक्यं उपायांतराभावपरं ‘नान्यः" पन्था’ इत्युक्तार्थविवरणरूपं। एवमुपक्रमोपरंहारादिभिः भगवत्परत्वावगमात् बहूपनिषच्छ्रुतयोग्यार्थासाधारणाभ्यस्तनारायणशब्दानुरोधेनैव नानार्थसाधारणैकैक उषत्पठितायोग्यार्थशिवादिशब्दानां नेयत्वाच्चास्याउपनिषदो भगवत्परत्वं सिद्धमिति॥ ॥इति सर्वव्याख्यानाधिकरणम्॥ इति चतुष्षष्टिप्रबन्धनिर्माणसंसूचितसर्वतन्त्रस्वतन्त्रताबिरुदांचितैः" श्रीमद्रङ्गरामानुजमुनिभिरनुगृहीतायां श्रीशारीरकब्रह्मसूत्रव्याख्यायां" श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यास्य चतुर्थः पादः॥