34 प्रकृत्यधिकरणम्

॥प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्॥ एवं निरीश्वरसांख्ये निरस्ते ईश्वरः केवलं निमित्तभूतः प्रधानमेव पारिणामि जगदुपादानमिति वदतः" सेश्वरसांख्यस्य मतं निराक्रियत इति सङ्गतिः। छान्दोग्ये-श्वेतकेतुः ‘सर्वान्वेदानधीत्य महामना अनूचानमानी स्तब्धएयाय’। सः श्वेतकेतुः" सर्वान्वेदानधीत्य प्रौढमतिः आत्मानं साङ्गवेदाध्यायिनं मन्यमानः परिपूर्णइव तृणीकृतजगन्त्रयः" प्रत्यागतः। ‘तंहपितोवाच’। स्पष्टोऽर्थः। ‘उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतंभवत्यमतं मतमविज्ञातं" विज्ञातमिति’। अस्यार्थः। आदिशतीत्यादेशः। ‘कृत्यल्युटो बहुल’मिति कर्तरि घञ्। ‘उपदेशेऽजनुनासिक" इत्’ इति सूत्रे ‘करणाधिकरणयोश्चे’ति कृत्यल्युटो बाधितस्य घञः भाष्यकृता समर्थितत्वात्। तथा च आदेष्टारं प्रशासितारं किं पृष्टवानसीत्यर्थः। ‘एतस्य वा अक्षरस्य प्रशासने गार्गि, प्रशासितारं" सर्वेषा’मित्यादिश्रुतिस्मृतिप्रतिपन्नं परमात्मधर्मभूतं प्रशासितृत्वमिह आदेशशब्दार्थः। प्रशासनेन च धारकत्वलक्षणमात्मत्वं फलितम्। ततश्च आदेशशब्द आत्मपर्यन्तः। ‘येनाश्रुतं श्रुतं भवती’त्यस्य वाक्यस्य ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातंभवति, आत्मनि खल्वरे द्रष्टे श्रुते मते विज्ञाते इदं सर्वं विदितं भवती’ति मंडूकबृहदारण्यकवाक्यानुसारेण येन श्रुतेन मतेन विज्ञातेनाश्रुतममतमविज्ञातं" श्रुतं मतं विज्ञातं भवतीति वाक्यपर्यवसितोऽर्थः। एतेन ब्रह्मस्वरूपसत्तामात्रस्य अश्रुतश्रुतत्वापादकत्वाभावात् अत्राश्रुतामतादिशब्दानां ‘इदंसर्वं विदितं भवती’ति श्रुत्यन्तरानुसारात् सर्वार्थकत्वं युक्तम्। ततश्च येन श्रुतेन सर्वं श्रुतं भवतीत्यर्थः। एवमुत्तरत्रापि योजनीयम्। अत्र विज्ञानशब्दो निदिध्यासनपरः, ‘श्रोतव्यो मन्तव्यो निदिध्यासितव्य’ इति क्रमप्रत्यभिज्ञानादिति द्रष्टव्यम्। अत्र ‘येनाश्रुतं" श्रुत’ मित्यनेन किमुपादानमिति पृष्टं भवति। प्रशासितृत्वार्थकेनादेशशब्देनात्मस्वरूपं पृष्टं" भवति। ततश्च आत्मभूतमुपादानं किमिति प्रश्नस्य फलितार्थः। अतएव श्रीविष्णुपुराणे-‘यन्मयञ्च जगद्ब्रह्मन् यतश्चैतच्चराचर’मिति श्लोके ‘यन्मय’ मित्यात्मस्वरूपं ‘यतश्चैतच्चराचर’मिति उपादानञ्च पृष्टम्। अत एवंच ‘सन्मूलास्सोम्ये’त्यादिप्रतिवचने ‘सदायतना’ इति सत आत्मत्वं ‘सन्मूलास्सत्प्रतिष्ठा’ इति सत उपादानत्वञ्च प्रतिपाद्यते। अत एव ‘अथातोऽहङ्कारादेशः, अथात आत्मादेश’ इत्यादाविव आदेशशब्दस्य उपदेशार्थकत्वमेवास्तु न प्रशासनार्थत्वमिति शङ्का पराकृता। अतो जगदुपादानभूतं जगदात्मानं किं" पृष्टवानसीत्यर्थः। अन्यज्ञानेन अन्यज्ञानासम्भवात् एकविज्ञानेन सर्वविज्ञानासम्भवं मन्वानश्चोदयति -‘कथंनु भगवस्सआदेशो भवतीति’। हे भगवः ईदृशः आदेशः कथं भवेदित्यर्थः। उपादानोपादेययोस्तत्सम्भवतीत्यभिप्रायेण उत्तरमाह- ‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात्’। यथा उपादानभूते मृत्पिण्डे ज्ञाते तदुपादेयघटशरावादिकं ज्ञातं भवति तद्वदित्यर्थः। ननु असदेव घ़टशरावादिकं मृत्पिणडेनोत्पद्यते। अतश्च उपादानोपादेययोर्भेदात् मृत्पिण्डे ज्ञाते सर्वमृण्मयानां ज्ञातत्वं न सम्भवतीति मन्वानं" प्रत्याह- वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यं’। घटत्वादिलक्षणविकारो घटशरावादिनामधेयं" च, आरभ्यते स्पृश्यत इत्यारम्भणम्। कर्मणि ल्युट्। तेनैव मृद्द्रव्येण घटशरावादिलक्षणो विकारो घटशरावादिनामधेयं च स्पृश्यत इत्यर्थः। आरम्भणशब्दस्य पुन्नपुंसकलिंगान्तविकारनामधेयविशेषेणत्वेऽपि नपुंसकैकशेषैकवद्भावाभ्यां वा लिंगसामान्यादिविवक्षया वा आरम्भणमिति नपुंसकैकवचननिर्देशः। मृद्द्रव्येण विकारनामधेये कस्मै प्रयोजनाय स्पृश्येते इत्यत्राह -वाचेति। प्रयोजनस्य हेतुत्वविवक्षया तृतीया। वाक्छब्दश्च अजहल्लक्षणया वागादिव्यवहारपरः। ततश्च वाक्पूर्वकहानादिव्यवहारार्थं मृत्पिंडेन नामरूपे स्पृश्येते। मृत्पिंड एव नामरूपभाग्भवतीत्यर्थः। अत्र यद्यपि मृत्पिंडमृण्मयाभेदप्रतिपादनं ‘वाचारम्भणं" विकार’ इत्येतावन्मात्रेणापि सिध्यतीति न नामधेयस्यापि स्पृश्यत्वं वक्तव्यं, तथाऽपि संज्ञाभेदे उपादानोपादेययोर्भेदशङ्काव्युदासाय नामापि मृद्द्रव्येण स्पृश्यत इत्युक्तिरपेक्षितेति द्रष्टव्यं। कार्यकारणयोरेकद्रव्यत्वे प्रमाणमाह-‘मृत्तिकेत्येव सत्यं’। मृण्मयं घटादिकं मृत्तिकेति वाक्यमेव सत्यम्। अबाधितार्थकमित्यर्थः। ततश्च उपादानोपादेययोरभेदात् उपादाने ज्ञाते उपादेयस्य ज्ञातता भवतीत्यर्थः। ननु ‘सर्वं मृण्मयं विज्ञातं स्या’दित्यत्र विकारार्थमयट् प्रत्ययेन घटशरावत्वाद्यवस्थारूपोविकारः, तस्य मृत्पिंडापेक्षया भिन्नत्वेन तज्ज्ञानेन ज्ञातत्वासम्भवात्। ततश्च तदुपपादके ‘वाचारम्भणंविकार’ इति वाक्येऽपि विकारशब्देनावस्थावद्द्रव्यलक्षणस्य विकारस्याभिधानमुचितं, नत्ववस्थालक्षणविकारस्येति चेत्, सत्यं। तस्यैवाभिधानमुचितं। तथाऽपि मृद्द्रव्येण घटशरावादिलक्षणस्यावस्थावतो द्रव्यस्य स्पर्शासंभवात्। नह्यात्मैवात्मना स्प्रष्टुं शक्यः। अतो मृण्मयमित्यत्र विकारवाचिमयट्प्रत्ययेनावस्थावतोऽभिधानेऽपि तदुपपादके ‘वाचारम्भणं विकार’ इति वाक्ये विकारशब्देनावस्थाया एव ग्रहणमुचितम्। तथा ‘मृत्तिकेत्येव सत्य’ मित्यत्र विशेष्याकाङ्क्षायां ‘सत्य’मिति नपुंसकलिंगानुरोधात् अवस्थावद्द्रव्यवाचिमृण्मयमित्येतत् विशेष्यतयाऽनुषज्यते। ततश्च ‘सर्वं मृण्मयं मृत्तिकेत्येव सत्य’मित्यत्र अवस्थावद्द्रव्यमेव विकारवाचिना मयट्प्रत्ययेनाभिधीयत’ इति न कश्चिद्दोष इति द्रष्टव्यम्। यत्त्वत्र परैरुक्तं ‘विकारो वाचारम्भणं" वागालम्बनमात्रं नामधेयं, स्वार्थे धेयप्रत्ययः, नामैव केवलं विकारो नाम नवस्त्वस्ति मृत्तिकैव सत्य’मिति। तदसम़ञ्जसम्। ‘वाचारम्भण’मित्यस्य वागालम्बनमित्येतदर्थकत्वे प्रमाणाभावात्। ‘नामधेय’ मित्यनेन वागालम्बनमात्रमित्यतोऽतिरिक्तार्थाप्रतिपादनात्पुनरुक्तिश्च, मृत्तिकासत्यत्वमात्रत्वविवक्षायामिति शब्दवैयर्थ्य़ञ्च। उक्तञ्चाभियुक्तैः-‘वाचारम्भणमित्युक्तेर्मिथ्येत्यश्रुतकल्पनम्। पुनरुक्तिर्नामधेयमितीत्यस्य निरर्थते’ति। किं च परमते ‘येनाश्रुतं श्रुतं भवती’ति सन्दर्भोऽपि न युज्यते। शुक्तितत्वे ज्ञाते तदध्यस्तरजतादेर्निवृत्तावपि रजतत्वादर्शनेन ब्रह्मणि ज्ञाते प्रपञ्चस्य तत्वं ज्ञातमेव। शुक्तिव्यतिरिक्ततत्त्वस्याभावात्। ननु शुक्तौ ज्ञातायां रजतस्य तत्वं ज्ञातमेव। शुक्तिव्यतिरिक्त तत्त्वस्याभावात्। एवं ब्रह्मणि ज्ञाते प्रपञ्चस्य तत्वं ज्ञातमेवेति चेन्न। परमार्थशुक्तेरपरमार्थरजततत्त्व रूपत्वासम्भवात्। न हि शुक्तौ ज्ञातायां रजततत्त्वं ज्ञातमिति व्यवहारो दृष्टचर इत्यास्तां तावत्। ‘यथा सौम्येकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्या’दित्यादि। लोहमणिः। सुवर्णपिंडविशेषः। ‘यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसंविज्ञातं स्या’दिति। नखनिकृन्तनशब्देन कृण्णायसपिंजविशेषो लक्ष्यते। शिष्टं पूर्ववत्। ‘एवं सोम्य स आदेशो भवती’ति। मयोक्त आदेशो मृत्पिंजादितुल्य इत्यर्थः। यद्यप्यधिकरणचिन्तोपयुक्तं" प्रतिज्ञादृष्टान्तद्वयमेव विषयः, तथाऽपि उत्तरवाक्येषु अवश्यं ज्ञातव्यं ‘सदेवे’ति वाक्यं लिख्यते। प्रतिज्ञातस्य एकविज्ञानेन सर्वविज्ञानसमर्थनाय जगतो ब्रह्मैककारणतां प्रतिपादयितुं प्रवृत्तः" यथा लोके अपराह्णे प्रसारितानां घटशरावोदञ्चनादीनाञ्च मृत्पिंडैकोपादानतां प्रतिपिपादयिषुः पूर्वाह्णे एतद्घटशरावादिकं मृत्पिंड एवासीदिति प्रतिपादयति तथा प्रतिपादयति-‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं’। इदं विभक्तनामरूपं वहुत्वावस्थं जगत् अग्रे सृष्टेः प्राक् एकमेव अविभक्तनामरूपतया एकत्वावस्थापन्नमेव अद्वितीयं अधिष्ठात्रन्तरशून्यं सदेवासीदित्यर्थः। अत्र सच्छब्दो मानसम्बन्धयोग्यत्वलक्षणं सत्त्वं" प्रवृत्तिनिमित्तीकृत्य परमात्मनि वर्तते। अयं च सच्छब्दो विशेष्यभूतपरमात्मवाचकोऽपि कारणविषयत्वसामर्थ्यात् कारणत्वौपयिकगुणविशिष्टप्रकृति पुरुषकालशरीरकं परमात्मानमुपस्थापयति। ‘देवां आज्यपां आवहे’त्यादौ विशेष्यवाचिन एव आज्यशब्दस्य विकृतिषु पृषदाज्यवाचित्वस्य दाशमिकन्यायसिद्धत्वात्। अत्र ‘सदेवे’त्येवकारस्य नैयायिकमतसिद्धोत्पत्तिप्राक्कालीनकार्यासत्त्वव्यावर्तकत्वं" ‘तद्धैक आहुरसदेवेदमग्रआसी’दिति असत्कार्यवादिदर्शनप्रतिक्षेपपरोत्तरवाक्यसन्दर्भादवसीयते। ‘एकमेवे’ त्येवकारेण ‘बहुस्या’मिति वक्ष्यमाणा स्रक्ष्यमाणकार्यबहुत्वावस्था व्युदस्यते। ‘तदैक्षत तत्तेजोऽसृजते’त्युत्तरवाक्यसन्दर्भे सच्छब्दितस्यैव निमित्तत्वकथनात् ‘अद्वितीय’मित्यनेन निमित्तान्तरं निषिध्यते। ततश्च ‘एकमद्वितीय’मिति पदाभ्यां" अभिन्ननिमित्तोपादानत्वं सिद्धं भवति। ततश्चायमर्थः-इदं बहुत्वावस्थं विभक्तनामरूपं प्रत्यक्षतया दृश्यमानं जगत् सृष्टेः प्राक् निमित्तान्तरशून्यमविभक्तनामरूपतया एकं सच्छब्दितं ब्रह्मैवासीदित्यर्थः। यद्यपीदानीमपि जगत्सदेव, तथाऽप्यविभक्तनामरूपसद्भावपत्तिस्सृष्टेः प्रागेवेति ‘अग्र’ इत्यस्य नानुपपत्तिः। ननु ‘सदेव सोम्येदमग्रआसी’दित्यत्र इदंशब्दस्य कथमश्रुतवदान्तश्वेतकेतुंप्रति ब्रह्मपर्यन्तप्रतीतिजनकत्वमिति चेन्न। विशेष्यस्य ब्रह्मणो विशेषणस्य प्रप़ञ्चस्य पूर्वोत्तरावस्थाश्रयहेतुहेतुमद्रूपतया उपादानोपादेयभावोऽस्तीति अस्मिन्पक्षे इदंशब्दस्य केवलचिदचित्प्रपञ्चमात्रपरत्वेन अस्याश्शङ्काया अनवकाशात् न च केवलस्य ब्रह्मणः परिणामित्वासम्भवेन कथमुपादानत्वमिति वाच्यम्। यस्योत्पत्तिविनाशापेक्षया सत्तादिकं आश्रयोत्पत्त्यादिनैव व्यवह्रियते तत्तदपृथक्सिद्धमिति तदपृथक्सिद्धकारणत्वस्यैव तदुपादानत्वरूपत्वात् विशेष्यस्य ब्रह्मणो विशेषणापृथक्सिद्धाकरत्वेन उपादानत्वस्यैव युक्तत्वात्। भाव्यवस्थाश्रयस्यैव उपादेयतया तच्छरीरभूतस्य जगतोऽपि भाव्यवस्थाश्रयत्वेन ब्रह्मोपादेयत्वसम्भवात्, तत्सत्तयैव सदिति व्यवहारवत् तज्ज्ञाततयैव ज्ञाततासम्भवेन एकविज्ञानेन सर्वविज्ञानोपपत्तेश्च ‘सर्वं खल्विदं’ ‘ऐतदात्म्यमिदं सर्व’मित्यादिषु सर्वत्र इदंशब्दस्य केवलविशेषणमात्रपरत्वे बाधकाभावात् विशिष्टस्यैव ब्रह्मण उपादानत्वमित्यस्मिन्पक्षेऽपि इदमादिशब्दानां विशेषणमात्रपरत्वमेवाश्रियते। यथाऽथर्वशिरसिरुद्रं प्रति देवैः प्रयुक्तस्य ‘को भवा’निति प्रश्नस्य पुरोवर्तिरुद्रमात्रपरत्वेऽपि भवच्छब्दस्य परमात्मपर्यन्तत्वशिक्षणाय ‘अहमेकः प्रथममास’मित्यादिवचनप्रवृत्तिः, एवमेव ‘इदमग्रआसी’दिति विशेषणमात्रपरत्वेऽपि विशेष्यपर्यन्तत्वशिक्षणाय स्थूलचिदचिच्छरीरं ब्रह्म प्रति सूक्ष्मचिदचिच्छरीरं ब्रह्मोपादानमित्येतदर्थ प्रतिपादकस्य उत्तरसन्दर्भस्य प्रवृत्तौ दोषाभावात्। ननु उक्तरीत्या भिन्नयोरुपादानोपादेयभावसमर्थनेऽपि ‘सदेवेदमग्रआसीत्, सर्वं" खल्विदं ब्रह्मे’ति परस्परभिन्नविशेषणविशेष्यवाचिनोः जगद्ब्रह्मवाचिशब्दयोः कथं सामानाधिकरण्यमितिचेत्। अपृथक्सिद्धवाचित्वस्यैव सामानाधिकरण्यप्रयोजकतया लोकवेदयोर्दृष्टत्वात्। चिदचित्प्रपञ्चस्यैव तच्छक्तित्वेन तच्छरीरत्वेन च तयोरभेदोपचारेण अभेदनिर्देशानां ‘सदेवेद’मित्यादिरूपाणामुपपत्तेः, शक्तिशक्तिमतोः दण्डघटादिवदत्यन्तभेदाभावात् विशेषणभूतप्रपञ्चांशे ब्रह्मण उपादानत्वाभावे ‘न विलक्षणत्वा’दित्यस्य वा ‘कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपोवे’त्यधिकरणस्य वा निरालम्बनत्वप्रसङ्गात्, ब्रह्मणो ब्रह्म प्रति उपादानत्वे विलक्षणत्वशङ्काया वा ब्रह्मणो जगद्रूपेण परणामाभावे कृत्स्नप्रसक्तिनिरवयवत्वशब्दकोपाशङ्कयोर्वा अप्रसक्तेः। नन्वेवं ‘तदनन्यत्वमारम्भणशब्दादिभ्य’ इत्यधिकरणे प्रपञ्चस्योपादानभूत ब्रह्मणोऽभेदास्भवादुपादानोपादेय अभेदसमर्थनं विरुध्येतेति चेत्- न तस्मिन्नाधिकरणे उपादानोपादेययोः स्वरूपाभेदः समर्थ्यते, तयोरभेदे कारकव्यापारवैयर्थ्यप्रसङ्गात्। अपि तु तदपृथक्सिद्धत्वं, तच्च तत्सत्ताधीनसत्ताकत्वम्। एतादृशस्यापृथक्सिद्धत्वस्य अभेदव्यवहारप्रयोजकत्वं" ‘यदधीना यस्यसत्ता तत्तदित्येव भण्यत’ इति प्रमाणसिद्धं, अतो न तदधिकरणविरोधः। यद्वाऽस्मन्मते स्थूलचिदचिदात्मकप्रपञ्चस्येव तद्विशिष्टस्यापि ब्रह्मण उपादेयत्वादुपादानभूतसूक्ष्मचिदचिच्छरीरकस्य ब्रह्मण उपादेयभूतस्थूलचिदचिद्विशिष्ट ब्रह्माभेदसमर्थनपरतया आरम्भणाधिकरणस्योपपत्तेर्न चोद्यावकाशः। नच सच्छब्दस्य सूक्ष्मप्रकृतिकालजीवशरीरकब्रह्मपरत्वे कार्यभूतजगत्सृष्टेः प्राक् तादृशब्रह्मबोधकत्वेऽपि जगति सत्तासम्बन्धबोधकत्वाभावेन असत्कार्यव्युदासकत्वं कथमिति वाच्यम्। सृष्टेः प्राक् सच्छब्दितब्रह्माभेदबोधने नैयायिकाभिमतासत्वव्युदासस्य अर्थसिद्धत्वात्। अतः ‘उत तमादेशमप्राक्ष्य’ इत्यादिभिः प्रश्नोत्तरवाक्यैः" अभिन्ननिमित्तोपादानं ब्रह्मेति प्रतिपाद्यते॥ ननु लोके घटकर्तुः कुलालस्य उपादनत्वादर्शनात् जगत्कर्तुः परमात्मनः जगदुपादानत्वं नसम्भवति। किं" च निष्कलतयाऽपरिणामिनः परमात्मनः परणामित्वलक्षणोपादानत्वासम्भवाच्च ब्रह्मणो नोपादानत्वम्। ‘अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः’। ‘मायान्तु प्रकृतिं" विद्यान्मायिनं तु महेश्वर’मिति श्रुतिवशात्परिणामसमर्थप्रकृतिरेवोपादानं, ईश्वरस्य तु तदधिष्ठातृत्वमात्रमेवेति प्राप्त उच्यते– प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्। प्रकृतिश्च उपादानं च ब्रह्मैव। इतरथा एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाया मृत्पिंडादिदृष्टान्तस्य चोपरोधप्रसङ्गात्। नह्युपादानभूतमृत्पिंडज्ञान इव निमित्तभूतदण्डादिज्ञाने तत्कार्यं घटशरावादिकं ज्ञातं भवति। अतएव एकविज्ञानेन सर्वविज्ञानप्रतिज्ञया मृत्पिंडादिदृष्टान्तस्वारस्येन च ब्रह्मजगतोरुपादानोपादेयभावएवावसीयते। नच अस्य ग्रामस्य प्रधानभूते चैत्रे दृष्टे ‘सर्वे ग्रामस्था दृष्टा’ इति व्यपेदशवत् ब्रह्मणः सर्वप्रधानतया ‘तस्मिन्दृष्टे सर्वं विदितप्राय’ मित्युक्तिरुपपद्यत इति वाच्यम्। यदिह्यत्र सर्वविज्ञानं प्राधान्याभिप्रायं गौणं स्यात्तदाप्रधानज्ञानेन सर्वमिदमप्रधानमविदितमपि फलतो विदितप्रायं भवतीत्यस्यार्थस्य लोकसिद्धत्वेन एकविज्ञानेन सर्वविज्ञानानुपपत्तिं पश्यतः श्वेतकेतोः" ‘कथं नु भगवस्य आदेश’ इति प्रश्नो न स्यात्। अभिप्रायानभिज्ञेन कृतोऽपि प्रश्ने प्राधान्याद्वा सादृश्याद्वा सर्वं ज्ञातं स्यादित्येव प्रतिवाक्तव्यं स्यात्। न तु ‘यथा सोम्यैकेन मृत्पिंडेने’ति। अतो ब्रह्मोपादानमेव॥॥अभिध्योपदेशाच्च॥ ‘तदैक्षत बहुस्यां प्रजायेये’ति ब्रह्मण एव ‘बहुस्या’मिति सङ्कल्पपूर्विका सृष्टिरुपदिश्यते। नहि कुलालादेरीदृशसङ्कल्पपूर्विका सृष्टिः सम्भवति॥॥साक्षाच्चोभयाम्नात्॥ ‘ब्रह्मवनं ब्रह्म सवृक्ष आसीत् यतो द्यावापृथिवी निष्टतक्षुः। मनीषिणो मनसा विब्रवीमि वः ब्रह्माध्यतिष्ठद्भुवनानि धारय’न्निति हि श्रूयते। यत उपादानात् द्यावापृथिवीशब्दोपलक्षितं कृत्स्नं जगत् ब्रह्म निष्टतक्षुः=निर्मितवानित्यर्थः। वचनव्यत्ययश्छान्दसः। तादृशवृक्षस्थानीयद्यावापृथिव्यादि जगदुपादानमपि ब्रह्मैव। तस्योपादानभूतस्य वृक्षस्य आधारभूतं वनमपि ब्रह्मैव। भुवनानि धारयन्नीश्वरो ब्रह्मशब्दावाच्यं स्वात्मानमेव अध्यतिष्ठदित्यर्थः। अतश्च अधिष्ठेयमुपकरणादिकमपि ब्रह्मैवेत्यर्थः॥॥आत्मकृतेः॥ ‘तदात्मानं स्वयमकुरुत’ इत्यात्मन एव बहुत्वकरणात्तस्यैव निमित्तत्वमुपादानत्वञ्च। नहि ‘कुलालआत्मानं स्वयमकुरुते’ति व्यपदेशोऽस्ति॥ननु ‘निष्कलं निष्क्रिय’मिति निरवयवस्य अपरिणामिनः कथं परिणामित्वलक्षणमुपादानत्वं स्यात्तत्राह– ॥परिणामात्॥ निर्विकारत्वाद्यविरोधिपरिणामविशेषसम्भवादित्यर्थः। अयं भावः- ‘निष्कलं निष्क्रियं शान्त’मित्यादिभिः" परमात्मनो निर्विकारत्वं च प्रतीयते। पूर्वोक्तसूत्रोदाहृत श्रुतिभिः प्रपंचोपादानत्वं च प्रतीयते। उभयमपि यथोपपद्यते, तथोपपादनीयम्। परमात्मनश्च निर्विकारत्वं श्रूयते - ‘विकारजननीमज्ञामष्टरूपामजां" ध्रुवां’ ‘अजामेकां लोहितशुक्लकृष्णां’ ‘अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः’ ‘मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वर’ मित्यादिवाक्येषु प्रपंचोपादानतया परिणामिनी प्रकृतिः" प्रतीयते। तत्र परिणममानप्रकृतिरूपोपादानावरुद्धे प्रपञ्चे साक्षात्कारणत्वासम्भवात्तद्वारा ब्रह्म कारणमित्यवसीयते। यथा ‘यदाग्नेयोष्टाकपाल’ इति पुरोडाशावरुद्धे यागे व्रीहीणां कारणत्वं साक्षात्कारणत्वासम्भवात् पुरोडाशद्वारा पर्यवस्यति, तद्वत्। ननु भवत्वन्यद्वारा कारणत्वनिर्वाहो व्यापारव्यवधानेऽपि कारणत्वाक्षतेः। उपादानत्वं तु नान्यद्वारा सम्भवति। भाव्यवस्थावतः पूर्वावस्थायोगित्वं ह्युपादानत्वम्। अवस्थाश्रयत्वशून्ये परमात्मनि कथमुपादानत्वमिति चेन्न। परमात्माश्रितायास्तच्छक्तिभूतायाः प्रकृतेरवस्थाश्रयत्वेन परमात्मनोऽप्यवस्थाश्रयत्वोपपत्तेः। ततश्च ब्रह्मणि साक्षाद्रिकाराभावमादाय अपरिणामित्वनिर्विकारत्वश्रुतयश्चोपपन्नाः। शक्तिशरीरादिशब्दितायाः प्रकृतेर्ब्रह्मणश्च अभेदोपचारेण वा प्रकृतिगतावस्थायाः परंपरया ब्रह्माश्रितत्वेन वा ब्रह्मणः परणामोपादानत्ववादाः, ब्रह्मोपादानत्वावलम्बनाच्च ‘न विलक्षणत्वादस्य तथात्वञ्च शब्दात्’ ‘कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा’ इत्याद्याक्षेपपरिहाराश्चोपपन्नाः॥॥योनिश्च हि गीयते॥ ‘यद्भूतयोनिं परिपश्यंति धीरा’इति योनिरुपादानमिति हे ब्रह्म गीयते। योनिशब्दस्य उपादानवचनत्वं" ‘यथोर्णनाभिस्सृजते गृह्णतेचे’ति वाक्यशेषादवगम्यते। अतश्च ब्रह्मैव निमित्तमुपादानञ्चेति स्थितम्॥ ॥इति प्रकृत्यधिकरणम्॥