॥वाक्यान्वयात्॥ बृहदारण्यगतमैत्रेयब्राह्मणमेव अस्य अधिकरणस्य विषयः। ‘मैत्रेयीति होवाच याज्ञवल्क्य उद्यास्यन्वा अरेऽहमस्मात् स्थानादस्मि हंततेऽनया कात्यायन्याऽन्तं करवाणीती’ति। अरे मैत्रेयि अहमस्मात् स्थानात् गार्हस्थ्यलक्षणादाश्रमात् उद्यास्यन्नस्मि=ऊर्ध्वं गन्तुमिच्छन्नस्मि। अन्तं सपत्न्या सह कलहशान्तये द्रव्यविभागनिर्णयं करवाणीत्यर्थः। ‘साहोवाच मैत्रेयी येनाहं नामृतास्यां किमहं" तेन कुर्यां यदेवेह भगवान् वेद तदेव मे ब्रूही’ति। मम अमृतत्वप्राप्त्यनुपायभूतेन वित्तेन अहं" किं करिष्यामि। भवान् यदमृतत्वप्राप्त्युपायं वेद तदेव मे ब्रूहीत्यर्थः। ‘सहोवाच याज्ञवल्क्यः" नवाअरे पत्युः कामाय पतिः प्रियो भवति आत्मनस्तु कामाय पतिः प्रियो भवति’। ‘न वा’ इत्यत्र वैशब्दोऽवधारणे। नैवेत्यर्थः। पत्युःकामाय। कामः=सङ्कल्पः। सङ्कल्पं सफलीकर्तुमित्यर्थः। ‘क्रियार्थोपपदस्य च कर्मणि स्थानिन’ इति चतुर्थी। तथा च अरेहेमैत्रेयि पत्युः प्रियत्वं अहमस्याः प्रियस्स्यामिति पतिसङ्कल्पसाफल्याय नैव भवति पतिसङ्कल्पायत्तं न भवतीति यावत्। ‘वैदाध्ययनं सफलीकर्तुं यज्ञ’ इत्युक्ते वेदाध्ययनस्य यज्ञः फलमिति सिध्यति। एवं सङ्कल्पसाफल्याय प्रियस्स्यामिति पतिस्सङ्कल्पयन्नपि न स तस्याः प्रियो भवति। परमात्मनस्सङ्कल्पात् पतिः पत्न्याः प्रियो भवति। परमात्मनस्सङ्कल्पात् पतिः पत्न्याः प्रियो भवतीत्यर्थः। ‘आत्मनस्तु कामाये’त्यत्रापि पूर्ववच्चतुर्थी। एवं जायापुत्रादिपर्यायेष्वपि द्रष्टव्यम्। ‘आत्मावा अरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’। तस्मात् पतिजायादीनां प्रियत्वं" यत्सङ्कल्पायत्तं तस्य परमात्मनः प्रसादाय परमात्मा द्रष्टव्यः, सहि परमात्मा दर्शनेन प्रसन्नस्सन् सर्वेषामपि वस्तूनां पतिजायादिवत् ततोऽधिकं वा प्रियत्वमापादयितुं शक्नोति। ‘न पश्यो मृत्युं" पश्यति न रोमं नोत दुःखता’ मिति मुक्तौ सर्वेषां प्रियत्वश्रवणादिति भावः। अत्र स्वाध्यायस्य अर्थपरत्वे अधीतवेदः पुरुषः प्रयोजनवदर्थदर्शनात्तन्निर्णयाय स्वयमेव गुरुमुखात् न्याययुक्तार्थग्रहणलक्षणश्रवणे प्रवर्तत इति श्रवणस्य प्राप्तत्वात् ‘श्रोतव्य’ इत्यनुवादः। स्वात्मन्येवमेवेति युक्तिभिः ज्ञातार्थप्रतिष्ठापनलक्षणमननस्य श्रवणप्रतिष्ठार्थतया प्राप्तत्वात् ‘मन्तव्य’ इति चानुवादः। अतोऽनवरतभावनारूपं ध्यानमेव ‘निदिध्यासितव्य’ इति विधीयते। उपायदशाप्रभृति भगवद्ध्यानस्यानुकूलत्वसूचनाय ‘निदिध्यासितव्य’ इति सनन्तपदेन निर्देशः। अत्र ‘स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्ष’ इति ध्यानस्यैव मोक्षंप्रत्यव्यवहितहेतुत्वश्रवणात् ‘क्षीयन्तेचास्य कर्माणि तस्मिन्दृष्टे परावर’ इति दर्शनस्यापि मोक्षाव्यवहितकारणत्वश्रवणात्, उभयोरेकार्थत्वस्य वक्तव्यत्वात्, चाक्षुषज्ञानवाचितया दृशिधातोश्चाक्षुषज्ञानस्य च ‘न चक्षुषा गृह्यत’ इत्यचाक्षुषज्ञानवेद्ये ब्रह्मणि विधातुमसम्भवात्, ‘द्रष्टव्य’ इति दर्शनशब्देन उपचारात् दर्शनसमानाकारमिति विशदतमज्ञानमभिधीयते। ततश्च द्रष्टव्योनिदिध्यासितव्य इत्याभ्यां दर्शनसमानाकारत्वविशिष्टं" ध्यानं विधीयते। ॥श्रीः॥ ‘आर्षेयं वृणीते एकं वृणीते द्वौ वृणीते त्रीन्वृणीते न चतुरो वृणीते न पञ्चातिवृणीत’ इत्यत्र ‘आर्षेयं वृणीते त्रीन् वृणीत’ इत्याभ्यां त्रित्वविशिष्टार्षेयवरणविधानवदिति द्रष्टव्यं। अत्र निदिध्यासितव्यतया निर्दिष्टस्य परमात्मनो जगत्कारणत्वं" लक्षणमाह- ‘मैत्रेय्यात्मनोवा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितं भवती’ति। उपादानोपादेययोरभेदात् तस्मिन्नात्मनि ज्ञाते सर्वं विदितं भवतीत्यर्थः। अत्र ‘सर्वमिद’मितिशब्दौ स्थूलावस्थचिदचिद्विशिष्टब्रह्मपरौ। आत्मशब्दोपि सूक्ष्मचिदचिद्विशिष्टब्रह्मपरः। अतस्तयोरभेदात् तद्विज्ञानेन सर्वं विज्ञातमित्युपपद्यते। अनेन जगदुपादानत्वमुक्तं भवति। अत्र ‘निदिध्यासितव्य’ इत्युक्त्वा सर्वोपादानत्वकथनात् जगत्कारणत्वं" सकलपरविद्यानुयायीत्युक्तं भवति। ननु कथमात्मनि विज्ञाते सर्वमिदं विज्ञातं स्यात् जगतस्तद्भिन्नत्वादित्याशंक्याह- ‘ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद’ ब्राह्मणवर्णः यस्त्वधिकारी ब्राह्मणवर्णं आत्मनोऽन्यत्र परमात्मनोऽन्यत्र स्थितं न तु परमात्मनि स्थितं अब्रह्मात्मकं स्वनिष्ठं वेद=जानीयात्। तं ब्रह्म स ब्राह्मणवर्ण एव परादात्=पराकुर्यात्। अभिभवेत्। आत्मनोऽन्यत्वेन अब्रह्मात्मकत्वेनावगतो ब्राह्मणवर्ण एव संसारयतीत्यर्थः॥ ननु सर्वस्य ब्रह्माधारकतया ब्रह्मात्मकत्वेऽपि ब्रह्मात्मकस्य शरीरभूतस्य जगतः शरीरिभूतब्रह्मापोक्षया भिन्नत्वेन तथाविधब्रह्मज्ञानेन सर्वज्ञानाऽसम्भवमाशंक्य ‘तस्मिन् विज्ञाते इदं सर्वं विदितं" भवती’ति इदंसर्वमिति शब्दाभ्यां अन्यैरपि शब्दैः तत्तच्छरीरकं ब्रह्मैव अभिधीयतइत्यभिप्रेत्याह- ‘इदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमानि भूतानीदं सर्वं यदयमात्मा’। ततश्च आत्मनि विज्ञाते इदं सर्वं विदितं भवति। सर्वशरीरकं ब्रह्म विदितं भवतीत्यर्थ उपपद्यतइति भावः। सामान्येनोक्तं" जगत्कारणत्वं दृष्टान्तबलेन अभिन्ननिमित्तमिति सूचयन् प्रपञ्चयति-‘सयथाऽऽर्दैधाग्नेरभ्याहितात् पृथग्धमाविनिश्चरंति’। एधशब्दः अकारांतः इन्धनवाची। अग्निर्हि धूमोत्पात्तौ निमित्तं, इन्धनन्तूपादानं। अभ्याहितात् आध्मानवीजनादिना प्रवर्तितादित्यर्थः। पृधग्विधाधूमाः विनिश्चरन्ति-निर्गच्छन्तीत्यर्थः। ‘एवंवा अरेऽस्य महतोभूतस्य निश्वासितमेतत्’। निश्वासवदनायासेनैव उद्गतं। एतत्=वक्ष्यमाणमित्यर्थः। किंतदित्याह-‘ऋग्वेद’ इत्यादिना। सर्वावस्थास्वपि जीवस्वरूपस्य परमात्मनिष्ठतया स्वातन्त्र्याभावज्ञापनाय जीववाचिशब्देन परमात्मानन्निर्दिशन् अमृतत्वोपायप्रवृत्तिप्रोत्साहनाय भूतसंघात्मकशरीरजन्ममरणानुविधायिनः" संसरतोजीवस्याऽपरिच्छिन्नज्ञानैकाकारतामुपपादयति - ‘सयथा सैन्धवखिल्यउदके प्रास्त उदकमेवानुविलीयेत न हास्योद्ग्रहणायैव स्याद्यतोयतस्त्वाददीत लवणमेव’। सैन्धवखिल्यः लवणखणडः उदके प्रक्षिप्तः उदकमनुप्रविश्य विलीयतएव। अस्य विलीनस्य लवणस्य उद्ग्रहणाय उदकात् पृथक्कृत्य ग्रहीतुं यथानैव कोपि शक्तस्स्यात् तच्चोदकं यथा यतोयतः- मध्यतः पार्श्वतो वा। आददीत=गृह्णीयात्। तत्तोयं लवणमयमेव भवति। ‘एवं वा अरे इदं महद्भूतमनन्तरमपारं विज्ञानघनएवैतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति’। एवमेवेदं" अनन्तं अपरिच्छेद्यमपारं गुणतोऽप्यपरिच्छेद्यं ब्रह्म विज्ञानघन एव जीवशरीरकतया भूतेष्वनुप्रविश्य भूतेषूत्पद्यमानेषु स्वयमुत्पद्यमानः तेषु नश्यत्सु अनु पश्चात् स्वयं नश्यति। ननश्यतीत्यर्थः। देहोत्पत्तिविनाशानुविधाय्युपादविनाशवानभवतीति यावत्। विनाशोनाम अत्यन्तज्ञानसङ्कोचः। उत्पत्तिर्नाम विकासप्रादुर्भावः। ’ न प्रेत्य संज्ञास्ती’ति। प्रेत्य = चरमदेहवियोगं प्राप्य। मोक्षदशायां स्वाभाविकापरिच्छिन्नज्ञानस्य सङ्कोचाभावेन नसंज्ञास्ति। समित्येकीकारे। ज्ञाधातोः ज्ञानमर्थः। ततश्च भूतसंघातेनैकीकृत्य ज्ञानं" संज्ञाशब्दार्थः। आमोक्षं देहभ्रमोनुवर्तत इति भावः। न च ‘महद्भूतमनन्तमपार’ मिति निर्दिष्ट्ब्रह्मणो विज्ञानघनत्वात् ‘समुत्थायानुविनश्यती’ति जीवत्वसंसारित्वावेदनं मुख्यमेवास्त्विति वाच्यम्। ‘निरनिष्टो निरवद्य’ इत्यादिश्रुतिप्रतिपन्नस्य परमात्मनः संसारित्वासम्भवात् मोक्षधर्मे जनकयाज्ञवल्क्यसंवादे ‘अन्यश्च राजन् सपरस्तथाऽन्यः पञ्चविंशकः। तत्स्थत्वादनुपश्यन्ति ह्येक" एवेति साधवः’ इति शरीरशरीरिणोर्भेदेऽपि शरीरान्तस्थितस्य शरीरिण एकत्वात् ‘अयमेकः पुरुष’ इति व्यवहारवत् अन्तरवस्थितिनिबन्धनप्रकार्यैक्यविषयोऽभेदव्यवहार इति वक्तुं शक्यत्वात्। ततश्च जीवस्य परमात्मशरीरतया तद्वाचिना विज्ञानघनशब्देन परमात्मनोऽभिधानं तद्धर्म भूतोत्पत्ति विनाशादि धर्मवत्त्व कथनञ्च नविरुद्धमिति द्रष्टव्यम्। नच विज्ञानघनशब्देन परमात्मवाचित्वं परित्यज्यजीववाचित्वमाश्रित्य जीवशरीरकपरमात्माभिधानाश्रयणं" किन्निबंधनमिति वाच्यम्। परमात्मनः स्वरूपेणोत्थानविनाशासम्भवात् जीवरूपेणोत्थानविनाशयोः वक्तव्यत्वेन जीववाचिपदस्य कस्यचिदावश्यकत्वात् अन्यस्य चाभावात् विज्ञानघनशब्दस्य जीववाचित्वसम्भवाच्च विज्ञानघनशब्देन जीवशरीरकपरमात्माऽभिधीयत इत्युक्तौ विरोधाभावात्। ‘साहोवाच मैत्रैयी अत्रैव मा भगवानमूमुहत् न प्रेत्य संज्ञाऽस्तीति’। ‘नप्रेत्य संज्ञास्ती’ति वाक्य एव भगवान् माममूमुहत्। ‘मुहेर्णौ छन्दसि’। मोहयतिस्मेत्यर्थः। विज्ञानघनशब्दितस्य ज्ञानैकाकारस्य आत्मनः मुक्तौ संज्ञाभावः विरुद्ध इति मोहो मे संवृत्त इति भावः। यद्यपि संज्ञाशब्दो देहात्मैक्यभ्रान्तिपर इति न विरोधः, तथापि तदभिप्रायानभिज्ञानात् मुह्यन्ती मैत्रेयी एवमुक्तभवतीति द्रष्टव्यं। ‘न वा अरेऽहं" मोहं ब्रवीम्यलं वा अर इदं विज्ञानाय’। ‘न प्रेत्य संज्ञास्ती’ति नाहं मोहकं वचो ब्रवीमि। इदं" विज्ञानघनशब्दितं महद्भूतं पूर्वनिर्दिष्टं प्रेत्यापि विज्ञानाय अलमेव। ज्ञातुं पर्याप्तमेवेत्यर्थः। ततश्च मुक्तौ सर्वज्ञतया सर्वं पश्यत एव सतो विज्ञानघनस्य मया पूर्वनिर्दिष्टस्संज्ञाभावः देहात्मैक्यविषयकभ्रान्त्यभावनिबन्धन एवेति भावः। एवं मुक्तौ देहात्मभ्रमनिवृत्तिं कृत्वा स्वनिष्ठताभ्रमनिवृत्तिं प्रतिपादयति– ‘यत्र हि द्वैतमिव भवती’त्यादिना। अत्र चिन्त्यते– उपक्रमे पतिजायापुत्रवित्तादि प्रियसंबंधित्वलक्षणजीवलिङ्गकीर्तनात्, मध्येच ‘विज्ञानघन एवैतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यती’ति देहानुबन्धिजननमरणलक्षणजीवलिंगप्रतिपादनात्, अन्ते च ‘विज्ञातारमरे केन विजानीया’दिति विज्ञातृत्वरूपजीवलिंगकीर्तनाच्च, कृत्स्नमपि प्रकरणं" जीवपरमेव। परमात्मलिंगानि तु कथञ्चिन्नेयानीति पूर्वपक्षे प्राप्त उच्यते– वाक्यान्वयात्। कृत्स्नस्य वाक्यसन्दर्भस्यान्वयः परमात्मन्येवोपपद्यते, नान्यत्र। तथाहि– ‘अमृतत्वस्य तु नाशास्ति वित्तेने’ति याज्ञवल्क्येनाभिहिते ‘येनाहं नामृता स्यां किमहं तेन कुर्या’मिति अमृतत्वोपायमात्रार्थिन्यै मैत्रेय्यै ‘आत्मावाअरे द्रष्टव्य’ इति द्रष्टव्यत्वेनोपदिष्टस्यात्मनः परमात्मत्वमेवाभ्युपगन्तव्यं। आख्यायिकाया विद्यागतविशेषप्रतिपादनोपयुक्तत्वस्य पुरुषार्थपादे समर्थयिष्यमाणत्वात्। ततश्च उपक्रमगताख्यायिकावशात् परमात्मपरत्वमेवास्य प्रकरणस्य। तथा ‘अस्य महतो भूतस्य निश्वसितमेतत्’ ‘आत्मनो वा अरे दर्शनेन श्रवणेने’त्यादिना प्रतीयमानं सर्वोपादानत्वं, ‘ब्रह्म तं परादा’दित्यादिना प्रतीयमानं सार्वात्म्यञ्च, न परमात्मनोऽन्यत्र सम्भवति। यदुक्तं पतिजायापुत्रादिसंबंधित्वकीर्तनं जीवलिंगमिति तन्न। तस्य वाक्यस्य परमात्मनुगुणतया अर्थवर्णनोपपत्तेः तद्वर्णनप्रकारश्च पूर्वमेव प्रदर्शितः।नन्वेवं ‘विज्ञानघनएवैतेभ्यो भूतेभ्यस्समुत्थाये’ति जीववाचिविज्ञानघनशब्देन कथं परमात्मनोऽभिधानं, उत्पादविनाशादिजीवलिंगानां च कथं परमात्मनि समन्वय इतिचेत् तत्राह– ॥प्रतिज्ञासिद्धेर्लिंगमाश्मरथ्यः॥ एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाक्षिप्तोपादानोपादेयभावलब्धाभेदसूचकं जीवधर्माणां तत्र कीर्तनमिति आश्मरथ्य आचार्ये मन्यते॥॥उत्क्रमिष्यत एवंभावादित्यौडुलोमिः॥ ‘आमुक्तेर्भेद एव स्यात् जीवस्य च परस्य च। मुक्तस्य तु न भेदोऽस्ति भेदहेतोरभावत’ इत्युक्तरीत्या मुक्तिदशायां भाव्यभेदमाश्रित्य परमात्मनि जीवधर्माभिधानमुपपद्यत इति औडुलोमिराचार्यो मन्यते॥॥अवस्थितेरिति काशकृत्स्नः॥ जीवे परमात्मनः अन्तर्यामितयाऽवस्थितेः आकृत्यधिकरणन्यायेन शरीरभूतजीववाचिशब्दैः शरीरिणः परमात्मनः" अभिधानसंभवात्, शरीर भूतजीवधर्माणां शरीरिणि परमात्मन्युपपत्तेश्च, जीवश्रुतिलिंगानां परमात्मनि नानुपपत्तिरिति काशकृत्स्नाचार्यो मन्यते। अत्र काशकृत्स्नीयं मतमेव आचार्यस्य सम्मतं, तदुपरि पक्षान्तरानुपन्यासात्, आश्मरथ्यौडुलोमिमतयोर्दुष्टत्वाच्च। उपादानोपादेययोः भेदाभेदवाद्याश्मरथ्यमतं" जैनमतप्रतिक्षेपादेव प्रतिक्षिप्तमिति द्रष्टव्यम्॥ ॥इति वाक्यान्वयाधिकरणम्॥