॥जगद्वाचित्वात्॥ कौषीतकिनामुपनिषदि - ‘योवै बालाकएतेषां पुरुषाणां कर्ता यस्यवैतत्कर्म सवै वैदितव्य’ इति। वैशब्दोऽवधारणे। त्वया ब्रह्मत्वेनोपदिष्टानां पुरुषाणां यः कर्ता ते यत्कार्यभूताः। किं विशिष्याभिधीयते। यस्य प्रत्यक्षादिसन्निधापितं चिदचिद्रूपं समस्तं जगत् कर्म कार्यं। क्रियतइति व्युत्पत्त्या कर्मशब्दः" कार्यवचनः। सएववेदितव्यः। नतु त्वदुपन्यस्ता आदित्यादयः पूर्वोक्ताइति भावः। ‘ततउहबालाकिस्समित्पाणिः" प्रतिचक्राम उपायानीति’। उशब्दोऽवधारणे। हशब्दः प्रसिद्धौ। ‘तंहोवाचाजातशत्रुः प्रतिलोमरूपमेवस्यात् यत्क्षत्रियो ब्राह्मणमुपनयेत् एहिव्येवत्वा ज्ञापयियिष्यामीति’। क्षत्रियोब्राह्मणमुपनयेदितियत्तत् विपरीतरूपमेव स्यात्। अतएहित्वामुपनयनमन्तरेण ब्रह्मविज्ञापयिष्यामि। ‘तंह पाणावभिपद्य प्रवव्राज’। पाणावभिपद्य=पाणौ गृहीत्वा। ‘तौ ह सुप्तं पुरुषमीयतुः तंहाजात शत्रुरामन्त्रयांचक्रे बृहन्पाण्डरवासस्सोमराज’न्निति। तं ह सुप्तं पाण्डरवासस्त्वसोमराजत्वादि प्राणनामभिरामन्त्रयाञ्चक्र इत्यन्वयः। ‘स तूष्णीमेव शिश्ये’। अनुत्थित एव अशयिष्टेत्यर्थः। ‘तत उहैनं यष्ठ्या चिक्षेप सतत एव समुत्तस्थौ’। तत एव दण्डताडनादेव, न तु प्राणनामामन्त्रणादिनेत्यर्थः। अत्र सुषुप्तिदशायामुपरतव्यापरेभ्यश्शरीरेन्द्रियेभ्योऽन्यत्वं" सुज्ञानमिति तस्यामपि दशायामनुपरतव्यापारात् प्राणादन्यत्वं ज्ञापनीयमिति प्राणनामभिरामन्त्रणम्। तस्मिन् सत्यप्यनुत्थानेन दण्डताडनोत्थानेन च जीवस्य प्राणव्यतिरेकः प्रदर्शितः। एवं देहेन्द्रियमनः" प्राणव्यतिरिक्तं जीवं प्रदर्श्यततोऽतिरिक्तं परमात्मानं बोधयितुमाह-‘तं होवाचाजातशत्रुः क्वैष एतद्बालाके पुरुषोऽशयिष्ट क्व वा एतदबूत्कुत एतदागादिति’। त्रिष्वपि प्रश्नेषु एतच्छब्दस्सप्तम्यन्तः। एतस्मिन् काल इत्यर्थः। ‘सुपांसुलुगि’ति सुपोलुक्। एतस्मिन् काले क्व स्वप्नमनुभूतं, एतस्मिन् काले क्वसुप्तः, एतस्मिन् काले कुतो निर्गत एति प्रश्नत्रयार्थः। ‘तदुह बालाकिर्नविजज्ञौ’। उत्तरं" न ज्ञातवानित्यर्थः। ‘तंहोवाचाजातशत्रुः यत्रैषपुरुषोऽशयिष्ट यत्रैतदभूद्यतएतदागात्’। तदुच्यत इति शेषः। स्वप्नस्थानप्रश्नं प्रतिवक्ति - ‘हिता नाम हृदयस्य नाड्यः हृदयात्पुरीततमभिप्रतिष्ठंती’त्यादिना। सुषुप्तिश्थान प्रश्नस्योत्तरमाह- ‘यदा सुप्तो न कञ्चन पश्यति अथास्मिन् प्राण एवैकधा भवति तदैनं" वाक्सर्वैर्नामभिस्सहाप्येती’त्यादिना। ‘सुप्त’ इति वर्तमानेक्तः। स्वपन् सन् यदा उपरतस्वप्नदर्शनो भवति। अथ स्वप्नानन्तरं अस्मिन् प्राणे। प्राणशब्दो योगेन वा अपर्यवसानवृत्त्या वा ब्रह्मपरः। परमात्मनो बुद्धिस्थत्वादस्मिन्निति निर्देशोऽप्युपपद्यते। तत्=तदा। एनं परमात्मानमपियन्तं जीवं" वागादीन्द्रियाण्यपि तत्तत्स्वकार्येण सह अपियंतीत्यर्थः। उद्गमनोपादानप्रश्नस्योत्तरमाह- ‘स यदा प्रतिबुध्यते यथाऽग्रेर्विष्फुलिंगा विप्रतिष्ठेरन् एवमेवैतस्मादात्मनो यतायतनं प्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः। एतस्मात् परमात्मनः प्राणशब्दिता जीवाः प्रस्थिता भवन्ति। तेभ्यस्छ देवशब्दितानि इन्द्रियाणि, तेभ्यश्च लोकशब्दितानि ज्ञानानि भवन्तीत्यर्थः। ‘एवमेवैष प्राज्ञ आत्मा इदं शरीरमात्मानमनुप्रविष्ट आलोमभ्य आनखेभ्यः’। व्याप्य इत्यध्याहारः। इदं पुरोवर्तिशरीरं" व्याप्य आत्मानं जीवात्मानमनुप्रविष्टः। अन्तर्यामितयेत्यर्थः। तादृशस्य सुषुप्त्याधारत्वोद्गमनापादानत्वे सम्भवत इति भावः। ‘तमेतमात्मानमेत आत्मानोऽन्ववस्यन्ति’। अनुवर्तन्ते। ‘यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा श्रोष्ठिनं स्वा भुञ्जते एवमेवैष प्राज्ञआत्मा एतैरात्मभिर्भुङ्क्ते’। यथा कश्चित् प्रभुः भोगोपकरणभूतैः" स्वैर्ज्ञातिभिः भोगान्भुङ््क्ते, यथा स्वाश्च बन्धवःतं प्रभुं ऐश्वर्यादिसमग्रमनुभूय तद्दत्तानि वित्तादीनि च उपजीव्य हृष्यन्ति, एवमेवायं परमात्मा स्वोपकरणभूतैर्जीवात्मभिः लीलारसं भुङ्क्ते। तेचात्मानः परमात्मदत्तभोगोपकरणाः सर्वैश्वर्यादिगुणविशिष्टं तमनुभूय हृषाभवन्तीत्यर्थः। ‘अथ हत्वाऽसुरान्विजित्य सर्वेषान्देवानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति य एवंवेदे’त्यादि। ‘यो वै बालाक एतेषां" पुरुषाणां कर्ता यस्य वैतत्कर्म स वेदितव्य’ इत्यत्र आदित्यादिपुरुषाणां यः कर्ता तत्कर्तृत्वनिर्वाहकञ्च पुण्यपापलक्षणं कर्म यस्यास्ति स वेदितव्य इत्यर्थप्रतीतेः कर्मशब्दस्य पुण्यपापयोरूढत्वात् सुप्तपुरुषागमनयष्टिघातोत्थापनादीनां" च जीवलिंगत्वात्, ‘तद्यथा श्रेष्ठी स्वैर्भुङ्क्त’ इति वाक्यप्रतिपाद्यभोक्तृत्वपरिपाल्यत्वयोर्जीव एव सम्भवात् जीव एव प्रकरणप्रतिपाद्य इति प्राप्त उच्यते॥ जगद्वाचित्वात्। ‘यस्य वै तत्कर्मे’त्यत्र कर्मशब्दस्य यद्यपि पुण्यपापादौ रूढिरस्ति, तथाऽपि चलनेऽपि रूढ्यविशेषेण रूढ्योः परस्परकलहायमानत्वेन अर्थनिर्णयासामर्थ्यात् एतच्छब्दस्य प्रत्यक्षादिसन्निधापि तजगत्परत्वौचित्येन तत्समानाधिकृकर्मशब्दस्य क्रियत इति कर्मेति व्युत्पत्त्या जगद्वचनत्वमेवाचितम्। ततश्चायमर्थः-त्वदुक्तानामादित्यादिपुरुषाणां यः कर्ता अन्ततो गत्वा सर्वमपि जगद्यस्य कार्यं स एव वेदितव्यः। ततश्च नात्र जीवस्य प्रसक्तिः। यदि हि पुण्यापुण्यलक्षणकर्मसंबन्धी जीवोऽत्र वाक्ये प्रतिपाद्यस्स्यात् तदाऽऽदित्यादिषु पुरुषवादिनां बालाकिमब्रह्मवादित्वेन प्रत्याख्यातवता अजातशत्रुणा स्वयमब्रह्मण उपदेश्यत्वासम्भवात्। अतो नायं कर्मशब्दः पुण्यपापवचनः, अपितु जगद्वचनः॥॥जीवमुख्यप्राणलिङ्गान्नेतिचेत्तद्व्याख्यातम्॥ यष्टिघातोत्थापनभोक्तृत्वादिजीवलिंगात् ‘अथास्मिन्प्राण एवैकधा भवती’ति प्राणशब्देन प्राणभृतन्निर्दिश्य तत्र करणग्रामस्यैकधाभावश्रवणात् प्राणभृत्त्वस्य जीवलिंगत्वाच्च जीव एवात्र प्रतिपाद्यते। नच प्राणशब्दस्य मुख्यप्राणएवार्थः। प्राणनामभिरामन्त्रणाश्रवणेन मुख्यप्राणव्यतिरिक्तत्वस्य ज्ञापितत्वेन एतत्प्रकरणप्रतिपाद्यत्वासम्भवेन प्राणशब्दस्य प्राणसहचरितजीवलक्षकत्वस्यैव युक्तत्वात्। ततश्च यष्ट्यादिजीवलिंगात् प्राणशब्दसङ्कीर्तनाच्च प्राणभृज्जीवएवात्र प्रतिपाद्यत इति चेत्तद्व्याख्यातं" प्रतर्दनविद्यायां। यत्र प्रकरणे ब्रह्मलिङ्गानि चिदचिल्लिङ्गानि चोपलभ्यन्ते, तत्र चिदचिल्लिंगानां" चिदचिच्छरीरकान्वयसम्भवात् चेतनाचेतनशरीरकब्रह्मोपासनं विधीयत इत्युक्तत्वात्। इह अनन्यथासिद्धजीवलिंगमस्तिचेत् तच्छरीरकब्रह्मोपासनार्थस्तन्मध्यवर्तिजीवोपदेशः। अत्र च प्रकरणे उपक्रमएव ‘मृषा वै मा संवादयिष्ठा’ इति अब्रह्मवादप्रत्याख्यानदर्शनात् पापहतिपूर्वक स्वाराज्यरूप ब्रह्मविद्यैकान्तफलेन उपसंहारात् प्रकरणस्य ब्रह्मपरत्वेन निश्चितत्वात् मध्ये जीवोपदेशस्तच्छरीरकतया ब्रह्मोपासनार्थ इत्यध्यवसीयत इत्यर्थः॥॥अन्यार्थन्तु जैमिनिः प्रश्नव्याखायनाभ्यामपि चैवमेके॥ यष्टिघातेन जीवसम्बोधनं जीवातिरिक्तब्रह्मस्वरूपप्रतिबोधनार्थमिति जैमिनिराचार्योमन्यते। कुतः? प्रश्नप्रतिवचनाभ्यां। यष्टिघातेनापि जीवप्रतिबोधनानन्तरं ‘क्वैषएतद्बालके पुरुषोऽशयिष्ट क्वैतदभूत्कुतएतदागा’दिति जीवसुषुप्त्याधारप्रश्नस्य ‘अथास्मिन्प्राणएवैकधाभवती’ति परमात्मवाचिप्राणशब्देन प्रतिवचनदर्शनाच्च जीवातिरिक्तब्रह्मप्रबोधनशेषतयैव जीवोपन्यासः, नतु तस्यैव स्वातन्त्र्येण। ननु ‘क्वैतदभू’दित्येतच्छब्देन न जीवोभिधीयते, येन तत्प्रतिपादनं परमात्मप्रतिपत्तिशेषभूतं" स्यात्। अपितु एतच्छब्देन करणजातमभिधीयते। एतत्करणजातं सुषुप्तौ क्व लीनं प्रबोधदशायां कुत उत्थितमिति प्रश्नः, ‘अथास्मिन्प्राणएवैकधाभवती’ति प्राणशब्दानिर्दिष्टे प्राणभृति लयइति प्रतिवचनतातप्रयञ्च किन्नस्यादिति चेत्तत्राह– अपिचैवमेके। एके वाजसनेयशाखिनः प्रश्नप्रतिवचनयोः जीवसुषुप्त्याधारविषयत्वं स्पष्टमामनंति– ‘यएषविज्ञानमयः" पुरुषः क्वैतदभूदिति, यएषोऽन्तर्हृदयआकाशस्तस्मिन् शेत’ इति च। अतो जीवप्रतिपादनस्य परमात्मप्रतिपादनशेषत्वात् परमात्मैवात्र प्रकरणे प्रतिपाद्यो न जीवइति नचोद्यावकाशः॥ ॥इति जगद्वाचित्वाधिकरणम्॥