31 कारणत्वाधिकरणम्

॥कारमत्वेनचाकाशादिषु यथाव्यपदिष्टोक्तेः॥ माभूवन् पंचपंचजनास्सांख्यतत्वानि, तथापि ब्रह्मकारणमिति सिद्धांत्यभिमतं न सिध्यते। कारणवाक्यानां" परस्परविरोधेन क्वचिदपिप्रतिष्ठितत्वाभावात्तद्विहाय स्मृत्यनुसारेण प्रधानस्यैव कारणतया वक्तव्यत्वादिति प्रत्यवस्थानात्सङ्गतिः। छान्दोग्ये- ‘तद्धेदन्तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रीयते’ति। ‘यदिदं किंच मिथुनमापिपीलिकाभ्यस्तत् सर्वमसृजते’ति सृष्टतया निर्दिष्टस्य मिथुनादिरूपस्य प्रपंचस्य इदं शब्दनिर्दिष्टस्य आत्मभिन्नत्वेन ‘आत्मैवेदमग्रआसी’दित्युक्तं कथमुक्तमित्याशंक्य इदमादिनामरूपभाक्त्वमपि ब्रह्मण एव। तस्य च आत्मशब्दवाच्यसूक्ष्मचिदचिद्विशिष्ट ब्रह्माभेद उपपद्यत इत्येतदर्थोऽयं सन्दर्भ आरभ्यते। हशब्दः प्रतिज्ञातार्थस्मरणे। तदिदं मिथुनादिलक्षणं जगत् तर्हि = तदासृष्टेःप्राक् अव्याकृतमव्यक्तशरीरकं ब्रह्मासीदित्यर्थः। तदेव अव्याकृतशरीरकं ब्रह्मैव। नामरूपाभ्यामितीत्थंभावे तृतीया। एवकारो भिन्नक्रमः। नामरूपवत्तया व्याक्रियत व्याकृतमासीत्। व्याङ्भ्यामुपसर्गाभ्यां विविच्य समन्तादक्रियतेत्यर्थः। कर्मकर्तरि लकारः। ततश्च तदेव अविभक्तनामरूपं ब्रह्म सर्वज्ञं सत्यसङ्कल्पं नामरूपवत्तया स्वयमेव व्याक्रियत इत्यर्थः। तदेव दर्शयति- ‘असौ नामायमिदंरूप’इति। देवमनुष्यादिनामा करचरणादिरूपवानित्येवं" व्याख्यायते। अदोनामेति वक्तव्ये असौनामेति लिंगव्यत्ययोऽसौ नामेति अलुक्चछान्दसौ। ततश्च सर्वाणि नामानि तत्प्रवृत्तिनिमित्तभूतानि च रूपाणि तदीयान्येव। अतः इदमादिशब्दैरपि तस्यैव निर्देशसम्भवात् ‘आत्मैवेदमग्रआसी’दित्यभेदेन निर्देशे नानुपपत्तिरिति भावः। ननु एवकारेण कर्त्रन्तख्यवच्छेदात् कर्त्रन्तराक्षेपे गौरवात् ‘तदात्मानं स्वयमकुरुते’ त्यनेनैकार्थ्याच्च ‘व्याक्रियते’ति लकारस्य कर्मकर्तर्येवाभ्युपगन्तव्यत्वात् तदवैरूप्याय ‘अव्याकृत’मित्यत्रापि कर्मकर्त्रर्थकत्वस्य आश्रयणीयतया कर्मणि विहितक्तप्रत्ययासिद्धेः। न च कर्मकर्तर्यपि कर्मवद्भावेन क्तप्रत्ययोऽस्त्विति वाच्यम्। लान्तस्यैव कर्मवद्भावविधानात् अलान्ते कृत्यक्तखलर्थेषु कर्मवद्भावाभावादिति चेन्न। कर्मकर्तति अकर्मकतया ‘गत्यर्थाकर्मके’ति कर्तरिक्तस्य सम्भवाद्वैरूप्यस्यासम्भवात्। ननु आत्मनः कथं देवमनुष्यादिनारूपभाक्त्वं तच्छरीरे तस्या वर्तमानत्वादितीमामाशह्कां व्यावर्तयति ‘सएष इह प्रविष्ट आनखाग्रेभ्यः’। अन्तर्यामिरूपेणेति शेषः। अत्र दृष्टान्तमाह- ‘यथा क्षुरः क्षुरधानेऽवहितस्स्याद्विश्वम्भरो वा विश्वंभरकुलाये’। क्षुरधानं=क्षुरकोशः। अवहितः=पिहितप्रविष्टः। विश्वम्भरः वैश्वानरः। विश्वम्भरकुलाये नीडे। दारुणीति यावत्। यः तिलतैलात् सर्वत्रं व्याप्तं परमात्मानं न पश्यति सः अकृत्स्नः=अपूर्णस्वरूपः। असत्कल्प इति यावत्। परमात्मन एव सर्वनामरूपवत्त्वमुपपादयति-‘प्राणो नाम भवति वदन् वाक्पश्यन् चक्षुश्श्रृण्वन् श्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामधेयान्येव’। प्राणक्रियां कुर्वन् प्राणनामा भवतीति योज्यम्। तान्येतानि प्राणादीनि नामानि पाचकगायकादिवत् कर्मनामान्येव। अतस्सर्वनामरूपाश्रयत्वं" परमात्मनोऽस्तीति भावः। अत्र ‘तद्धेदंतर्ही’ति वाक्यमेव विषयः। इतराण्यधिकरणार्थचिंतोपयुक्तानि लिखितानि। अत्र चिंत्यते- ‘सदेव सोम्येदमग्रआसी’दिति क्वचित सत्पूर्विका सृष्टिराम्नायते। ‘असद्वा इदमग्र आसी’दिति क्वचिदसत्पूर्विका। अतो वेदान्तेषु सृष्टिरव्यवस्थितेति जगतो ब्रह्मैककारणत्वं" न निश्चेतुं शक्यम्। ‘तद्धेदं तर्ह्यव्याकृमासीत्तन्नामरूपाभ्यामेव व्याक्रियते’ति अव्याकृतकर्तृकसृष्टेराम्नातायास्सांख्यस्मृति अनुरोधित्वात् प्रधानमेव जगत्कारणं ईक्षणादयो गौणा नेतव्या इति पूर्वपक्षे प्राप्तउच्यते- कारणत्वेनचाकाशादिषु यथाव्यपदिष्टोक्तेः।‘जन्माद्यस्ययत’ इत्यादिसूत्रेषु प्रतिपादितं सर्वज्ञं" सत्यसङ्कल्पं ब्रह्म यथाव्यपदिष्टमित्युच्यते। तस्यैव ‘आत्मनआकाशस्सम्भूत’ इत्यादिषुवाक्येषु आकाशादिकारणत्वेनाक्तेः॥।समाकर्षात्॥ ‘असद्वाइदमग्रआसी’दित्यत्र ‘सोऽकामयते’ति प्रकृतस्य ब्रह्मणएव ‘तदप्पेषश्लोकोभवती’ति समाकृष्य ‘असद्वा इदमग्रआसी’दित्यभिधानात् असच्छब्दस्सूक्ष्मचिदचिद्विशिष्टब्रह्मपरः। ‘तद्धेदं तर्ह्यव्याकतमासी’दित्यत्र अव्याकृतस्य ‘सएषइह प्रविष्ट आनखाग्रेभ्यः, पश्यंश्चक्षु’ रित्यादिना उत्तरत्र समाकृष्यमाणत्वात् पश्यत्त्वादीनामचेतने अभावादव्याकृतशब्दोऽपि अव्याकृतशब्दिताव्यक्तशरीरक परमात्मपरएवेत्यर्थ इति निर्णीतम्॥ ॥इति कारणत्वाधिकरणम्॥