॥न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च॥ अजाशब्दस्य स्वतंत्रप्रकृतिपरत्वे विशेषस्याभावात् वाक्यान्तरानुरोधेन ब्रह्मात्मकत्वं साधितम्। तदत्र न प्रसरति। ब्रह्मसत्वे संख्याधिक्यात्तेन विना संख्यापूरणेन अब्रह्मात्मिका प्रकृतिरिति निश्चयसम्भवादिति शङ्कया सङ्गतिः। वाजसनेयके - ‘यस्मिन्पञ्चपञ्चजना आकाशश्च प्रतिष्ठितः। तमेवं" मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम्’। पंचजनसंज्ञाः पंच आकाशश्च यत्र प्रतिष्ठित इत्यर्थः। आकाशशब्दो भूतान्तरस्याप्युपलक्षकः। पूर्वस्मिन्मन्त्रे ‘ज्योतिषां ज्योति’रिति षष्ठ्यन्तज्योतिश्शब्दस्यार्थ निर्णायकसापेक्षत्वात् पञ्च जनशब्दस्याप्यर्थनिर्णायकान्तरसापेक्षत्वाच्च पंचत्वसंख्यान्वययोग्यानि ज्योतींषि इन्द्रियाण्येवेत्यवसीयंते। तदुक्तं व्यासार्यैः- ‘श्रुत्या पंचसंख्याविशेषितत्वात् पंचसंख्याकज्योरन्तरप्रसिद्ध्यभावाच्च परिशेषेणेन्द्रियत्वावगम’इति। ‘तमेवं मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम्’। तादृशमात्मानं अमृतं ब्रह्मेत्येवं विद्वानन्योऽप्यमृतो भवतीत्यर्थः। पंचजनशब्दनिर्दिष्टानि ज्योतींषि कानीत्यपेक्षायामाह-‘प्राणस्य प्राणमुत चक्षुषश्चक्षुश्श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुस्ते निचिक्युर्ब्रह्मपुराणमग्न्यं’। प्राणशब्देन स्पर्शनेन्द्रियं गृह्यते। वाय्वाप्यायितत्वात् स्पर्शनेन्द्रियस्य, मुख्यप्राणस्य ज्योतिश्शब्देन प्रदर्शनायोगात्। चक्षुषइति चक्षुरिन्द्रियं गृह्यते। ‘श्रोत्रस्ये’ति श्रोत्रेन्द्रियं। ‘मनस’ इति मनोगृह्यते। समानप्रकरणे माध्यन्दिनशाखायां ‘अन्नस्यान्न’मिति पाठात् ‘अनुक्तमन्यतो ग्राह्य’मिति न्यायेन तदपि गृह्यते। अन्नशब्देन च अन्नसंबंधिनोर्घ्राणरसनयोर्ग्रहणम्। अन्नेन घ्राणस्याप्यायितत्वलक्षणसम्बन्धः, रसनस्यान्नभक्षकतया अन्नसम्बन्ध इति द्वयोरपि ग्रहणम्। एवं प्रकाशकत्वेन ज्योतिश्शब्दितत्वक्चक्षुरादींद्रियाणामपि त्वक्चक्षुरादिवत् प्रकाशकं तेषां" तत्तद्विषयग्रहणशक्त्याधायकमित्यर्थः। एतादृशं ये जानंति ते पुराणमग्न्यं ब्रह्म परंब्रह्म निचिक्युः=निश्चितवन्त इत्यर्थः। अत्र ‘यस्मिन् पंचपंचजना’इति वाक्ये पंचत्वविशेषितया पंचसंख्यया पंचविशतिसंख्याप्रतीतेः सांख्यस्मृतिसिद्धाब्रह्मात्मकपंचविंशतितत्वप्रतिपादकमेवेदं वाक्यमिति पूर्वपक्षे प्राप्ते उच्यते- न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च। पंचविंशतिसंख्याप्रतीतिवशादपि न सांख्याभिमततत्वप्रत्याशा कार्या। नानाभावात् नानात्वात्। भिन्नत्वादिति यावत्। सांख्याभिमताब्रह्मात्मकपंचविंशतितत्वेभ्यः" ‘यस्मिन्पंचपंचजना’ इति ब्रह्माधारकतया ब्रह्मात्मकत्वेन प्रतिपाद्यमानानां तत्वानां भिन्नत्वादित्यर्थः। अतिरेकाच्च। ‘यस्मिन्पञ्च पंचजना आकाशश्च प्रतिष्ठित’ इति वाक्ये ‘यस्मिन्नित्याधारतया निर्दिष्टस्यात्मनश्च ‘आकाशाश्च प्रतिष्ठित’ इत्याकाशस्य च प्रतिपादनेन सप्तविंशतिप्रतीतेश्च न साङ्ख्यमतप्रत्यभिज्ञानं। ‘न संख्योपसंग्रहादपी’ त्यपिशब्दात् वस्तुतस्सङ्ख्योपसंग्रहोपिनास्ति। पंचभिरारब्धव्यूहपंचकासम्भवात्, नहि तन्त्रप्रसिद्धेषु तत्वेषु पंचत्वसंख्यानिवेशनिमित्तामित्यादिकमस्ति। नच पंचकर्मेन्द्रियाणि पंचज्ञानेंद्रियाणि पंच महाभूतानि पंच तन्मात्राणि अवशिष्टानि पंचेत्यवांतरसंख्यानिवेशनिमित्तमस्त्येवेति वाच्यम्। आकाशस्य पृथङ्निर्देशेन पंचभिरारब्धमहाभूतसमूहासिद्धेः। अतः ‘पंचजना’ इत्ययं समासो न समाहारविषयः। अपितु ‘दिक्संख्येसंज्ञाया’मिति संज्ञानिषयः। अन्यथा ‘पंचपूल्य’ इतिवत् पंचपंचजनी इति स्यात्। ततश्च ‘सप्तसप्तर्षयोऽमला’ इतिवत् ‘पंचपंचजनी इति स्यात्। ततश्च ‘सप्तसप्तर्षयोऽमला’ इतिवत् ‘पंचपंचजना’ इति निर्देशउपपद्यते॥केपुनस्ते पंचजनाइत्यत्राह- ॥प्राणादयो वाक्यशेषात्॥ ‘प्राणस्यप्राण’मिति वाक्यशेषश्रुताः प्राणचक्षु श्रोत्रान्नमनोरूपाः पंचावसीयन्ते॥ नन्वेवं काण्वानामन्नपाठाभावात् कथं पंचपंचजनप्रतीतिरित्यत्राह-॥ज्योतिषैकेषामसत्यन्ने॥ एकेषां काण्वानां पाठे असत्यन्ने ‘तन्देवाज्योतिषांज्योति’रिति प्रक्रमश्रुतषष्ट्यन्तज्योतिश्शब्दादेव पंचजनशब्दितानीन्द्रियाणीत्यवसीयन्ते। ज्योतिश्शब्दस्याप्यर्थनिर्णायकसापेक्षत्वात्, पंचजनशब्दस्याप्यर्थनिर्णायकसापेक्षत्वात् परस्पराकांक्षावशेन पंचत्वसंख्यायुक्तानि प्रकाशकतया ज्योतिश्शब्दितानीन्द्रियाण्येव ‘पंचजना’ इति न सांख्याभिमताब्रह्मात्मकपंचविंशतितत्वप्रतीतिः॥ ॥इति संख्योपसंग्रहाधिकरणम्॥