॥चमसवदविशेषात्॥ पूर्वत्र रूपकवाक्ये शरीरश्रवणात् अव्यक्तं शरीरं न तन्त्रसिद्धा प्रकृतिरित्युक्तं, तर्हि तदश्रवणात् अजा तन्त्रसिद्धा प्रकृतिस्स्यादिति प्रत्यवस्थानात्सङ्गतिः। श्वेताश्वतरे- ‘अजामेकां लोहितशुक्लकृष्णां" बह्वीः प्रजास्सृजमानां सरूपाः। अजोह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः’। अस्यार्थः- तेजोबन्नलक्षणविकारगतलोहितशुक्लकृष्णरूपयुक्तां स्वसमानरूपविविधभूतभौतिक्स्रष्ट्रीं उत्पत्तिरहितां" काञ्चन कश्चिदविद्वान् उत्पत्तिराहित्येन तत्समान एव सन् तत्र अहंबुद्ध्या सेवमानः तामनुसृत्य शेते तिष्ठति। अपरो विद्वान् किञ्चित्कालं भूक्त्वा उत्पन्नवैराग्यः त्यजतीत्यर्थः। ननु अस्मिन्नजामन्त्रे स्वरसतएतावानर्थः प्रतीयते। काञ्चिच्छागीं त्रिवर्णां सरूपबहुसर्गकरीं एकः छागः प्रीयमाणोऽनुवर्तते, अन्यस्तामुपभुक्तां त्यजतीति, कथं भवदुक्तप्रकृतिरूपार्थग्रहणम्। यदि च अध्यात्मशास्त्रे लौकिकार्थप्रतिपादनानौचित्यात् आध्यात्मिकार्थे पर्यवसानं कर्तव्यमिति, तर्हि ‘द्वासुपर्णा’ इति मन्त्रे वृक्षसुपर्णपिप्पलशब्दैः" शरीरजीवकर्मफलानां गौण्यावृत्त्या ग्रहणवत् ‘गौरनाद्यन्तवती’त्यत्र गोशब्देन गौण्यावृत्त्या प्रकृतिग्रहणवत् इहापि अजाशब्देन गौण्या वृत्त्या प्रकृतिग्रहणं युक्तम्। न तु यौगिकार्थग्रहणम्। रूढिपूर्वकलक्षणाविशेषरूपगौण्यपेक्षया योगदौर्बल्यस्य प्रोद्गात्रधिकरणे स्थितत्वात्। इतरधा ‘प्रैतुहोतुश्चमसः प्रोद्गातृणा’मित्यत्रापि यौगिक्या वृत्त्या उद्गात्रादीनां चतुर्णां ग्रहणं स्यादिति चेन्न। मुख्यार्थानुपपत्तौ हि गौणार्थाश्रयणं" युज्यते। उपपद्यते च अजाशब्दे यौगिकार्थस्य मुख्यस्य ग्रहणम्। नचैवं प्रोद्गातृन्यायविरोधः। तत्र हि पाशन्यायेन बहुत्वाविवक्षा नास्ति। प्रोद्गातृशब्दयौगिकार्थबहुत्वस्य सम्भवात्। ‘अदितिः पाशा’नित्यत्र रूढ्यर्थस्य वा यौगिकार्थस्य वा पाशशब्दार्थस्य बंधनसाधनस्य असम्भवाद्बहुत्वाविवक्षा। इह तु तत्सम्भवान्नाविवक्षा इत्येवं तदधिकरणस्थितिः। न तु रूढिपूर्वकलक्षणापेक्षया योगस्य जघन्यत्वमित्यपि। नन्वेवं सुब्रह्मण्यस्यापि गानकारितया योगार्थत्वात्तस्यापि ग्रहणप्रसङ्ग इति चेन्न। तस्य सदसि स्थित्यभावेन तत्साधारण्याबावात् मीमांसकैकदेशिभिः तत्साधारण्यस्य अभ्युपेतत्वाच्च। ततश्च यौगिकार्थस्य मुख्यस्याजाशब्दार्थस्य सम्भवे पररीत्या छागत्वरूपणं गौणवृत्त्याश्रयणञ्च न युक्तम्। ‘गौरनाद्यन्तवती’त्यत्र गोशब्दे यौगिकार्थास्फुरणात् ‘सर्वकामदुघा’मिति दोहनस्य गोशब्दरूढ्यर्थग्रहणनियामकस्य सत्वाच्च तत्र तथा। इह तु योगार्थस्फूर्तेः" रूढ्यर्थग्रहणनियामकशब्दांतर समभिव्याहारासम्भवाच्च यौगिकार्थ एव ग्राह्यः। किञ्च इह रूढ्यर्थग्रहणे समभिव्याहृतानां ‘बह्वीः प्रजास्सृजमाना’मित्यादीनां सङ्कोचस्स्यात्। छाग्याः प्रकृतिवत् सकलप्रजास्त्रष्टृत्वासम्भवात्। सकलप्रजासर्गकरप्रकृत्यामल्पप्रजासर्गकरच्छागत्वकल्पनस्य विच्छित्तिविशेषाहेतुत्वात्। नचैवं ‘आत्मानं" रथिनं विद्धी’त्यत्र आत्मशरीरादौ रथिरथत्वादिकल्पनमपि न विच्छित्तिविशेषजनकं स्यादिति वाच्यम्। तत्र रूप्यरूपकवाचिपदद्वयश्रवणबलेन वशीकार्यताप्रतीत्युपयुक्ततया च रूपणमङ्गीक्रियते। प्रकृते च रूप्यरूपकवाचिपदद्वयाश्रवणात् तद्वदत्र उपयोगाभावाच्च न च्छागत्वपरिकल्पनम्। ‘द्वासुपर्णे’ति मन्त्रे वृक्षादिशब्दैः योगवृत्त्या अर्थग्रहणं युक्तम्। समासोक्त्या अर्थान्तरस्फूर्त्या विच्छित्तिविशेषोऽस्तीति एतावन्मात्रम्। यदि च न वृक्षादिशब्दे यौगिकार्थस्फुरणं, तर्हि ‘गौरनाद्यन्तवती’तिवदस्तु, प्रकृतेतु अजाशब्दे यौगिकार्थस्य स्फुटप्रतीतेः योगएव ग्राह्यः। अनेन प्रकृतिस्वरूपं बद्धमुक्तस्वरूपञ्चोक्तं। ननु अत्र अजाशब्देन अकार्यत्वप्रतिपादनात् ‘सृजमाना’मिति कर्त्रर्थशानचा स्वातन्त्र्यलक्षणकर्तृत्वप्रतीतेः" अब्रह्मात्मिकैव प्रकृतिरनेन मन्त्रेण अभिधीयतामिति पूर्वपक्षे प्राप्ते अभिधीयते– चमसवदविशेषात् ‘अर्वाग्बिलश्चमसऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूप’मिति ऊर्ध्वबिलतिर्यग्बुध्नप्रसिद्धचमसव्यावर्तकस्य शिरसश्चमसत्वप्रत्यायकस्य वाक्यशेषस्य सद्भाववत् इह अस्वतन्त्रप्रकृतिव्यावर्तकस्य स्वतंत्रप्रकृतिपादकस्य वाक्यशेषस्य अभावेन स्वातन्त्राप्रकृतिरिह अभिधीयतइति निर्णयासम्भवात् ब्रह्मात्मकत्वेऽपि जनिराहित्यस्य उपपत्तेः परतन्त्रेऽपि तक्षादौ ‘तक्षतिकाष्ठ’मिति कर्त्रर्थप्रत्ययदर्शनेन तावन्मात्रेणापि अपरतन्त्रप्रकृतित्वनिश्चयासम्भवात्॥ननु ब्रह्मात्मकप्रकृतिग्रहणेऽपि नियामकाभावात् सन्देह एव स्यात्तत्राह– ॥ज्योतिरुपक्रमा तु तथा ह्यधीयत एके॥ ‘अथ यदतः परोदिवोज्योति’रिति। ज्योतिरुपक्रमा=ब्रह्मात्मिकेत्यर्थः। ब्रह्मात्मिकैव अजा इह मन्त्रे ग्राह्या। ‘देवात्मशक्तिं स्वगुणैर्निगूढा’मिति ब्रह्मात्मिकाया एव अजायाः प्रतिपादितत्वात्। तैत्तिरीये- ‘अणोरणीया’निति ब्रह्म प्रस्तुत्य ‘सप्त प्राणाः प्रभवन्ति तस्मा’दिति प्राणोपलक्षितप्रपञ्चोत्पत्तिमभिधाय निर्विकारस्य ब्रह्मणोऽपरिणामितया सकलप्रपञ्चोपादानत्वं न सम्भवतीति शङ्कानिवारणाय तैत्तिरीये पठितस्य मन्त्रस्य सद्ब्रह्मात्मकप्रकृतिपरत्वस्य वक्तव्यतया इहापि तथात्वावश्यम्भावाच्च ब्रह्मात्मिकैव प्रकृतिरजामन्त्रप्रितिपाद्या॥ ननु अकाशादीनां ब्रह्मोपादानकत्वेन ब्रह्मात्मकत्ववत् प्रकृतेरपि ब्रह्मोपादानकत्वेनैव ब्रह्मात्मकत्वस्य वक्तव्यतया अनुत्पन्नायाश्च तस्याः ब्रह्मोपादानकत्वासम्भवेन ब्रह्मात्मकत्वासम्भव इत्याशंक्याह–॥कल्पनोपदेशाच्च मध्वादिवदविरोधः॥ कल्पना=सृष्टिः। ‘धाता यथापूर्वमकल्पय’दिति प्रयोगदर्शनात् ‘अस्मान्मायी सृजते विश्वमेत’दिति मायाशब्दितप्रकृतेः" ब्रह्मोपादेयप्रपञ्चसृष्टौ हेतुत्वावेदनादित्यर्थः। प्रकृतेरब्रह्मात्मकत्वे च तस्याः ‘अस्मान्मायी सृजत’ इति प्रतिपादितब्रह्मोपादानतानिर्वाहकत्वाभावात् तस्याब्रह्मात्मकत्वं सिद्धम्। अपृथक्सिद्धाधारत्वमात्रेणाप्यात्मत्वोपपत्त्या अजन्याया अपि प्रकृतेः ब्रह्मात्मकत्वं सम्भवत्येवेति ब्रह्मात्मकत्वमविरुद्धम्। मध्वादिवत्। अत्र मधुशब्देन ‘असौवा आदित्यो देवमध्वि’ति निर्दिष्ट आदित्य उच्यते। आदित्यवदित्यर्थः। यथाऽऽदित्यस्य ‘नैवोदेता नास्तमेते’ति अकार्यतया श्रुतस्यैव ‘य आदित्ये तिष्ठन्नि’त्यादिना ब्रह्मात्मकत्वञ्च, एवमनोदेरपि उपपद्यते ब्रह्मात्मकत्वमिति न विरोधः॥ ॥इति चमसाधिकरणम्॥