28 आनुमानिकाधिकरणम्

॥आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृरीतेर्दर्शयति च॥ अस्मिन्पादे सांख्यतत्वप्रतिपादनच्छायापन्नानां वाक्यानां सांख्याभिमतार्थनिरासेन ब्रह्मणि समन्वयः" प्रतिपाद्यत इति पादार्थस्सङ्गतिश्च उभयमपि प्रतिपाद्यत इति प्रथमपादएवोक्तम्। कठवल्ल्यां- ‘आत्मानं" रथिनं विद्धि शरीरं रथमेव च। बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च॥ इंद्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्। आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः॥ यस्त्वविज्ञानवान् भवत्ययुक्तेन मनसा सह। तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः॥ यस्तु विज्ञानवान् भवति युक्तेन मनसा सह। तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः॥ यस्त्वविज्ञानवान्भवति अमनस्कस्सदाऽशुचिः। नस तत्पदमाप्नोति संसारञ्चाधिगच्छति॥ यस्तु विज्ञानवान्भवति समनस्कस्सदा शुचिः। सतु तत्पदमाप्नोति यस्माद्भूयोनजायते॥ विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः। सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पद’ मित्येतावंति वाक्यानि सूत्रार्थवर्णनोपयुक्तानि। तेषाञ्चायमर्थः। ‘आत्मानं रथिनं विद्धी’त्यादिना ‘तद्विष्णोः" परमं पद’मित्यन्तेन संसाराध्वपारभूतवैष्णवपरमपदप्राप्तौ परिकरमुपदिशन् प्राप्तृस्वरूपमुपदिशति- ‘आत्मानं रथिनं विद्धि शरीरं रथमेव च’। शरीराधिष्ठितारं रथिनं विद्धि शरीरमेव च रथं विद्धीत्यर्थः। ‘बुद्धिस्तु सारथिं विद्धि’। बुद्धिशब्दिताध्यवसायाधीनत्वाद्देहप्रवृत्तेः तस्यास्सारथित्वमितिभावः। ‘मनः प्रग्रहमेवच’। प्रग्रहः रशना। ‘इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्’। तेषु इंद्रियेषु हयत्वेन रूपितेषु गोचरान् मार्गान् शब्दादिविषयान् विद्धीत्यर्थः। ‘आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’। आत्मशब्दो देहपरः। भोक्ता=कर्तृत्वभोक्तृत्ववानित्यर्थः। नहि केवलस्यात्मनः कर्तृत्वं भोक्तृत्वंवाऽस्तीति भावः। शरीरादेः रथत्वादिरूपणस्य प्रयोजनमाह-‘यस्तवविज्ञानवा’ नित्यादिना। हयत्वेन रूपितानामिन्द्रियाणां" वशीकरणतदभावयोः प्रयोजनं मन्त्रद्वयेन। ‘यस्त्वविज्ञानवान्भवत्यमनस्कस्सदाऽशुचिः’। अमनस्कः= अनिगृहीतमनाः। अत एव अशुचिः। सर्वदा विपरीतविन्ताप्रवणत्वादित्यर्थः। किं तत्पदमित्याकांक्षायां तत्पदं दर्शयन्नुपसंहरति-‘विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः। सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदं’। समीचीनविज्ञानमनः शाली संसाराध्वपारभूतं" परमात्मस्वरूपं प्राप्नोतीत्यर्थः। वशीकार्यत्वाय रथादिरूपितेषु शरीरादिषु यानि येभ्यो वशीकार्यतायां" प्रधानानि तान्युच्यन्ते-‘इन्द्रियेभ्यः पराह्यर्था अर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः। पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गति’रिति। तत्र हयत्वेन रूपितेभ्य इन्द्रियेभ्यः गोचरत्वेन रूपिता विषया वशीकार्यत्वे पराः, वश्येन्द्रियस्यापि विषयसन्निधौ इन्द्रियाणां दुर्निग्रहत्वात्। तेभ्योऽपि परं प्रग्रहरूपितं मनः। मनसि विषयप्रवणे विषयासन्निधानस्याप्यकिञ्चित्करत्वात्। तस्मादपि रथत्वरूपितं शरीरं अव्यक्तशब्दितं परम्। तदायत्तत्वाज्जीवस्य सकलपुरुषार्थसाधनप्रवृत्तीनां। तस्मादपि परस्सर्वान्तरात्मभूतोऽन्तर्यामी अध्वनः पारभूतः परमपुरुषः। यथोक्तस्य आत्मपर्यंतस्य तत्सङ्कल्पायत्तप्रवृत्तित्वात् वशीकार्योपासननिर्वृत्त्युपायकाष्ठाभूतः परमप्राप्यस्सएव। न तस्मादपि परं किञ्चिदस्तीत्याह-‘पुरुषान्नपरं" किञ्चि’दिति। हयादिरूपितानामिन्द्रियाणां" वशीकरणप्रकारमाह-यच्छेद्वाङ्मनसीप्राज्ञः तद्यच्छेज्ज्ञान आत्मनि। ज्ञानमात्मनि महति नियच्छेत् तद्यच्छेच्छान्त आत्मनि’। वाचो मनसि नियमनं मनोऽननुगुणप्रवृत्तिवैमुख्यापादनम्। मनसो बुद्धौ नियमनं व्यवसायानुगुणप्रवृत्तितापादनम्। तस्याः बुद्धेरात्मनि नियमनं स एवोपादेयतया साक्षात्कार्य इति तदर्थविषयत्वापादनम्। शान्ते ब्रह्मणि महतो जीवस्य नियमनं नाम तच्छेषताप्रतिपत्तिः। सा च प्रतिपत्तिश्शरणागतिरेव। ‘तमेव शरणं गच्छे’ति स्मृतेः। ननु ‘इन्द्रियेभ्यः पराह्यर्था’ इति वाक्ये सांक्यप्रक्रियाप्रत्यभिज्ञानात् पञ्चविंशातिरिक्तपुरुषनिषेधाच्च सांख्याभिमताब्रह्मात्मकप्रधानमेव अव्यक्तशब्देन अभिधीयत इति ‘आनुमानिकमप्येकेषामितिचे’दिति सूत्रखण्डेन पूर्वपक्षं कृत्वा ‘न शरीररूपकविन्यस्तगृहीतेर्दर्शयतिचे’ति सिद्धान्तः कृतः। तस्याचायमर्थः। आनुमानिकमव्यक्ताभिलप्यं शरीरं। उपासनोपयोगिवशीकरणाय ‘आत्मानं" रथिनं विद्धि शरीरं रथमेवचे’ति रूपकविन्यस्तशरीरस्यैव अव्यक्तशब्देन ग्रहणसम्भवात् अस्मिंश्च प्रकरणे इंद्रियादिवीकारस्यैव ‘यच्छेद्वाङ्मनरी प्राज्ञ’ इत्यादौ दर्शानात्, तदनुसारेण अव्यक्तशब्देन शरीरमेव गृह्यते॥ननु कथमव्यक्तशब्देन व्यक्तस्य शरीरस्याभिधानं मत्राह– ॥सूक्ष्मंतु तदर्हत्वात्॥ भूतसूक्ष्ममव्याकृतं ह्यवस्थाविशेषमापन्नं शरीरं भवति। ततश्च कारणवाचिना अव्यक्तशब्देन स्थूलं" शरीरमेव उपचारादुच्यतइत्यर्थः। ननु उक्तशब्दस्य मुख्यएवार्थोऽस्तु, कुतः स्थूलशरीरे लक्षणाऽभ्युपगन्तव्येत्यत्राह- तदर्हत्वादिति। स्थूलशरीरस्यैव कार्यार्हत्वात्, तस्यैव वशीकार्यत्वाय प्रतिपादनस्य अपेक्षितत्वात्, अव्यक्तशब्देन कारणवाचिना स्थूलशरीरलक्षणा उचितेति भावः॥ननु यदि भूतसूक्ष्ममव्याकृतमभ्युपगम्यते कापिलतन्त्रसिद्धोपादानेकः प्रद्वेष इत्यत्राह– ॥तदधीनत्वादर्थवत्॥ अस्मन्मते अव्यक्तस्य परमात्माधीनतया तदधिष्ठितत्वेन प्रयोजनवत्त्वमस्ति, सांख्यमते तदनभ्युपगमात् तस्य निष्प्रयोजनत्वमिति भावः॥॥ज्ञेयत्वावचनाच्च॥ यदि तन्त्रसिद्धमेव अविवक्षिष्यत्, तदाऽस्य ज्ञेयत्वमविवक्षिष्यत्। व्यक्ताव्यक्तविज्ञानात् मोक्षंवदद्भिस्तांत्रिकैः" तेषां सर्वेषां ज्ञेयत्वाभ्युपगमात्। नचास्य ज्ञेयत्वमुच्यते। अतो न तन्त्रसिद्धस्येह ग्रहणम्॥॥वदतीति चेन्न प्राज्ञो हि प्रकरणात्॥ ‘अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्। अनाद्यनन्तं महतः परं ध्रुवं विचाय्य तं" मृत्युमुखात्प्रमुच्यत’ इत्युक्तस्य ज्ञेयत्वमनन्तरमेव श्रुतिर्वदतीतिचेन्न। ‘सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पद’मिति प्राज्ञस्य परमात्मनः प्रकरणात् स एव ‘अशब्दमस्पर्श’मिति मन्त्रे ज्ञेयत्वेन निर्दिश्यते, न तन्त्रसिद्धमव्यक्तम्॥॥त्रयाणामेव चैवमुपन्यासः प्रश्नश्च॥ अस्मिन् प्रकरणे हि उपायोपेयोपेतृणां त्रयाणामेव ज्ञेयत्वोपन्यासः ‘अन्यत्र धर्मादन्यत्राधर्मा’दिति प्रश्नश्च दृश्यते, नाव्यक्तादेः॥ श्रुत्यर्थश्च लिख्यते-‘नह्यध्रुवैः प्राप्यतेहि ध्रुवन्तत्’।‘एतच्छ्रुत्वा संपरिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य। समोदते मोदनीयं हि लब्ध्वा’। ‘अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाती’ति प्रदेशेषु धर्मफलविलक्षणतया ज्ञानसाध्यतया प्राप्यतया निर्दिष्टस्य प्राप्यस्य स्वरूपञ्च उक्तप्रदेशेष्वेव धर्मविलक्षणतया ‘मत्वे’ति प्रतिपन्नस्य उपायस्य स्वरूपञ्च ‘धीरो हर्षशोकौ जहाती’त्यत्र ‘धीर’ इति प्रतिपन्नस्य प्राप्तुश्च स्वरूपञ्च शाधयितुं पृच्छति-‘अन्यत्र धर्मा’दित्यादिना। धर्मः=उपायः। धर्मादन्यत्र=प्रसिद्धोपायविलक्षणइत्यर्थः। अधर्मः=धर्मेतरउपायः। धर्मादन्यत्र प्रसिद्धसाध्यविलक्षणं" फलमित्यर्थः। ‘अस्मा’दिति बुद्धिस्थस्साधको विवक्षितः। स एवोपेता, सहि प्रसिद्धोपेतृविलक्षणः। साधकावस्थायामितरफलविरक्तत्वात्, फलदशायामाविर्भूतगुणाष्टकविशिष्ट स्वरूपत्वाच्च। कृताकदादित धर्मादीनां" विशेषणम्। कृताकृताद्धर्मादेर्विलक्षणं भूताच्च भव्याच्च धर्मादेर्विलक्षणं यदित्यर्थः। योजनान्तरमप्यस्ति, विस्तरभयान्नलिख्यते–॥महद्वच्च॥ यथा ‘बुद्धेरात्मा महान्पर’ इत्यत्र आत्मशब्दसामानाधिकरण्यात् न तन्त्रसिद्धं महत्तत्वं गृह्यते, एवमव्यक्तमपि आत्मनः परत्वेनाभिधानात् न कापिलतन्त्रसिद्धं गृह्यतइति स्थितम्॥ ॥इति आनुमानिकाधिकरणम्॥