27 अर्थान्तरत्वादिव्यपदेशाधिकरणम्

॥आकाशोऽर्थान्तरत्वादिव्यपदेशात्॥ पूर्वं दहराकाशस्य परब्रह्मत्वसमर्थनाय अल्पश्रुतिपरिहारे कृते तत् प्रसङ्गात् अंगुष्ठमात्रस्य परमात्मत्वं साधितं, तत्प्रसङ्गतं तु अधिकरणत्रयम्। अथ पूर्वप्रकृतदहरविद्याया बुद्धिस्थत्वेन तदनन्तरश्रुतस्य आकाशवाक्यस्य परमात्मपरत्वं निरूप्यत इति सङ्गतिः। छान्दोग्ये– ‘आकाशो वै नामनामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मे’त्यादि श्रूयते। अत्र ‘नामरूपयोर्निर्वहिते’ति नामरूपवोढृत्वश्रवणात् नामरूपवोढृत्वस्य परमात्मनि ‘अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपेव्याकरवाणी’ति जीवद्वारकतयैव उपपाद्यतया नामरूपवोढृत्वस्य जीवएव स्वरसत्वात्, ‘एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परंज्योतिरुपसंपद्य स्वेन रूप्णाभिनिष्पद्यत’ इति वाक्यप्रतिपाद्यस्य ‘नामरूपयोर्निर्वहिता ते यदन्तरे’ति वाक्ये शब्दस्यापि यौगिक्या वृत्त्या मुक्तात्मनि सम्भवादित्येवं पूर्वपक्षे प्राप्त उच्यते- आकाशोऽर्थान्तरत्वादिव्यपदेशात्। आकाशः परंब्रह्म, अर्थान्तरत्वादिव्यपदेशात्। ‘नामरूपयोर्निर्वहिते’ति जीवापेक्षया अर्थान्तरत्वस्य भेदकधर्मस्य व्यपदेशात्। नहि नितरां वोढृत्वं निर्वोढृत्वं, रूढ्या निर्वोढृशब्दस्य कर्तृत्वाभिधायित्वात्, ‘ते यदन्तरे’ति नामरूपास्पृष्टत्वकथनाच्च, नामरूपास्पृष्टत्वे सति नामरूपकर्तृत्वस्य बद्धे मुक्तेवाऽसम्भवात् मुक्तस्यापि ‘जगद्व्यापारवर्ज’मिति जगद्व्यापाररहित्यस्य प्रतिपादितत्वात्। आदिशब्देन अमृतत्वाभयत्वादीनां" संग्रहः॥ननु प्रत्यगात्मनो ‘ऽर्थान्तरत्वव्यपदेशा’दिति न वक्तुं युक्तम्। शुद्धावस्थ एव हि प्रत्यगात्मा परमात्मा परंब्रह्मेति च व्यपदिश्यते। तत्राह- ॥सुषुप्त्युत्क्रांत्यर्भेदेन॥ वाजसनेयके- ‘कतम आत्मा योऽयं विज्ञानमयः प्राणे’ष्विति प्रकृतस्य प्रत्यगात्मनः सुषुप्तावुत्क्रान्तौ च ‘प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद नान्तर’मिति ‘प्राज्ञेनात्मनाऽन्वारूढ उत्सर्जन् याती’ति च प्राज्ञेन परिष्वङ्गान्वारोहावाम्नायेते। जीवस्यैव शुद्धावस्थस्य परमात्मत्वे परिष्वङ्गान्वारोहौ नोपपद्येयातां। नह्यभेदे तौ सम्भवतः॥॥पत्यादिशब्देभ्यः॥ ‘सर्वस्य वशी सर्वस्येशानस्सर्वस्याधिपतिस्सनसाधुना कर्मणा भूयान् नोएवासाधुना कनीयान्। एषसर्वेश्वर एष भूदाधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाये’ति प्रत्यगात्मासम्भावितानां पतित्वादिधर्माणां" श्रवणात् नायमात्मा जीव इति स्थितम्॥ ॥इति अर्थान्तरत्वादिव्यपदेशाधिकरणम्॥ ॥इति श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य तृतीयः पादः॥