26 अपशूद्राधिकरणम्

॥शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यतेहि॥ वस्वादीनामर्थित्वसामर्थ्यंयोस्सम्भवात् ब्रह्मविद्यायामधिकारोऽतीत्युक्तं, तर्हि शूद्राणामप्यधिकारस्स्यादिति शङ्कया सङ्गतिः। छान्दोग्ये संवर्गविद्यायां रैक्वो जानश्रुतिं ‘शूद्रे’त्यामन्त्र्य ब्रह्मविद्यामुपदिदेशेति श्रवणात्, विदुरादीनां ब्रह्मनिष्ठानामपि दर्शनात्, अग्निविद्यासाध्ययज्ञादिषु अग्निविद्याशून्यानां" शूद्राणां कर्मकाण्डापशूद्राधिकरणन्याययेन अधिकारासम्भवेऽपि ब्रह्मोपासने अधिकारस्सम्भवत्येव। नच शूद्रस्य ब्रह्मोपासनोपयुक्तज्ञानाभावश्शङ्कनीयः। इतिहासपुराणादिना तज्ज्ञानसम्भवात्। नचैयं" यज्ञादिष्वपि तथा प्रसङ्गः। अग्न्यभावात्। ‘तस्माच्छूद्रो यज्ञेऽनवकलृप्त’ इति यज्ञानुष्ठानस्य विषिद्धतया तस्य तदसम्भवेऽपि संवर्गविद्यागतशूद्रशब्दामन्त्रणलिंगानुग्रहात् ब्रह्मोपासनाधिकारोऽङ्गीकर्तव्य एवेति पूर्वपक्षे प्राप्तउच्यते- शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि॥ शोचितृत्वप्रवृत्ति निमित्तकेन शूद्रशब्देन जानश्रुतेः ‘कम्बरएनमेतत्सन्तं सयुगानमिव रैक्वमात्थे’ति हंसोक्तानादरगर्भवाक्यश्रवणात् तदाद्रवणहेतुभूतादुत्पन्ना शुक सूच्यते, न चतुर्थवर्णत्वम्। यौगिकार्थस्य प्रकृतस्य मानांतराविरुद्धस्य ग्रहणसम्भवे मानांतरविरुद्धस्य रूढ्यर्थस्य अग्काह्यत्वात्, शूद्रस्य ब्रह्मोपासनौपयिकवैदुष्यलक्षणसामर्थ्यासम्भवाच्च, न ब्रह्मविद्यायामधिकारः। वैदिकविधीनां अध्ययनविधिलब्धवेदजन्यज्ञानवतः" त्रैवर्णिकाधिकारिण आसाद्य विवृत्तानां शूद्राधिकारानाक्षेपकत्वादिति न्यायस्य यज्ञोपानयोरविशेषात्, ‘तस्माच्छूद्रो यज्ञेऽनवक्लृप्त’ इत्यस्य न्यायसिद्धैकदेशानुवादित्वेन तस्य विनिगमकत्वासम्भवात्॥॥क्षत्रियत्वगतेश्च॥ पक्वान्नप्रदत्वक्षत्तृप्रेषणरैक्व कन्याप्रदानानेकग्रामप्रदानादिना जानश्रुतेः क्षत्रियत्वावगतेश्च। एतेषां क्षत्रियधर्मत्वस्यैव शास्त्रीयत्वात्॥॥उत्तरत्र चैत्ररथेन लिङ्गात्॥ संवर्गविद्यासंबन्धिनोऽभिप्रतारिनाम्नः चित्ररथवंशस्य क्षत्रियस्य तादृशेन ब्राह्मणेन शौनकेन कापेयेन साहचर्यदर्शनात् इहापि संवर्गाविद्यासंबन्धी रैक्वेन ब्राह्मणेन सहचरितजानश्रुतिरपि क्षत्रियएवेत्यवसीयते। ननु अभिप्रतारिणः क्षत्रियत्वं कुतेऽवसीयइति चेत्, चैत्ररथवंश्यत्वात्। नच तदपि कुतोऽवसितमिति वाच्यम्। ‘एतेन वै चित्ररथं कापेया अयाजय’न्निति छन्दोगब्राह्मणे चित्ररथस्य कापेययाज्यत्वाल्लिङ्गात्। न च कापेययाज्यत्वे चित्ररथवंश्यत्वं कुतइति वाच्यम्। ‘एतेन वै चित्ररथं कापेया अयाजय’न्निति छन्दोगब्राह्मणे चित्ररथस्य कापेययाज्यत्वश्रवणात्। ननु अबिप्रतारिणः कापेययाज्यत्वं कुतेऽवसीयते। ‘शौनकञ्च कापेयमभिप्रतारिणञ्च कांक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्ष’ इति एकपङक्त्यु पवेशमात्रस्य श्रवणात् नानादेशागतानां" परस्परसंबन्धशून्यानामपि एकपङ्क्तयुपवेशसम्भवात्। अस्तु वा कथंचिद्याज्ययाजकभावः, तावता छन्दोगब्राह्मणे चित्ररथस्य कापेययाज्यत्वश्रवणेन नित्ररथत्वमेव सिद्धेत्। न तु तद्वंश्यत्वमिति चेत्, उच्यते– कापेयाभिप्रतारिणोः क्लृप्तसम्बन्धयोरेकपङ्क्त्युपवेशस्य युक्तत्वात्, कापेयानां चित्ररथवंश्यानां" च याज्ययाजकभावसम्बन्धस्य अन्यत्र प्रसिद्धत्वात्, अभिप्रतार्यपि कापेययाज्यचित्ररथवंश्य इत्येव अवसीयते। नच कापेययाज्यतया चित्ररथत्वमेवास्त्विति शंक्यम्। अभिप्रतारिसंज्ञावरुद्धे चित्ररथसंज्ञानिवेशासम्भवान्नायं" चित्ररथः। अपि तु तद्वंश्यः, समानान्वयानां याज्ययाजकभावस्य लोकवेदप्रसिद्धत्वात्। न च कापेययाज्यस्य चित्ररथस्य क्षत्रियत्वे किं प्रमाणमिति वाच्यम्। ‘एतेन वै चित्ररथं कापेया अयाजयंस्तस्माच्चैत्ररथिर्नामैकः क्षत्रपतिरजायत’ इति चित्ररथोत्पन्नस्य क्षत्रियत्वावेदनात्, ततश्चोत्तरत्र ब्राह्मणक्षत्रिययोश्शौनकाबिप्रतारिणोस्संवर्गविद्यासंबन्धश्रवणात्, इहापि तद्विद्यसंबन्धिनोः रैक्वजानश्रुत्योः ब्राह्मणक्षत्रियत्वमवसीयते॥॥संस्कारपरामर्शात्तदभावाभिलापाच्च॥ ब्रह्मविद्योपदेशप्रदेशेषु ‘उप त्वा नेष्ये न सत्यादगाइति तं होपनिन्ये। अधीहि भगव इति होपससाद सनत्कुमारं नारदः। समित्पाणयो भगवन्तं पिप्पलादमुपसन्ना’ इति संस्कारः परामृश्यते। शूद्रस्य संस्काराभोवोऽभिलप्यते। ‘शूद्रश्चतुर्थो वर्णएकजातिः। न शूद्रे पातकं किंचिन्नच संस्कारमर्हती’ति॥॥तदभावनिर्धारणे च प्रवृत्तेः॥ शूद्रत्वाभावनिर्धारणे सत्येव विद्योपदेशाय प्रवृत्तिर्दृश्यते। ‘नैतदब्राह्मणो विवक्तुमर्हति समिधं" सोम्याहार उपत्वानेष्ये न सत्यादगा’इति॥॥श्रवणाध्ययनार्थप्रतिषेधात्॥ ‘पद्यु हवा एतच्छमशानं यच्छूद्रः तस्माच्छूद्रसमीपे नाध्येतव्य’मिति शूद्रस्य वेदश्रवणप्रतिषेधेन तदध्ययनतदर्थानुष्ठानयोस्सुतरां प्रतिषेधात्॥।स्मृतेश्च॥ ‘अथ हास्य वेदमुपश्रृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रपूरणमुदाहरणे जिह्वाच्छेदः धारणे शरीरभेद’ इति स्मृत्या च श्रवणादिकं शूद्रस्य प्रतिषिद्धम्। अतोन ब्रह्मविद्यायां शूद्रस्याधिकारः। विदुरादयस्तुभवान्तराधिगतज्ञानाप्रमोषात् ज्ञानवन्तः प्रारब्धकर्मवशाच्चोदृशजन्मेति तेषां ब्रह्मनिष्ठत्वं। ननु शूद्राणां ब्रह्मोपासनानधिकारे श्रीपाञ्चरात्राद्यागमोक्ततांत्रिकमंत्रानुसंधानपूर्वकब्रह्मोपासने अधिकारो नस्यात्। नारदस्य शूद्रजन्मनि महर्षिवचनादनुष्ठितमच्युतोपासनमप्यप्रामाणिकं स्यादितिचेत् – नहि ब्रह्मोपासने शूद्रस्य अनधिकारंब्रूमः, अपितु संवर्गविद्यादिषु वैदिकेषूपासनेषु। अतो नात्र तद्दोषशङ्कावकाशः। ननु ‘संबन्धादेवमन्यत्रापी’त्यधिकरणे व्याहृतिविद्याया अध्यात्माधिदैवस्थानभेदेन भेदस्य प्रतिपादितत्वात् संवर्गविद्याया अपिअध्यात्मादिस्थानभेदेन भेदेन भेदः स्यात्। न चेष्टापत्तिः, ‘अनुमएतां भगवोदेवतांशाधि यां देवतामुपास्स’ इति ब्रह्मविद्यामात्रार्थिने जानश्रुतये विद्याद्वयोपदेशस्य अयुक्तत्वादितिचेन्मैवं। व्याहृतिविद्यायां ‘यएतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेक्ष’न्नित्यत्रेव वायौ प्राणे इत्येवं वायुप्राणयोस्स्थानत्वेन निर्देशाभावात् स्थानभेदप्रयुक्तविद्याभेदाप्रसक्तेः ‘यांदेवतामुपास्स’ इति रैक्वोपास्यदेवतोपासनप्रकारे पृष्टे रैक्वोपास्यसंवर्गस्य देवतात्मलक्षणस्थानभेदेन उपासनाद्वयसंभवमभिप्रेत्य उपासनद्वयोपदेशे दोषाभावाच्च। नच ‘विकल्पोऽविशिष्टफलत्वा’दिति न्यायेन रैक्वस्य विद्याद्वयानुष्ठानाभावात् स्वानुष्ठीयमानविद्यामात्रोपदेशएव युक्तः नाधिकइति वाच्यं। अप्रयोजकत्वात्। परोपदेशे स्वावगतेरेव प्रयोजकत्वेन स्वानुष्ठानस्य अप्रयोजकत्वमिति स्थितम्। ननु संवर्गविद्यायाः कथं ब्रह्मविद्यात्वं? किं तु वायुप्राणोपासनरूपत्वं ‘वायुर्वावसंवर्गः, वायुर्ह्येवैतान् सर्वान्संवृङ्क्ते, प्राणोवाव संवर्गः, प्राणोह्येवैतान् सर्वान् संवृङ्क्ते, तौ वा एतौ द्वौ संवर्गौ। संवर्जनं-संग्रहणं। एकीकृत्य ग्रहणमित्यर्थः। संवर्जनगुणयोगाद्वायुरेव संवर्गः। संवर्गत्वगुणको वायुरुपास्यइति यावत्। एवं प्राणावाक्यस्याप्यर्थः। एवञ्च शूद्रस्य ब्रह्मविद्यायामनधिकारात् एतद्विद्याप्रश्नवाक्यगतशूद्रपदस्य रूढिं परित्यज्य अवयवार्थाश्रयणमनुपपन्नमिति चेत्। प्रक्रमे ‘कृताय विजितायाधरेऽयास्संयन्ति एवमेनं सर्वं तदभिसमेती’त्यादिवाक्ये संवर्गविद्यानिष्ठरैक्वप्रभावे सर्वेषामंतर्भाववर्णनेन संवर्गविद्याया ब्रह्मविद्यात्वावश्यंभावात्। ननु ‘अथ ह शौनकञ्च कापेयमभिप्रतारिणञ्चकाक्षसेनिं" परिविष्यमाणौ ब्रह्मचारी बिभिक्षे’। कपिगोत्रं शुनकपुत्रं च कक्षसेनसुतमभिप्रतारिनामानञ्च तौ द्वौ पाचकैः परिविष्यमाणौ भोजनायोपविष्टौ संवर्गनिष्ठो ब्रह्मचारी दुरभिमानी भिक्षितवान्। ‘तस्माउह नददतुः’। ब्रह्मचारी यद्वक्ष्यति तच्छ्रोष्यावइति बुद्ध्या भिक्षां न दत्तवंतौ। ‘सहोवाच महात्मनश्चतुरो देवएकः कस्सजगार भुवनस्य गोपाः। तंकापेय नाभिपश्यन्ति मर्त्याः’। महात्मनः अधिदैवताध्यात्मभेदेन अग्न्यादित्यचंद्रजलरूपान् वाक्चक्षुः श्रोत्रमनोरूपांश्च। अतएव चतुरः=चतुस्संख्याकान् देवान् सर्वलोकस्य गोप्ता स एक एव वायुप्राणरूपी कः प्रजापतिः जगार=संहृतवान्। मर्त्याः-मरणधर्माणः अविद्यामोहितास्संतः" तन्नजानंतीत्यर्थः। ‘यस्मै वा एतदन्नंतस्माएतन्नदत्तमिति’। जगत्सर्वं यस्य संवर्गस्य प्रजापतेरन्नं" तस्मै भिक्षमाणाय मह्यं न दत्तमिति तं निन्दितवानित्यर्थः। एवमनयाप्याख्यायिकया कशब्दितप्रजापतिवायुरूपत्वं" संवर्गस्यावगतमिति चेन्न। तस्यामेव अखाययिकायां इतराविनाश्यत्वे सति सर्वसंप्रतिपन्नमहामहिमशालित्वसर्वदेवनियन्तृत्वब्रह्मादिसकलप्रजोत्पादकत्व हिरण्यदंष्ट्रत्वाद्युपलक्षितनरसिह्मविग्रहवत्त्वादिप्रतिपादनात्, ‘वै वयं ब्रह्मचारिन्नेदमुपास्मह’इति कशब्दितप्रजापत्यात्मकसंवर्गप्रत्याख्यानाच्च परमात्मरूपत्वं संवर्गस्य सिद्धम्। उक्तार्थप्रतिपादकवाक्यानि लिख्यन्ते– ‘तदुह शौनकः कापेयः प्रतिमन्वानः प्रत्येयाय’। तत्=प्रत्यागत्योवाच। ‘आत्मा देवानां जनिता प्रजानां" हिरण्यदंष्ट्रो बभसोऽनसूरिः। महांतमस्य महिमानमाहुरनद्यमानो यदनन्नमत्तीति वै वयं ब्रह्मचारिन्नेदमुपास्महे दत्ताऽस्मै भिक्षामि’ति। देवानामात्मा नियन्ता, प्रजानामुत्पादकः, हिरण्यदंष्ट्रः= कमनीयदंष्ट्रायुक्तः। हिरण्यविदारकदंष्ट्रायुक्तइतिवा। बभसः=भक्षणशीलः। असुरसंहारक इतियावत्। असूरिर्नभवतीत्यनसूरिः। विपश्चिदिति यावत्। अस्य श्रीनृसिंहस्य परमात्मनः महिमानं महान्तमाहुः, यत् स्वयमन्यैरनाश्यमानः" अनन्नं वागादिकं अत्ति=नाशयति। एवंभूतः परमात्मैव संवर्गः नत्वदुक्तः प्रजापतिरित्यर्थः। अतो वयं" न त्वदुक्तप्रजापतिरूपं संवर्गमुपास्महे, अपितु परमात्मानमेव। अतस्त्वं संवर्गं न यथावज्जानासीत्युक्त्वा अस्मै भिक्षां प्रयच्छतेति परिचारकानाहतुरित्यर्थः। अनेन संवर्गविद्याया वायुप्राणशरीरकपरमात्मपरत्वमाविष्कृतमित्यर्थः॥ ॥इति अपशूद्राधिकरणम्॥