25 मध्वधिकरणम्

॥मध्वादिष्वसम्भवादनधिकारं जैमिनिः॥ पूर्वाधिकरणे देवादीनां ब्रह्मविद्यायां सामान्येनाधिकारोऽस्तीत्युक्तम्। इदानीं वस्वादिदेवताविशेषाणां" मधुविद्यायाः वस्वादिगणभोग्यरोहितरूपादिपञ्चामृताश्रयादित्योपासनरूपतया अस्यां विद्यायामधिकारस्संभवति नेति विचार्यतइति प्रासङ्गिकी सङ्गतिः। विचारोपयोगीनि मधुवाक्यानि संग्रहेण लिख्यन्ते-‘असौ वा आदित्यो देवमधु’। असावादित्यो वत्वादीनां देवतानामामोदहेतुत्वान्मधु। अत्र मधुत्वदृष्टिः कर्तव्येत्यर्थः। मधुत्वोपयोगीनि सम्पादयति- ‘तस्य द्यौरेव तिरश्चीनवंशः’। तस्य मधुनो द्युलोकएव आधारभूततिर्यक्प्रसारितो वंशइत्यर्थः। ‘अन्तरिक्षमपूपः’। मध्वाश्रयोऽपूपोहि तिरश्चीनवंशलग्नस्सन् लम्बते, एवमन्तरिक्षमपि द्युलोकलग्नं लम्बतइव भातीत्यतो मध्वपूपत्वं। ‘मरीचयः पुत्राः’। मरीचिशब्देन मरीचिस्थास्सवित्राकृष्टा भौम्य आप उच्यन्ते। ताः पुत्राइव पुत्राः भ्रमरबीजभूता मध्वपूपच्छिद्रस्थास्सूक्ष्मकीटाइत्यर्थः। ‘तस्य ये प्रांचो रश्मयः ताएवास्य प्राच्यो मधुनाड्यः’। तस्य आदित्यस्य ये प्राञ्चोरश्मयः ता एव प्राग्दिगवच्छिन्नानि मधुच्छिद्राणीत्यर्थः। ‘ऋचएव मधुकृतः’। ऋङ्मन्त्राएव भ्रमराः। ‘ऋग्वेदएव पुष्पं’। ऋग्वेदविहितं कर्म पुष्पस्थानीयम्। ‘ताअमृताआपः’। ताः=कर्मणि प्रयुक्तसोमाज्यपयोरूपा आपः अग्नौ प्रक्षिप्ताः पाकाभिनिर्वृत्ता अत्यन्तरसवत्यो भवन्ति। ‘तावा एता ऋच एतमृग्वेदमभ्यतपन’। तावाएताऋचः ऋङ्मन्त्राः भ्रमरस्थानयाः पुष्पेभ्योरसमाददानाभ्रमराइव एतमृग्वेदं" ऋग्वेदविहितं कर्म पुष्पस्थानीयं अभ्यतपन्=अभितापं कृतवत्यइव। ‘तस्याभितप्तस्य यशस्तेजइन्द्रियं" वीर्यमन्नाद्यं रसोऽजायत’। ऋग्भिर्मन्त्रैः स्तोत्रशस्त्राद्यङ्गभावमुपगतैः क्रियमाणं कर्म मधुनिर्वर्तकं सोमाज्यादिरसं मुंचति पुष्पमिव भ्रमरैराचूष्यमाणं, तेन यशस्तेजइन्द्रियपाटववीर्यादिलक्षणं फलमुत्पन्नं" भवतीत्यर्थः। ‘तद्व्यक्षरत्’। तत्=यशआदिलक्षणं फलं। व्यक्षरत्=विशेषेण अगमत्। ‘तदादित्यमभितोऽश्रयत्’। गत्वाचादित्यमभितः आश्रितवदित्यर्थः। ‘तद्वाएतद्यदेतदादित्यस्य रोहितं रूपं’। आदित्यो प्रत्यक्षतः" परिदृश्यमानं यद्रोहितरूपं तत् कर्मनिर्वर्त्ययशस्तेजआदिलक्षण फलरूपमित्यर्थः। रोहितरूपे तद्बुद्धिः" कर्तव्येति यावत्। ‘अथ येऽस्य दक्षिणारश्मय’ इत्यादिचतुर्भिः पर्यायैः दक्षिणप्रतीच्योदीच्योर्ध्वरश्मीनां" मधुनाडीत्वं, यजुस्सामाथर्वांगिरसोपनिषन्मन्त्राणां मधुकृत्त्वं, यजुस्सामाथर्वाङ्गिरसोपनिषत्प्रतिपाद्यकर्मणां" पुष्पत्वं, ‘ताअमृताआप’ इति कर्मणि प्रयुक्तानां सोमाज्यपयसामत्यन्तरसवत्त्वं, तत्र ऋग्यजुरादिमन्त्रैः" स्तोत्रशस्त्राद्यङ्गभावमुपगतैरभितप्तेभ्यो यजुस्सामादिवेदविहित कर्मरूपपुष्पेभ्यो भ्रमरै राचूष्यमाणत्वात्पुष्पादिव यशस्तेजइन्द्रियवीर्यान्नाद्यलक्षणरसरूपाणि फलान्युत्पद्यन्ते, तानि यश आदिलक्षणफलानि ‘आदित्यमभितोऽश्रयत्, तद्वा एतद्यदेतदादित्यस्य शुक्लं रूपं, कृष्णं रूपं, परः कृष्णं रूपं, मध्ये क्षोभतइवे’ति वाक्यचतुष्टयेन आदित्ये प्रत्यक्षतः परिदृश्यमानानां रोहितशुक्लकृष्णातिशयित कृष्णमध्यक्षोभानां तत्तत्कर्मनिर्वत्ययशस्तेज आदिलक्षणफलरूपत्वबुद्धिः कर्तव्येति प्रतिपाद्यत इति। ‘तेवा एते रसानां रसा वेदा हि रसास्तेषामेते रसास्तानि वा एतान्यमृतानाममृतानि वेदाह्यमृतास्तेषामेतान्यमृतानि’। लोकसारभूतऋग्वेदादिप्रतिपाद्यकर्मनिष्पाद्यत्वाद्रोहितादि रूपाणामतिरसत्वम्। तथा वेदेभ्योऽपि इष्टतत्साधनप्रतिपादकतया भोग्यभूततया अमृतेभ्यो रोहितादिरूपाणां" तत्प्रतिपाद्यकर्मनिष्पाद्यानां अतिभोग्यत्वादमृतादप्यमृतत्वमित्यर्थः। अयमत्र निर्गलितार्थः- प्रागाद्यूर्ध्वदेशान्तस्स्थितरश्मिनाडीतः तत्तद्वेदोक्तकर्मकुसुमेभ्यः तत्तद्वैदिकमंत्रमधुकरैः" आदित्यमण्डलमानीतानि सोमाज्यपयः प्रभृतिद्रव्यनिष्पन्नानि यशस्तेज इन्द्रियवीर्यान्नाद्यात्मकानि ‘रोहितं, शुक्लं, कृष्णं, परःकृष्णं, मध्ये क्षोभतइवे’त्युक्तानि रोहितादीनि पञ्चामृतानि आदित्यमध्वाश्रितानि। एषां पञ्चानाममृतानां वसुरुद्रादित्यमरुत्साध्यगणभोग्यत्वं" तदुपासीनानां वसुत्वादिप्राप्तिपूर्वकब्रह्मप्राप्तिञ्च प्रतिपादयति-‘तद्यत्प्रथमं तद्वसव उपजीवन्त्यग्निना मुखेन’। अग्निमुखा वसवो रोहितरूपलक्षणं प्रथमममृतमुपजीवन्ति। उपजीवनंनभक्षणं नापि पानमित्याह-‘न वै देवा अश्नन्ति न पिबन्ति’। पुनः कथमुपजीवनमित्यत्राह-‘एतदेवामृतं दृष्ट्वा तृप्यन्ति’। यशस्तेज आदिलक्षणं हेरितरूपं सर्वैः करणैः उपलभ्य तृप्यन्तीत्यर्थः। ‘तएतदेव रूपमभिसंविशंति’।एतदेव रूपं" अभिलक्ष्य अनुभूयेति यावत्। संविशन्ति=भोगानन्तरं उदासीनाभवन्तीत्यर्थः। ‘स य एतदेवममृतं वेद’। एवं=अनेन प्रकारेण वसुतृप्तयाधायकदर्शनगोचरत्वलक्षणवसूपजीव्यत्वादिना रोहितामृतंयोवेदेत्यर्थः। ‘वसूनामेवैको भूत्वे’ति। तत्क्रतुन्यायेन सः तदुपानसीनोऽपि वसुत्वं प्राप्य तथैव भवतीत्यर्थः। ‘अथ यद्वितीयममृतं तद्रुदा उपजीवंती’त्यादिपर्यायाणां रुद्रादित्यमरुत्साध्यगणभोग्यत्वप्रतिपादकानां" एवमेवार्थोऽवगन्तव्यः। ननु अस्या मधुविद्यायाः वस्वादिगणभोग्यरोहितरूपादि पञ्चामृताश्रयादित्योपासनरूपतया अस्यां विद्यायां वस्वादीनां नाधिकारस्सम्भवति। उपास्योपासकभावस्य एकस्मिन्नसम्भवात्। नह्येकस्यैव प्रीणनीयत्वं प्रीणयितृत्वञ्च सम्भवति। ‘वसूनामेवैको भूत्वे’त्यादिना वसुत्वादिप्राप्तेरेव मधुविद्याफलत्वेन वस्वादीनामेव सतां वस्वादित्यप्राप्तिकामनाया असम्भवेन अर्थित्वाद्यसम्भवात्॥॥ज्योतिषि भावाच्च॥ ‘तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृत’मिति परब्रह्मव्यतिरिक्तस्य देवोपासयत्वनिषेधेन ज्योतिश्शब्दिते ब्रह्मण्येव उपासनसम्भवावगमाच्च इति प्राप्तेऽभिधीयते-॥भावन्तु बादरायणोऽस्ति हि॥ अधिकारस्य सद्भावं बादरायण आचार्यो मन्यते। अस्ति ह तेषामप्यर्थित्वादिसम्भव इति। अस्यायमाशयः–नहीयं" विद्या वस्वादित्यादिमात्रपर्यवसिता, अपि तु तच्छरीरकपरमात्मपर्यन्ता। वस्वादीनामेव सतां स्वान्तर्यामिपरमात्मोपासनं" सम्भवत्येव। नच उपास्यप्रतिपादकवस्वादिशब्दानां ब्रह्मपर्यन्तत्वे प्रमाणाभावः। उपसंहारे ‘ब्रह्मोपनिषदं" वेदे’ति श्रवणात्, वस्वादीनामेव सतां कल्पान्तरे वसुत्वादिप्राप्तिपूर्वकब्रह्मप्राप्तेरुद्देश्यत्वसम्भवाच्च। लोके पुत्रिणामेव सतां जन्मान्तरेऽपि पुत्रित्वेप्साया दर्शनात्। ननु वस्वादिपञ्चगणोपजीव्यरोहितादिपञ्चरूपात्मकपञ्चामृताश्रयादित्यमधूपानत्वान्मधुविद्यायाः" तस्याञ्च विद्यायां आदित्यस्यैवोपास्यतया आदित्यस्य तद्विद्याधिकारासम्भवेऽपि वस्वादीनां कथमनदिकारशङ्का। नह्यस्यां विद्यायां वस्वादीनामुपास्यत्वं, अपितु तद्भोग्यादित्यस्यैव। नहि स्वोपासनवत् स्वोपजीव्यत्वेन अन्यस्योपासनं विरुद्धं, तथासति उपासनमात्रोच्छद्परसङ्गात्। सर्वेष्वप्युपासनेषु उपास्यगतस्वोपजीव्यत्वस्वसेव्यत्वस्वाधारत्वस्वान्तर्यामित्वादीनामनुसन्धेयत्वात्। ततश्च वसूनामेव सतां स्वोपजीव्यप़ञ्चामृताश्रयादित्यविषयमधुविद्यानुष्ठानसम्भवात् कुतोऽनधिकारशङ्केति चेत् उच्यते– ‘वसूनामेवैको भूत्वे’त्यादिना वसुत्वादिप्राप्तेः फलत्वकीर्तनेन मधुविद्यायां तत्क्रतुन्यायेन वस्वादीनामुपास्यत्वस्य अभ्युपगन्तव्यत्वात्। ‘अथ ततऊर्ध्वउदेत्ये’त्यतः प्राक् आदित्यवस्वादिकार्यविशेषावस्थं" ब्रह्मोपास्यमुपदिश्यते। ‘अथ तत ऊर्ध्वउदेत्ये’त्यादिना आदित्यान्तरात्मतयाऽवस्थितं कारणावस्थं" ब्रह्मोपास्यमुपदिश्यत इति कार्यावस्थोपासनदशायां आदित्यवत् वस्वादीनां च तुल्यत्वस्य भाषितत्वाच्च। मधुविद्याया आदित्योपासनत्वपंचामृतोपासनत्वरूपाकारत्रयवत्वान्न पूर्वपक्षोत्थित्यनुपपत्तिरिति द्रष्टव्यम्। ननु वस्ववस्थस्य ब्रह्मण उपास्यत्वसम्भवेऽपि ‘तद्वसव उपजीवन्ती’ति निर्दिष्टमुपजीवितृत्वलक्षणं" भोक्तृत्वं न ब्रह्मणस्सम्भवतीति चेन्न। उपजीवितूत्वस्यापि सद्वारकतया तत्र सम्भवात्। नन्वेवं" ‘तद्वसव उपजीवंती’त्यत्र वसुशब्दस्य तदन्तर्यामिपरत्वे ‘वसूनामेवैको भूत्वे’त्यत्रापि वसुशब्दस्य ब्रह्मपरत्वं स्यात्। न च तद्युक्तम्। न हि उपासकस्य जीवस्य कल्पान्तरे वसुत्वप्राप्तिलक्षणसंसारदशायां" वस्वाद्यवस्थब्रह्मभावोक्तिस्शङ्गच्छत इति चेन्न। ‘वसूनामेवैको भूत्वे’त्यत्र यथाश्रुते बाधकाभावेन ब्रह्मपरत्वे बाधकसम्भवेन च यथाश्रतार्थस्यैवोपपन्नत्वादित्यलमतिचर्चया॥ ॥ इति मध्वधिकरणम्॥