॥तदुपर्यपि बादरायणस्संभवात्॥ मनुष्याधिकारप्रसङ्गात् देवानां ब्रह्मविद्यायामधिकारोऽस्ति नवेति प्रासङ्गिकी सङ्घतिः। ननु वस्वादिदेवतानां" नानाविग्रहाभावेन उपासनसामर्थ्याभावात् कथमुपासनाधिकारः। न हि देवादीनां शीररवत्त्वे प्रमाणमुपलभ्यते। न तावत् प्रत्यक्षानुमाने। तस्य तदगोचरत्वात्। नापि ‘वज्रहस्तः पुरन्दरः, तेनेन्द्रो वज्रमुदयच्छ’दित्यादीनां" तात्पर्याभावेन तात्पर्याविषये शब्दस्याप्रामाण्यात्। अन्यथा श्वेतवर्णरजककर्तृकवस्त्रशोधनतात्पर्येण प्रयुक्तस्य ‘श्वेतो धावती’त्यस्य शुनकसमीपगमनप्रतीत्युत्पादकत्वसम्भवमात्रेण तत्रापि प्रामाण्यप्रसङ्गात्। ननु रेवत्याधारवारवन्तीयसामसाध्याग्निष्टोमस्तोत्रविशिष्टक्रतुविधायके ‘रेवतीषु वारवन्तीयमग्निष्टोमसामकृत्वा पशुकामो ह्येतेन यजेते’ति वाक्ये ‘रेवतीषु वारवन्तीय’ मित्यंशस्य ‘रेवतीर्नस्सधमाद’ इति ऋक्रयाधारवारवन्तीयसामरूपे अग्निष्टोमस्तोत्र विशेषेण तात्पर्याभावेऽपि प्रामाण्यं दृष्टम्। नहि तद्विशेषणं ‘सोमेन यजेते’त्यादिविशिष्टविधिषु सोमलतादिविशेषणवल्लोकसिद्धम्। नापि विधिसिद्धम्। ‘कवतीषु रथन्तरं गाये’दिति विधिवत् ‘रेवतीषु वारवन्तीयं" गाये’दिति विध्यदर्शनात्। नच अस्यैव विशिष्टगोचरस्य विधेर्विशेषणविधावपि तात्पर्यं वक्तुं शक्यम्। विध्यावृत्तिप्रसङ्गात्। नच आक्षेपाद्विशेषणप्रसिद्धिः, विशेषणप्रसिद्धौ सत्यां विशिष्टविधिः विशिष्टविधिनैव विशेषणस्य आक्षेप इति परस्पराश्रयापत्तेः। तस्माद्विशिष्टविधेर्विशेषणस्वरूपे तात्पर्याभावेऽपि ‘रेवतीषु वारवन्तीय’मिति पदद्वयसमभिव्याहारस्यैव प्रामाण्यमभ्युपगन्तव्यमिति चेन्मैवम्। ‘रेवतीषु वारवन्तीय’मिति पदद्वयसमभिव्याहाराभ्यां रेवत्याधारवारवन्तीयप्रतीतिमुपजीव्य प्रवृत्तेन विशिष्टविधिना आक्षिप्तस्य ‘रेवतीषु वारवन्तीयं कुर्यादि’ति विशेषणविधेरेव तत्र प्रमाणत्वेन ‘रेवतीषु वारवन्तीय’मिति पदद्वयसमभिव्याहारस्य अप्रमाणत्वात्। इयांस्तु विशेषः। सोमलतादिविशेषणं मानान्तरसिद्धं सोमपदात् प्रतीयते, इह तु मानान्तरासिद्धमेव पदसमभिव्याहारात् प्रतीयत इति। प्रतीयमानेऽपि विशेषणे विशिष्टविधेः" प्रामाण्याभाव उभयत्राप्यविशिष्टः। ततश्च यथा सोमप्रत्यायकं सोमपदं न सोमस्वरूपे प्रमाणम्। एवं" ‘रेवतीषु वारवन्तीय’मिति पदद्वयसमभिव्याहारो रेवतीषु वारवंतीयरूपविशेषणस्वरूपस्य अर्थप्रत्यायकोऽपि न तत्र प्रमाणम्। अयञ्चापरो विशेषः। सोमलताद्रव्यस्य लोकसिद्धत्वात् तत्र यागसम्बन्धित्वेनैव विधिः" कल्प्यः, इहतु विशेषणस्वरूपस्यापि मानांतरासिद्धत्वात्, प्रतीयमानत्वेऽपि तस्मिन्विशिष्टविधेः" प्रामाण्याभावाच्च, तत्सिध्यर्थं स्वरूपे स्तोत्रविशेषसंबन्धित्वे च विधिद्वयं कल्प्यमिति। तस्मात् मन्त्रार्थवादानां स्वार्थे तात्पर्याभावान्न तेभ्योदेवताविग्रहसिद्धिः। ननु मन्त्रार्थवादानां" विध्येकवाक्यतापन्नानां स्वार्थे तात्पर्यं सम्भवत्येव। दर्शपूर्णमासादिप्रधानविध्येकतापन्नप्रयाजादिविधिवदिति चेत्सत्यम्। मानांतराविरोधे प्रतीयमानार्थे तात्पर्यं सम्भवति, नतु तद्विरुद्धे। अन्यथा ‘यजमानः" प्रस्तर’ इत्यत्रापि प्रतीयमानाभेदतात्पर्याप्रसङ्गात्। अस्तिच मन्त्रार्थवादवशेन देवताविग्रहाभ्युपगमे मानांतरविरोधः। देवताविग्रहे न तात्पर्यं सम्भवति। अतोविग्रहाभावादुपासनास्वनधिकारइति पूर्वपक्षे प्राप्त उच्यते- तदुपर्यपि वादरायणस्संभवात्। तत् ब्रह्मोपासनं उपरि मनुष्याणामुपरि देवादिष्वपि सम्भवतीतिह भगवान् बादरायणोमन्यते। तेषामप्यर्थित्वसामर्थ्यास्संभवात्। अर्थित्वं तावत् आध्यात्मिकादिदुर्विषहदुःस्वाभितापात्, परस्मिन् ब्रह्मणि च निरस्तनिखिलदोषगन्धानवधिकातिशयासंख्ये कल्याणगुणगणे निरतिशयभोग्यत्वादिज्ञानाच्च सम्भवति। सामर्थ्यमपि पटुतरदेहेन्द्रियादिमत्त्वेन सम्भवति। पटुतरदेरेन्द्रियादिमत्त्व़ञ्च सृष्टिवाक्येषु देवतिर्यङ्मनुष्यस्थावरात्मना चतुर्विधसृष्ठ्याम्नानात् सिद्धम्। देवादिभेदश्च तत्तत्कर्मानुगुणब्रह्मलोकप्रभृतिचतुर्धशलोकस्थभोगयोग्यदेहेन्द्रियादियोगायत्तः, तथा ‘देवत्वं गच्छन्ति यएताउपयन्ती’ति देवत्वप्राप्त्यर्थक्रतुविध्यन्यथानुपपत्तयाऽपि देवताविग्रहवत्त्वसिद्धिः। ज्योतिष्टोमादिविध्यन्यथाऽनुपपत्त्या देशांतरदेहांतरभोग्यैहिकसुखदुःखविलक्षणस्वर्गशब्दोक्तसुखरूप तत्फलभोक्तृकर्मदेवसिद्धेरभ्युपगतत्वात् देवतासायुज्यसालोक्यादिफलकर्मविध्यन्यथानुपपत्त्या देवताविग्रहाणां" तद्भोग्यभोगोपकरणानामभ्युपगन्तव्यत्वाच्च॥॥ विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात्॥ नन्वेवं देवताविग्रहाभ्युपगमे कर्मणि विरोधः प्रसज्यते। बहुषु यागेषु युगपदेकस्येन्द्रस्य विग्रहवतः" ‘अग्निमग्नआवह, इन्द्रआगच्छ इरि व आगच्छे’त्यादिना आहूतस्य सन्निधानानुपपत्तेः विरोधः प्रसज्यतइति चेत्तन्न। अनेकप्रतिपत्तेर्दर्शनात्। दृश्यतेहि सौभरिप्रभृतीनां शक्तिमतां युगपदनेकशरीरप्रतिपत्तिः॥॥शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्यां॥ माभूत्कर्मणि विरोधः, वैदिकेतु शब्दे विरोधः प्रसज्यते। देवताविग्रहाभ्युपगमे हि विग्रहस्य सावयवत्वेन अनित्यत्वात् इन्द्रादेरर्थस्य विनाशादूर्ध्वं प्रागुत्पत्तेश्च तदर्थवाचिवैदिकशब्दानां सत्त्वे शब्दस्य अर्थेनौत्पत्तिकस्संबन्धोनस्यात्। शब्दस्वरूपस्यापि नाशे अनित्यत्वं स्यात्। ततश्च ‘औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः’ इति सूत्रप्रतिपादितं शब्दार्थसंबन्धानां नित्यत्वं विरुध्येतेति चेन्न। ‘वेदेन नामरूपे व्याकरोत् सतासती प्रजापतिः। नामरूपञ्च भूतानां कृत्यानाञ्च प्रपञ्चनं। वेदशब्देभ्यएवादौ देवादीनांचकारस’ इति प्रत्याक्षानुमानशब्दिताभ्यां श्रुतिस्मृतिभ्यां इन्द्राद्यर्थानां वेदप्रभवत्वावेदनात्। यथा शिल्पिना शिल्पशास्त्रोदितानामरूपाद्यनुसन्धानपूर्वकं निर्मितं देवताप्रतिमादिकं पूर्वपूर्वसमानरूपं, एवमिन्द्राद्यर्थोऽपि वेदोक्तनामरूपानुसन्धानशालिना प्रजापतिना निर्मीयमाणः पूर्वपूर्वसमाननामरूपएव भवति। ततस्समानरूपाभिव्यंग्याकृतिवाचित्वादिन्द्रादिशब्दानां व्यक्तीनामनित्यत्वेऽपि जातिवाचिगवादिशब्दवत् इन्द्रादिशब्दानामपि जातिवाचितया नानित्यार्थसंयोगकृतो विरोध इत्यर्थः॥ननु ‘मंत्रकृतो वृणीते। संहिताकारपदकारसूत्रकारब्राह्मणकाराणां विश्वामित्रस्य सूक्तं भवती’ति मंत्रादीनां कार्यत्वश्रवणात् न वेदनित्यत्वमित्यत्राह– ॥अत एव च नित्यत्वम्॥ ‘अनादिनिधनाह्येषा वागुत्सृष्टा स्वयम्भुवा। आदौ वेदमयी दिव्या यतः सर्वाः प्रसूतय’ इति मंत्रकृत्त्वेन प्रसिद्धानामपि वसिष्ठविश्वामित्रादीनां वेदजन्यत्वाम्नानात् मंत्रकृत्त्वं न मंत्रकर्तृत्वमित्यवसीयते। अतो वेदनित्यत्वस्य नानुपपत्तिः॥नन्वेवमपि प्राकृतप्रलये शब्दस्य तदुपादानभूताहङ्कारादेश्च नष्टत्वात् कथं वेदनित्यत्वं, कथं वा सर्वेषां वेदशब्दप्रभवत्वं तत्राह– ॥समाननामरूपत्वाच्चावृत्तावप्यविरोधोदर्शनात्स्मृतेश्च॥ कृत्स्नोपसंहारे जगदुत्पत्त्यावृत्तावपि पूर्वोक्तसमानरूपत्वस्य तदवस्थत्वादेव न शब्दानित्यत्वम्। ‘सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्, यथर्थुष्वृतुलिंगानि नानारूपाणि पर्यये। दृश्यन्ते तानि तान्येव तथा भावायुगादिषु’ इति श्रुतिस्मृतिभ्यां तथैव प्रतिपादनात् एतस्य नित्यत्वमपौरुषेयत्वञ्च। इदमेव हि वेदस्य अपौरुषेयत्त्वं, यत्पूर्वपूर्वोच्चारणक्रमानुसन्धानसापेक्षोच्चारणक्रमवत्वं, तदिदानींतनवेदे सर्गाद्यवेदेऽपि समानम्। इयांस्तु विशेषः। भगवद्व्यतिरिक्तास्सर्वेऽपि पूर्वपूर्ववेदानुपूर्व्यनुभवजनित संस्कारवशेन पूर्वानुपूर्व्याः स्मृतत्वात्तयैवानुपूर्व्या वेदमुच्चारयति। इदमेव हि पौरुषेयप्रबन्धापेक्षया वेदस्य वैलक्षण्यं नित्यत्वञ्च। ननु चतुर्मुखकर्तृकावान्तरकल्पसृष्टिविषयतयाऽपि ‘धाता यथापूर्वमकल्पय’दित्यादि प्रमाणानामुपपत्तौ स्वतंत्रपरमात्मकर्तृकब्रह्मकल्पाद्यसमयप्रवृत्तेवेदचतुर्मुखादिसृष्टेः समानानुपुर्वीकत्वसमान नामरूपकृत्यत्वादौ किं प्रमाणमितिचेदुच्यते- चतुर्मुखादेः नामरूपकृत्यादीनि इतिहासपुराणादिभ्योऽवगम्य एतादृशनामरूपकृत्यविशिष्टश्चतुर्मुखोभवानीत्येवंरूपसङ्कल्पपूर्वकं भगवन्तमाराध्य तत्तत्पदं प्राप्नुवन्तीति हि शास्त्रप्रसिद्धिः। यदि कल्पान्ते उत्पाद्यमानश्चतुर्मुखो विलक्षणनामरूपकृत्यस्स्यात्, तदा तस्य भगवदाराधकस्य वांछितार्थसिद्ध्यभावात् तदिष्टसाधनत्वावेदकशास्त्रस्य अप्रामाण्यमेव स्यात्, तत्तत्पदाभिलाषिणः कस्यापि प्रवृत्तिर्नस्यात्। अतः प्राकृतसृष्ट्यावृत्तावपि यथापूर्वमेव सृष्टिरिति निष्कर्षः। ननु अग्निलोकवर्तिनामर्चिराद्यनतिवाह्यानां अर्चिराद्यातिवाहिकचंतनरूपाह्गासम्भवात् तदङ्गत्वस्य च ‘तच्छेषगत्यनुस्मृतियोगाच्च,योगिनः प्रति स्मर्येते स्मार्तेचैते’इत्यादिषु आविष्कृतत्वात् तदङ्गहीनानां देवानां कथमङ्गिभूतब्रह्मविद्यायामधिकार इति चेन्न। आतिवाहिकचिंतनस्य दृष्टार्थतया तल्लोकवर्तिनां तदूर्ध्वलोकवर्त्यादिवाहिकचिन्तनेनैव साद्गुण्योपपत्तेः। मृतयजमानकेष्टिकर्मणि सूक्तवाके यजमानस्य आयुराशासनाद्यभावात्, अनपेक्षितायुराशासनाद्यंशं विहाय अपेक्षितांशपाठस्यांगीकृतत्वात्, तद्वदिहाप्यनपेक्षितातिवाहिकांशत्यागेन अपेक्षितस्वस्वलोकोर्ध्ववर्त्यातिवाहिकानामेव चिन्तनीयत्वोपपत्तेः। ननु ‘तदुपर्यपि बादरायणस्सम्भवात्’। ‘मध्वादिष्वसम्भवादनधिकार’मित्यधिकरणद्वयेन किं प्रयोजनं, देवतानां देवताविशेषाणाञ्च अर्थित्वसामर्थ्यनिर्णयस्य मनुष्याणां प्रवृत्तिविशेषानौपयिकत्वात्। नच देवानामधिकरणद्वयेन किञ्चिदस्ति प्रयोजनम्। तेषां स्वकीयपटुतरदेहादिमत्त्वे अर्थित्वसम्भवनिर्णये च अधिकरणन्यायानपेक्षणादितिचेदुच्यते- परंब्रह्म देवानां वस्वादिदेवताविशेषाणाञ्च उपास्यं फलप्रदंचेति ईदृशमहिमविशिष्टतया उपासनकाले अनुसन्धेयत्वसिद्धिलक्षणप्रयोजनसद्भावात्। देवताविग्रहासिद्धौ मधुविद्यायां" देवतापदप्राप्तिः फलमित्यपि न भवेत्। गत्यनुस्मृतौ अचेतनानां अर्चिरादीनामेव मार्गपर्वत्वेन चिन्तनीयता स्यात्, नातिवाहिकदेवतानाम्। तथा ‘भाक्तं वाऽनाम्वित्त्वा’दिति सूत्रोक्तन्यायेन ज्योतिष्टोमादिकर्मफलं" भुञ्जानानां ‘तं देवाभक्षयन्ती’ति निरन्तराजानदेवकर्मकरभावावगत्या वैराग्यं न सिध्येत्। प्राप्तिविरोधयोरसतोः" मंत्रार्थवादानां प्रतीयमानेऽर्थे प्रामाण्यमस्तीति व्युत्पादनेन ‘प्लुवाह्येते अदृढा यज्ञरूपाः, एतत्तृतीयं स्थान’मित्यादिमंत्रार्थवादैः वैराग्यसिद्धिरित्यादिप्रयोजनानि द्रष्टव्यानि॥ ॥इति देवताधिकरणम्॥