23 प्रमिताधिकरणम्

॥शब्दादेव प्रमितः॥ पूर्वत्र अणीयस्त्वरूपमल्पपरिमाणं परस्मिन्नुपपादितम्। इदानीमंपुरुषो मद्ध्यात्मनि तिष्ठति। ईशानो भूतभव्यस्य न ततो विजुगुप्सते’। कालत्रयवर्तिनिखिलचेतनाचेतनेश्वरः पुरुषः उपासकशरीरमध्ये अंगुष्ठपरिमाणस्सन्नास्ते। ततो भूतभव्येशानत्वादेव वात्सल्यातिशयाद्देहगतानपि दोषान् भोग्यतया पश्यतीत्यर्थः। ननु अयं मंत्रो जीवपर एव ‘प्राणाधिपस्सञ्चरति स्वकर्मभिरंगुष्ठमात्रो रवितुल्यरूपः’। ‘अंगुष्ठमात्रं पुरुषं निश्चकर्षयमो बला’दित्यादिश्रुतिस्मृतिषु अंगुष्ठमात्रत्वेन जीवस्यैव प्रतिपादनात्। न च तस्य भूतभव्येशानत्वानुपपत्तिः। प्रथमश्रुतजीवलिंगानुरोधेन चरमश्रुतभूतभव्येशानत्वस्य आपेक्षिकतया योजायितुं शक्यत्वादिति चेन्न। हृदयावच्छेदनिबन्धनांगुष्ठपरिमाणस्य परमात्मन्यपि सम्भवात् ‘अंगुष्ठमात्रः पुरुषोऽङ्गुष्ठञ्च समाश्रित’ इति तैत्तिरीयके ‘अंगुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्ट’ इति श्वेताश्वतरे च अंगुष्ठमात्रत्वस्य परमात्मन्यपि श्रवणात्, पूर्वलिङ्गसाधारणत्वेन अनिर्णायकत्वात्, असंकुचितभूतभूव्येशितृत्वस्यानन्यथासिद्धब्रह्मलिंगत्वात् अयं परमात्मैवेति सिद्धान्तः॥ननु कथं तर्हि परमात्मनोऽङ्गुष्ठप्रमितत्वं तत्राह- ॥हृद्यपेक्षया तु मनुष्याधिकारत्वात्॥ हृदि हृदये परमात्मनोवर्तमानत्वात्तदपेक्षयांऽगुष्ठमात्रत्वमुपपद्यते। नच खरतुरगादीनामंगुष्ठशून्यानां" हृदयस्यांगुष्ठप्रमितत्वाभावात् तदंतर्वर्तिनः परमात्मनः कथमंगुष्ठमात्रत्वमिति वाच्यम्। उपासनाविधायिशास्त्रस्य मनुष्याधिकारत्वात् तेषामंगुष्ठसम्भवात् हृदयवर्तिनः परमात्मनोऽप्यंगुष्ठसमपरिमाणहृदायवच्छेदनिबन्धनांगुष्ठप्रमितत्वे नानुपपत्तिः। यत्तवत्र कैश्चिदुच्यते। अंगुष्ठमात्रत्वं जीवलिंगमेव, अथापि ‘अंगुष्ठमात्रः पुरुषोमध्यआत्मनितिष्ठती’ति पूर्वार्धेन जीवमनूद्य ‘ईशानोभूतभव्यस्ये’त्यनेन परमात्मभावो विधीयतइति तदसमञ्जसं। तथाहिसति परमात्मन्यंगुष्ठमात्रत्वसम्भावनाप्रदर्शकस्य ‘हृद्यपेक्षये’ति सूत्रस्यासङ्गतिप्रसङ्गात्। ननु अस्मिन् मन्त्रे न जीवानुवादेन ब्रह्मभावो विधीयते। आराग्रमात्रतया प्रतिपन्नस्य जीवस्य अंगुष्ठमात्रत्वे प्रमाणाभावादिति तटस्थङ्कापरिहारार्थं जीवस्यांगुष्ठमात्रत्वसाधनाय प्रवृत्तमिदं सूत्रमितिचेन्न। पूर्वपक्षयुक्त्यनिरासकस्य सिद्धान्तहेत्वप्रतिपादकस्य तदनुपष्टम्भकस्य वा केवलपटस्थशङ्कापरिहारकस्य गुणसूत्रत्वसाधनाय प्रवृत्तमिदं सूत्रमितिचेन्न। पूर्वपक्षयुक्त्यनिरासकस्य सिद्धान्तहेत्वप्रतिपादकस्य तदनुपष्टम्भकस्य वा केवलतटस्थशङ्कापरिहारकस्य गुणसूत्रत्वायोगात्। ननु ‘ईश्वरश्शर्वईशान’इति निघंटुपाठेन ईशानशब्दस्य देवताविशेषे रूढत्वात् ‘शब्दादेव प्रमित’ इति सूत्रे ‘ईशानोभूतभव्यस्ये’ति शब्दादेव नतु भूतभव्यस्येशितृत्वं कर्मवश्यस्य जीवस्य उपपद्यत इति भाष्यं व्याकुर्वद्भिर्व्यासार्यैः ‘ईशानशब्दस्यैव शब्दशब्देन विवक्षितत्वान्नात्र सिंगान्निर्णयः। किंत्वीश्वरवाचिशब्दादेवेत्येवकाराभिप्राय’ इति व्याख्यातत्वात्, ईशानशब्दस्य श्रुतित्वाभ्युपगमात्, तयैव ईशानशब्दश्रुत्या जीवव्यावृत्तिवदेव नारायणस्यापि व्यावर्तितत्वेन रूद्रपरत्वमेव स्यादिति चेन्न। योगरूढिमतः पदस्य सन्निधौ अवयवार्थविशेषकपदान्तरसन्निधाने रूढ्यनुन्मेषस्य ‘पद्मानि यस्याग्रसरोरुहाणि प्रबोधयन्त्यूर्ध्वमुखैर्मयूखै’रित्यादिषु दर्शनात्। तत्र हि सरोरुहपदावयवार्थसरोविशेषकाग्रपदोपादानेन सरोरुहपदरूढिभङ्गस्य दर्शनात्। इतरथा ‘पद्मानी’ति पदानुपादानापत्तेः। अत्रो न श्रुतित्वमिति किंचिदेतत्॥॥कम्पनात्॥ ‘यदिदं किञ्च जगत्सर्वं प्राणएजति निस्सृतम्। महद्भयं वज्रमुद्यत’मिति समस्तप्राणिकंपनेन भयहेतुत्वस्य अस्मिन्नंगुष्ठप्रमिते आम्नानात् तस्य च परमात्मधर्मत्वस्य ‘भीषाऽस्माद्वातःपवत’ इत्यादिश्रुतिप्रतिपन्नत्वात् अंगुष्ठप्रमितः परमात्मा॥॥ज्योतिर्दर्शनात्॥ ‘न तत्र सूर्यो भाति न चन्द्रतारक’मिति अंगुष्ठप्रमिते सकलतेज आच्छादकज्योतिस्सम्बन्धस्य आथर्वणे ब्रह्मसंबन्धितया प्रतिपादितत्वात् अंगुष्ठप्रमितः परमात्मा। अतएतन्मन्त्रप्रतिपाद्यमानः अंगुष्ठप्रमित ईश्वर एवेति सिद्धम्॥ (इति प्रमिताधिकरणशेषः॥)