22 दहराधिकरणम्

॥दहर उत्तरेभ्यः॥ पूर्वाधिकरणे ‘परात्परं पुरिशयं पुरुषंमीक्षत’ इत्युक्तस्य पुरिशयस्य परमात्मत्वं समर्थितं, इहापि तथैव पुरिशयस्य परमात्मत्वं समर्थ्यत इति सङ्गतिः। छान्दोग्ये-‘अथ यदिदमस्मिन् ब्रह्मपुरे दहरं" पुण्डरीकं वेश्मदहरोऽस्मिन्नन्तर आकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वा विजिज्ञासितव्यमि’ति। विद्यान्तरारन्भनिदर्शनार्थोऽयमथशब्दः। उपास्यतया सन्निहितस्य परब्रह्मणः स्थानतया नवद्वारादिमत्तवेन च पुरशब्दिते असम्न् शरीरे पुण्डरीकाकारमल्पं हृदयाख्यं परस्य ब्रह्मणो वेश्मेत्यर्थः। अस्मिन् वेश्मनि अन्तः दहरः सूक्ष्मः आकाशः। अत्र ‘य’ इति पुल्लिङ्गयच्छब्दोऽध्याहर्तव्यः। ‘तस्मिन् यदन्त’रित्यत्र अन्तश्शब्दोऽन्तर्वर्तिपरः। चशब्दश्चाध्याहर्तव्यः। ततश्चायमर्थः- अस्मिन् दहरपुण्डरीके यो दहर आकाशः तदन्तर्वर्ति च यत् तदुभयं श्रुममननाभ्यामवगन्तव्यम्, ध्यातव्यञ्चेति। ‘तदन्वेष्टव्य’ मित्यत्र तदिति नपुंसकलिङ्गनिर्देशो लिङ्गसामान्यविवक्षया द्रष्टव्यः। यद्वा-न पुल्लिङ्गयच्छब्दोऽध्याहर्तव्यः। अस्मिन् दहराकाशः तदन्तर्वर्ति च यदिति यच्छब्देनैव ‘नपुंसकमनपुंसकेने’ति कृतनपुंसकैकशेषवद्भावेन एकेनैव नपुंसकलिंगेन द्वयोरपि परामर्शसम्भवात्। तच्छब्देऽपि नपुंसकैकशेषसम्भवादेकेनैव तच्छब्देन द्वयोरपि परामर्शः। ततश्च अनेन वाक्येन दहराकाशः तदन्तर्वर्तिचान्वेष्टव्यमित्युक्तं भवति। अत्र च आकाशशब्दः आसमन्तात्काशते प्रकाशत इति व्युत्पत्या परमात्मपरः। तत्र च हेतुरुत्तरत्र वक्ष्यते। नच तदन्तर्वर्तिन एव अन्वेष्टव्यत्वे प्रतीयमाने दहराकाशस्याप्यन्वेष्टव्यता किमर्थं वक्तव्या। किञ्च ‘विश्वजित्सर्वपृष्ठोऽतिरात्रो भवती’त्यत्र पृष्ठगतसर्वताविध्याक्षिप्तपृष्ठविधिवत् दहराकाशान्तर्वर्तित्वेन गुणजातोपासनस्य तदुपासनमन्तरेणासम्भवात्, आक्षेपादेव दहरोपासनस्यापि सिद्धतया यत्तच्छब्दयोर्नपुंसकैकशेषवद्भावचशब्दाध्याहारक्लेशानुभवो व्यर्थ इति वाच्यम्। ‘अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्काम’ नित्यौपसंहारिकोभयोपासनापरवाक्यशेषानुसारेणक्लेशस्य अनुभोक्तव्यत्वात्। नच तदेव वाक्यमुभयोपासनाविधिपरमस्त्विति वाच्यम्। प्रकमस्थं विस्पष्टतव्यप्रत्यययुक्तं" वाक्यं विहाय औपसंहारिकस्य विस्पष्टविधिप्रत्ययशून्यस्य यच्छब्दयुक्तस्य विधित्वकल्पनानौचित्यात्। तस्य विधित्वकल्पनायामपि अनुवादरूपस्याप्यस्य वाक्यस्य तदनुसारेण अर्थद्वयोपासनपरत्वस्य आश्रयणीयतया एकशेषादिक्लेशस्याश्रयणीयत्वादिति। इतिशब्दो वाक्यसमाप्तौ। अथवा इतीत्यस्यानन्तरं आचार्यो ब्रूयादित्यद्ध्याहारः। ‘तञ्चेद्ब्रूयुर्यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशः किं तदत्र विद्यते यदन्वेष्टव्य’ मित्यादि। एवमुक्तवन्तमाचार्यं स्वल्पहृदयमध्यवर्तितया अतिस्वल्पे किं वा वर्तितुमर्हति यदन्वेष्टव्य स्यादिति दहराकाशशब्दितस्य ब्रह्मत्वं तदन्तर्वर्तितया निर्दिष्टस्य तद्गुणजातत्वञ्चाजानानाशिशष्या यदि ब्रूयुरित्यर्थः। ‘सब्रूयाद्यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि’। एवमुक्तस्य आचार्यः प्रतिब्रूयात्। किमिति? हृदयपुण्डरीकमध्यवर्ती आकाशशब्दनिर्दिष्टः भूताकाशवद्विपुलः। द्यावापृथिव्यादिशब्दलक्षितं भोग्यभोगस्थानभोगोपकरणं अग्निसूर्यादिशब्दलक्षितो भोक्तृवर्गश्च तदाश्रितइत्यर्थः। ‘यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन् समाहित’मिति। अस्य उपासकस्य इह लोके यद्भोग्यजातमस्ति, यच्च मनोरथमात्रगोचरमिह नास्ति, सर्वं तद्भोग्यजातमस्मिन् दहराकाशे समाहितमित्यर्थः। दहराकाशो निरतियभोग्य इति यावत्। ननु ‘यच्चास्येहास्ती’ति वाक्येन उपासकभोग्यवस्त्वाधारत्वमात्रं प्रतीयते, नतु दहराकाशस्य निरतिशयभोग्यत्वं, ‘अस्मिन् समाहित’ मित्याधारत्वश्रवणात्। नच उपासकस्य ब्रह्मप्राप्त्येकफलस्य स्वर्गपश्वादीनां भोग्यत्वाभावात्, ‘यच्चास्येहास्ती’ति वाक्ये दहराकाशस्य निरतिशयभोग्यत्वमेव प्रतिपाद्यइति वाच्यं। ‘सयदि पितृलोककामोभवती’त्यादिना प्राचीनानेकजन्मसंबन्धिपित्रादिवर्गदिदृक्षयासङ्कल्पमात्रेण तत्स्रष्टृत्वस्य च प्रतिपादयिष्यमाणत्वात्, सूत्रकृताऽपि ‘सङ्कल्पादेवतच्छ्रुते’रिति सूत्रेण तद्वाक्यस्य विवक्षितार्थत्वाविष्करणात्, ‘योयोह्यस्येतःप्रैति न तमिह दर्शनाय लभते अथ येचास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्नलभते सर्वं तदत्र गत्वा विन्दत’ इति नष्टपित्रादीनां मुक्तकामनाविषयत्वप्रतिपादनात्, ‘प्रत्यक्षोपदेशान्नेतिचेन्नाधिकारिकमण्डलस्थोक्ते’रिति सूत्रोक्तन्यायेन ब्रह्मविभूतितया नष्टपित्राद्यनुभवस्य कामनाविषयत्वसम्भवाच्च। अन्यथा ‘अस्मिन्कामास्समाहिताः’ ‘एतांश्च सत्यान्कामा’ नित्यादावपि कामशब्दस्य निरतिशयभोग्यार्थकत्वं को वारयेत्। ततश्च ‘जक्षत्क्रीड’न्नित्यत्रापि भोग्यत्वार्थकत्वं स्यादिति परो विजयेत। न चेष्टापत्तिः, ‘निरतिशयभोग्यत्वं दहराकाशस्याभिधाये’ति भाष्यविरोधादिति चेन्न। भाष्यस्य भोग्यवस्त्वाधारत्वफलितभोग्यत्वपरत्वे बाधकाभावात्। अत्र भूताकाशतुल्यवैपुल्यप्रतिपादनेन द्यावापृथिव्यादिजगदाश्रयत्वप्रतिपादनेन उपासकं प्रति निरतिशयभोग्यत्वप्रतिपादनेन च दहराकाशस्य प्रसिद्धाकाशवैलक्षण्यप्रतिपादनात् स्वल्पे दहराकाशे किमपि मातुं न शक्नोतीत्याक्षेपबीजं परिहृतं भवति। ‘तञ्चेद्ब्रूयुरस्मिंश्चेदिदं ब्रह्मपुरे सर्वं समाहितं सर्वाणि च भूतानि सर्वे च कामा यदैनज्जरावाप्नोति प्रध्वंसते वा किं ततोऽतिशिष्यत इति’। अल्पत्वरूपमाक्षेपबीजं परिहृत्य ‘किं तदत्र विद्यत’ इति प्रश्नं प्रतिविवक्षत्येवाचार्ये उक्तेऽर्थे अनुपपत्तिं पश्यन्तश्शिष्याः यद्याचार्यं ब्रूयुः। किमिति? ब्रह्मपुरशब्दितं शरीरं" द्यावापृथिव्यादिशब्दनिर्दिष्टभोगोपकरणभोगस्थानानि अग्निवाय्वादिशब्दनिर्दिष्टो भक्तृवर्गश्च यद्याश्रयेयुः, तदा शरीरस्य जरानाशादौ सति द्यावापृथिव्यादिकं किमपि नावशिष्यते। तदपि नश्येदित्यर्थः। ननु दहराकाशाश्रितं" द्यावापृथिव्यादिकमिति वदन्तंप्रत्यस्याश्शङ्कायाः कथं उत्थानम्। दहराकाशाश्रितत्वस्यैवोक्तत्वात् ब्रह्मपुरशब्दितशरीराश्रितत्वस्यानुक्ततया तजजरानाशानुविधायि जरानाशवत्त्वस्य दहराकाशाश्रिते द्यावापृथिव्यादौ कथं प्रसक्तिरिति चेन्न। यावद्देहस्य भारधारणानुकूलं बलं तावत्पर्यन्तमेव दहराकाशस्य तद्धारकत्वमित्याक्षिपतां" शिष्याणामभिप्रायः। ‘स ब्रूयात्’। आचार्यस्तत्प्रतीवक्ति- ‘नास्य जरयैतज्जीर्यति न वधेनास्य हन्यत एतत्सत्यं ब्रह्मपुरं, भोग्यभोगस्थानभोगोपकरणवर्गादिशालितया पुरमिव वर्तमानं दहराख्यं ब्रह्म, नतु घटादिवत् केवलमवकाशात्मना उपकारकमित्यर्थः। ननु स्वतोधारकत्वेऽपि देहान्तर्वर्तितया तदन्तर्गतहृदयवत् तज्जरानाशानुविधायिजरानाशत्वं स्यादिति शङ्काबीजं परिहरति-‘एतत्सत्य’मिति। सत्यं=निर्विकारमित्यर्थः। अतएव देहजरामरणानुविधायि न भवतीत्यर्थः। एवं मध्ये प्रसक्तमाक्षेपं परिहृत्य ‘किं तदत्र विद्यत’ इति अन्तर्वर्तिविशेषजिज्ञासां शमयति- ‘अस्मिन्कामास्समाहिताः’। काम्यन्त इति कामाः कल्याणगुणाः। को दहराकाशः, सच कैः कामैर्विशिष्टइत्याकांक्षायामाह- ‘एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पः’। एष दहराकाशरूप आत्मा पापजरामरणशोकबूभूक्षापिपासावर्जितस्सत्यकामस्सत्यसङ्कल्पश्चेत्यर्थः। परमात्मप्रकरणेषु पाप्मशब्दस्सुकृतदुष्कृतसाधारणः। ‘न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्त’इति सुकृतेऽपि पापशब्दप्रयोगात्। ‘एते वै निरयास्तात स्थानस्य परमात्मन’ इति स्वर्गादीनामपि मुमुक्ष्वनिष्टत्वेन स्वर्गादिसाधनकर्मणः मुमुक्षून् प्रत्यनिष्टत्वेन अलौकिकत्वे सत्यनिष्टसाधनत्वलक्षणपापशब्दप्रवृत्तिनिमित्त क्रोडीकृतत्वेन पापशब्दार्थत्वावश्यम्भावात्। अपहतपाप्मत्वञ्च न ध्वस्तपाप्मत्वम् ‘नैनं सेतुमहोरात्रे तरतो न जरा न मृत्यु र्न शोको न सुकृतं न दुष्कृत’मिति सुकृतदुष्कृतप्राप्त्यभावश्रवणात्। तस्मादपहतपाप्मत्वमश्लिष्टपाप्मत्वमित्यर्थः। अकृतकर्माश्लेष्टस्य सर्वसाधारणत्वात् कृतेऽपि कर्मणि तत्फलाश्लेष उच्यते। अतः ईश्वरकृतानि पुण्यपापजातीयानि कर्मणि न शुभाशुभफलजननशक्तानीत्यर्थः। कृते पापे तत्फलजननशक्तिप्रतिभटत्वलक्षणः कश्चिदीश्वरस्वभावविशेषः" अपहतपाप्मत्वम्। परिशुद्धात्मविषयस्यापहतपाप्मत्वस्याप्ययमेवार्थः। स तु तस्य तिरोधानार्हः प्रतिबन्धनिवृत्तावाविर्भवति, ईश्वरस्य तु तिरोधानानर्हो नित्याविर्भूत इति विशेषः। सत्यकामशब्दश्च न कामनायास्सत्यत्वपरः, अमोघाशत्वस्य सत्यसङ्कल्पशब्देनैव सिद्धत्वात्। नापि काम्यन्तइति व्युत्पत्त्या गुणमात्रपरः। कतिपयगुणान्तराणां" पृथगुक्तेः। अतो भोग्यभोगोपकरणभोगस्थानरूपाः नित्याः कामा अस्य सन्तीत्युच्यते। ‘तदक्षरे परमे व्योम’न्नित्युक्तनित्यविभूतिविशिष्टत्वमेव सत्यकामशब्दार्थः। ‘यथाह्येवेह प्रजा अन्वाविशन्ति यथानुशासनं यं यमन्तमभिकामा भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति’। कर्मणः फलापवर्गत्वात् फलमेव कर्मणोऽन्तः। इह अस्मिन् लोके प्रजाः यं यमन्तमभिकामा भवन्ति तं तमिह लोके प्रजा यथाऽन्वाविशन्ति, राजानमनुसृत्य लभन्ते, तथा परलोकेऽप्युपजीवंतीत्यर्थः। एवं कर्मसाध्ये परलोके पारतंत्र्यमुक्त्वा क्षयिष्णुत्वमप्याह- ‘तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते तद्य इहात्मानमननुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेष्वकामचारो भवति’। येत्वात्मानमपहतपाप्मत्वादींश्च काम्यमानान् कल्याणगुणानुपास्य परलोकं व्रजन्ति ते ब्रह्मविभूतिभूतान् विकारलोकाननुभूय यथाकामं" तृप्ता न पारतंत्र्यमनुभवन्तीत्यर्थः। ननु ‘अपहतपाप्मे’ त्यादिवाक्येषु अपहतपाप्मत्वादिधर्माणां" स्वातंत्र्येण अनुपस्थितानां कथं ‘एतानि’त्यनेन परामर्शः। न च गत्यभावात्तेषामेव परामर्शइति वाच्यम्। ‘यच्चास्येहास्ती’ति वाक्ये निर्दिष्टस्य ‘सर्वाणि च भूतानि सर्वे च कामा’ इति बहुवचनान्तकामशब्देन अनूदितस्य निरतिशयभोग्यत्वस्यैव ‘अस्मिन्कामास्समाहताः’ ‘एतांश्च सत्यान्कामानि’त्यत्रापि निर्देशोऽस्त्विति चेन्न। तथासति ‘अपहतपाप्मा विजर’ इत्याद्युपन्यासस्य वैयर्थ्यप्रसङ्गात्, ‘कामा’नित्यस्य भोग्यत्वपरत्वे बहुवचनासङ्गतेश्च, अपहतपाप्मत्वादय एव ‘एतांश्च सत्यान्कामा’निति कामशब्देन निर्देश्याः। भोग्यत्वहेतुपितृलोकादिविषयपरत्वे ‘सत्या’ इति कामानां नित्यत्वकथनस्य असम्भवादिति भावः। अत्र विचार्यते-‘किं दहराकाशः भूताकाशः" उत परमात्मेति। किं युक्तं। भूताकाश इति। आकाशशब्दस्य तत्रैव प्रिसिद्धेः, व्यापके परमात्मनि दहरत्वाभावाच्च, ‘तस्मिन् यदन्त’रिति अन्वेष्टव्यान्तराधारत्वनिर्देशाच्च। नहि परमात्मनः स्वयमेवान्वेष्टव्यस्य अन्वेष्टव्यान्तराधारत्वमस्ति। ‘यावान्वा अय’मित्यादिना निर्दिश्यमानस्य भूताकाशोपमेयत्वस्य ‘गगनं" गगनाकार’मित्यादि वत् अभेदेऽप्युपपत्तेः, निरतिशयविपुले परमात्मन्यपि परिच्छिन्नभूताकाशोपमेयत्वस्य अस्वारस्याच्च, भूताकाशो दहराकाश इति पूर्वपक्षे प्राप्त उच्यते- दहरउत्तरेभ्यः। दहराकाशः परमात्मा। वाक्यशेषगतभूताकाशोपमेयत्वसर्वाधारत्व निरतिशय भोग्यत्वनिरूपाधिकापहतपाप्मत्वादिगुणानां" परमात्मव्यतिरिक्ते भूताकाशे असंभवात्, परमात्मनोऽपहतपाप्मत्वादिलक्षणान्वेष्टव्यांतराधारत्वसम्भवाच्चथ। नच ‘गगनं गगनाकार’मितिवत् अभेदेऽपि उपमानोपमेयभावोऽस्त्वितिवाच्यम्। ‘गगनं गगनाकार’मित्यादौ अभेदे सादृश्यं निबध्यमानं अनन्वितत्वादनुपमत्वफलकं सत् अनन्वयालङ्काररूपम्। नचेहतथा सम्भवति, ‘यावान्वा अयमाकाश’ इति वाक्ये भूताकाशत्वहार्दाकाशत्वरूपोपमानोपमेयतावच्छेदकधर्मभेदसत्त्वेनानन्वयस्य असम्भवात्। उपमानोपमेयतावच्छेदकधर्मैक्ये हि अनन्वयालङ्कारः। यथा ‘गगनं गगनाकार’मित्यादौ। यच्चोक्तमतिविपुलस्य ब्रह्मणः परिच्छिन्नभूताकाशोपमेयत्वं न सम्भवतीति तन्न। अधिकजवेऽपि सवितरि ‘इषुवद्गच्छति सविते’ति गतिमांद्यनिवृत्तिपरवचनवत् स्वल्पत्वनिवृत्तिपरतया भूताकाशसादृश्यकथनस्योपपत्तेः॥॥गतिशब्दाभ्यां तथाहि दृष्टं लिंगञ्च॥ ‘तद्यथा हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि संचरन्तो नविदेयुरेवमेवेमास्सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकन्नविंदंति अनृतेन हि प्रत्यूढाः’। यथा अधस्तान्निक्षिप्तं हिरण्यनिधिं अक्षेत्रज्ञाः" निधिमत्क्षेत्रस्वभावविज्ञानहीनाः निधेः उपर्युपरि संचरन्तोपि निधिं न लभन्ते एवमेवेमास्सर्वाः" प्रजाः सुषुप्तिकाले अहरहर्गच्छन्त्यः सुषुप्तौ ‘सति सम्पद्य न विदु’रित्युक्तरीत्या अविभागं गच्छन्त्यः" एतं दहराकाशाख्यं ब्रह्मलोकं न विंदंति नलभन्ते-न जानन्ति। यथा हिरण्यनिधिं निहितं तत्स्थानमजानानाः" तदुपरि सर्वदा वर्तमानाअपि न लभन्ते तद्वदित्यर्थः। ब्रह्मलोकशब्दौ निषादस्थपतिन्यायेन समानाधिकरणौ। तत्र हेतुमाह- ‘अनृतेन हि प्रत्यूढा’इति। प्रतीपं नीताः स्वभावान्तरं प्राप्ताः। आच्छादिता इति यावत्। यद्वा ‘अहरहर्गच्छन्त्य’ इति न सुषुप्तिकालीनगमनमुच्यते, अपितु अन्तरीत्मत्वेन सदा वर्तमानस्य दहराकाशस्य परमपुरुषार्थभूतस्य उपर्युपर्यहरहर्गच्छन्त्यः सर्वस्मिन् काले वर्तमानः तमजानन्त्यः" तं नविंदन्ति नलभन्ते। सुषुप्तिकालीनगमनविषयत्वपूर्वव्याख्यायां ‘उपर्युपरी’त्यस्य दृष्टांतेऽन्वयो न दार्ष्टान्तिके। सुषुप्तिकाले एकीभावसद्भावेऽपि उपरिगमनाभावान्न तदन्तर्यामिविषयः। द्वितीयव्याख्यायांतु अन्तर्यामिण उपरि सर्वदा गतिसत्त्वात् ‘उपर्युपरी’त्यस्य दार्ष्टान्तिकेऽप्यन्वयो ज्ञेयः। ननु अन्तर्यामिणि अहरहर्गमनस्य दहराकाशपरब्रह्मत्वसाधकत्वमयुक्तम्, उपासकानुग्रहाय अवस्थितोहि दहराकाशः, अन्तरात्मत्या स्थितोह्यस्याधारः, तयोरूपभेदादिति चेन्न। धर्मैक्याभिप्रांयेण एवं व्याख्याने दोषाभावादिति। दहरविद्याप्रकरणगतैस्तद्वाक्यशेषावगतहेतुभिरपि दहराकाशोब्रह्मेति ज्ञातुं शक्यतइत्याह- ‘गतिशब्दाभ्यामि’ति। ‘तद्यथा हिरण्यनिधिं निहित’मिति अहरहस्सर्वेषां क्षेत्रज्ञानां गमनात् ब्रह्मलोकशब्दाच्च दहराकाशो ब्रह्मेत्यवसीयते। तथाह्यन्यत्र सुषुप्तिकालीनगमनब्रह्मलोकशब्दौ ब्रह्मविषयावेव दृष्टौ। ‘एवमेवेमास्सर्वाः" प्रजास्सति सम्पद्य नविदुः, एषब्रह्मलोकस्सम्राडिति होवाचे’ति। माभूदन्यत्र सुषुप्तिकाले ब्रह्मणि गमनदर्शनं, एतदेव तु दहराकाशे सर्वेषां क्षेत्रज्ञाणां प्रलयकालइव निरस्तनिखिलदुःखानां सुप्तिकालेऽवस्थानं" ब्रह्मव्यतिरिक्तेष्वसम्भावितं दहराकाशस्य परब्रह्मत्वे लिङ्गम्। अथवा ‘अहरहर्गच्छन्त्य’इति न सुषुप्तिकालीनं गमनमुच्यते। अपितु अन्तरात्मत्वेनावस्थितस्य दहराकाशस्योपरि तन्नियमितानां सर्वासां" प्रजानां सर्वदा गतिरस्य दहराकाशस्य परब्रह्मतां गमयति। तथाह्यन्यत्र परस्य ब्रह्मणोऽन्तरात्मतयाऽवस्थितस्य स्वनियाम्याभिः स्वस्मिन् वर्तमानाभिः प्रजाभिरवेदनं दृष्टम्। यथा अन्तर्यामिब्राह्मणे-‘य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मानवेदे’ति। ‘अदृष्टो द्रष्टा अश्रुतश्श्रोते’ति च। माभूदन्यत्र दर्शनं, स्वयमेवत्वियं निधिदृष्टान्तावगतपरमपुरुषार्थभावस्यास्य हृदयस्थस्योपरि तदाधारतयाऽहरहस्सर्वासां" प्रजानामजानतीनां गतिरस्य परब्रह्मत्वे पर्याप्तं लिङ्गमिति। सूत्रार्थश्च वर्णितः॥॥धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः॥ ‘अथ यआत्मा ससेतुर्विधृतिरेषां लोकानामसम्भेदाये’ति परब्रह्ममहिमत्वेन प्रसिद्धस्य जगद्विधरणमहिम्नः" दहराकाशे उपलभ्यमानत्वाद्दहराकाशः परंब्रह्मेति सूत्रार्थः। श्रूत्यर्थस्तु - उक्तलक्षणआत्मा सेतुरिव विधारकः। किमर्थः ससेतुर्विधृति रित्यत्राह- ‘एषां लोकाना’मिति। असम्भेदः असङ्करः। यद्ययं परमात्मा स्वशासनेन जगन्नधारयेत् सर्वधर्माणां सांकर्यमेव स्यात्, पृथिव्यागन्धवत्त्वं जलस्य शैत्यं तेजसऔष्ण्यमित्यादयोधर्माः" परमात्माज्ञया व्यवस्थितानभवन्ति। सिनोति बध्नाति स्वस्मिन् चिदचिद्वस्तुजातमसङ्कीर्णमिति सेतुरुच्यतइति॥यदुक्तं आकाशशब्दस्य भूताकाशे प्रसिद्धत्वादिति तत्राह- ॥प्रसिद्धेश्च॥ ‘यदेष आकाश आनन्दो न स्या’दित्यादौ परमात्मन्यप्याकाशशब्दस्य प्रसिद्धेः॥॥इतरपरामर्शात्सइति चेन्नासम्भवात्॥ एतदधिकरणचिंतोपयोगिवाक्यार्थः कथ्यते- ‘एषसम्प्रसादोऽस्माच्छरीरात्समुत्थाय परंज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’। अथशब्दः प्रकृतापेक्षत्वद्योतकः। सम्प्रसादशब्दस्सुषुप्तिस्थानवचनः। तत्संबन्धाज्जीवं लक्षयति। ‘अहरहर्वाएवंवि’दिति पूर्ववाक्ये निर्दिष्ट उसाकएषजीवः अतिहेयतया परिदृश्यमानत्वात् शरीरादुत्क्रम्य देशविशेषनिष्ठ परमात्मानं प्राप्य स्वेनरूपेणाभिनिष्पद्यते। ‘एष आत्मेतिहोवाचैतदमृतमभयमेतद्ब्रह्मे’ति। ‘एषआत्मा’ ‘एतदमृत’मित्येतच्छब्दः पूर्ववाक्ये ‘परंज्योतिरुपसम्पद्ये’ति प्राप्यतया निर्दिष्टपरंज्योतिश्शब्दितब्रह्मपरः। अव्यवहितपरंज्योतिश्शब्दितपरमात्मपरित्यागे कारणाभावात्। अन्यथा व्यवहित सम्प्रसाद शब्दित जीवपरिग्रहे तस्य निरुपाधिकात्मत्वनिरतिशयसुखरूपत्वामृतत्वलक्षणामृतत्वदुःखासंभिन्नत्वरूपाभयत्व ब्रह्मत्वविधानासम्भवाच्च। नच ‘स्वांदेवतामार्च्छ’दित्यत्र तच्छब्देन विभक्त्यैकरूप्यात् व्यवहित प्रजापतिपरामर्शवत् व्यवहितसंप्रसादग्रहणं" युक्तमिति वाच्यम्। तत्र ‘स’ इत्यनेन प्रजापतिपरामर्शे अश्वदानसंप्रदानत्वेन स्वीयां देवतामार्छदित्यर्थो युज्यते। वरुणपरामर्शे तु वरुणस्य आत्मीयाया देवतायाः प्रागप्रस्तुतत्वात् अर्थासङ्गत्या व्यवहितप्रजापतिपरामर्शः, नतु विभक्त्यैकरूप्यमात्रेणेति वैषम्यात्। यद्यपि ‘स्वेन रूपेणाभिनिष्पद्यत’ इति स्वरूपाविर्भावे कथिते आविर्भवत्स्वरूपं किमित्यपेक्षायां प्रजापतिवाक्ये ‘एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मे’ति निर्दिष्टं अमृताभयब्रह्मात्मशब्दनिर्दिष्टं मुक्तरूपमित्येतदर्थकेऽपि नानुपपत्तिः। तथाऽपि ‘तस्य हवा एतस्य ब्रह्मणो नाम सत्य’मित्युत्तरवाक्यनिर्देक्ष्यमाणचेतनाचेतननियन्तृत्व अर्थकसत्यानामत्वस्य मुक्तात्मन्यसम्भवात् न पूर्ववाक्यनिर्दिष्टो जीवः। अपितु प्राप्यं ब्रह्मैव। वस्तुतस्तु ‘एष आत्मेति होवाचे’त्येतावन्मात्रस्याविर्भूतस्वरूपपरत्वम्, ‘एतदमृतमभयमेतद्ब्रह्मे’त्यत्र तु एतच्छब्दस्य परंज्योतिश्शब्दितब्रह्मपरत्वमित्याश्रयणेऽपि नानुपपत्तिः। अत्र आसंक्यते। ‘एष संप्रसाद’ इति दहरविद्यामध्यस्थवाक्ये जीवप्रतिपादनदर्शनाद्दहराकाशोऽपि जीवएवास्तु। तस्य ‘यावान्वा अयमाकाश’ इत्यादिवाक्यसन्दर्भप्रतिपादितभूताकाशोपमेयत्वस्य भूताकाशे अनन्वयेन दहराकाशस्य भूताकाशत्वाभावेऽपि जीवे कथञ्चिन्निर्लेपत्वादिना भूताकाशोपमेयत्वसम्भवादणुपरिमाणे जीवे दहरशब्दिताल्पपरिमाणत्वस्यापि सम्भवाद्दहराकाशो जीवएवास्त्विति ‘इतरपरामर्शात्स इति चे’दिति सूत्रखण़्डेनाक्षिप्य ‘दहरा उत्तरेभ्यः’ ‘गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गञ्च’ ‘धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धे’रित सूत्रत्रयोक्तानां" परमात्मधर्माणां जीवे असम्भवान्नजीवो दहराकाशइति ‘नासम्भवा’दिति सूत्रखण्डेन परिहारः कृतः॥ननु ‘एषसंप्रसाद’ इति दहराविद्यामध्यस्थवाक्यपरामृष्टजीवस्य अपहतपाप्मत्वादिगुणयोग असम्भवान्न दहराकाशत्वमित्युक्तम्। उत्तरात् प्रजापतिवाक्याज्जीवस्यापि अपहतपाप्मत्वादिगुणयोग अवसायात् अपहृतपाप्मत्वादिगुणैर्दहराकाशः" परमात्मेति न शक्यं निर्णेतुमितिचेत्तत्राह- ॥उत्तराच्चेदाविर्भूतस्वरूपस्तु॥ पूर्वमनृततिरोहितापहतपाप्मत्वादिस्वस्वरूपः पश्चाद्विमुक्तकर्मबन्धः शरीरात्ससुत्थितः परंज्योतिरुपसंपन्नआविर्भूतस्वरूपस्सन्नपहतपाप्मत्वादिगुणविशिष्टस्तत्र प्रजापतिवाक्ये अभिधीयते। दहरवाक्येतु अतिरोहितस्वभावापहतपाप्मत्वादिविशिष्टएव दहराकाशः प्रतीयते। आविर्भूतस्वरूपस्यापि जीवस्य असंभावनीयास्सेतुत्वविधरणत्वादयो नमुक्तानां नित्यमुक्तानां वा सम्भवन्ततीति ‘जगद्व्यापारवर्ज’ मित्यत्र स्थितम्। अतएव नित्यानान्नित्याविर्भुतापहतपाप्मत्वादिगुणाष्टकतया तेष्वतिप्रसक्तस्य नित्याविर्भूतापहतपाप्मत्वादिमत्त्वस्य कथं ब्रह्मलिंगत्वमिति शङ्काऽपि निरस्ता। सेतुत्वादीनां तत्र असंभावितधर्माणामपि श्रवणात्। ननु ‘यएषोऽक्षिणि पुरुषो दृश्यत’ इति प्रजापतिविद्यागतव्क्यान्यपि ब्रह्मपराण्येव भवन्तु। अत्रापि ‘एतदमृतमभयमेतद्ब्रह्मे’ति श्रवणात् अक्षिवाक्ये उपकोसलविद्योपास्यप्रत्यभिज्ञानात् ‘य एषस्वप्नेमहीयमानश्चरती’ति वाक्येऽपि स्वाप्नपदार्थस्रष्टत्वेन महीयमानस्य परमात्मनएव प्रतिपादनसम्भवात्, सुषुप्तिपर्यायेऽपि ‘यत्रैतत्सुप्तस्समस्त’ इति यत्र यस्मिन्नाधारे समस्तस्सुप्तोभवतीति सुषुप्त्याधार ब्रह्मपरत्वोपपत्तेरिति चेत्, उच्यते- स्वप्नपर्याये ‘घ्नन्ति त्वेवैनं विच्छादयंतीवा प्रियवेत्तेवभवति अपिरोदीतीवे’ति इन्द्रेण तस्य हन्यमानत्वद्राव्यमाणत्वबंधुजनमरणाद्यप्रियद्रष्टृत्वरोदितृत्वादिप्रतिभासतो दुष्टत्वस्योपन्यासात् सुषुप्तिसंबन्ध्यात्मोपदेशानन्तरं ‘नाह खल्वयमेवं संप्रत्यात्मानं जानाति अयमहमस्मीति नोएवेमानि भूतानि विनाशमेवापीतोभवती’ति तस्य विज्ञेषज्ञानरहिततया विनष्टप्रायत्वस्योक्तत्वात्, अभयत्वामृतत्वादीनाञ्च मुक्त्यव्सथाभाविरूपापेक्षयाऽप्युपपत्तेर्जीवविषयत्वमेव उपपद्यते। ‘य एषोऽक्षिणि पुरुषो दृश्यत’ इत्यस्य दर्शनलिंगादक्षिणि सन्निहितोऽनुमीयत इत्यर्थकत्वेन जागरावस्थाविषयत्वस्यैव उपपन्नत्वात्। ततश्च प्रजापतिवाक्ये जीवस्संसारिदशायां अनृततिरोहितापहतपाप्मत्वादिकः स्वमुक्तिदशायां साधनाहिततदाविर्भावः प्रतिपाद्यते। दहराकाशे श्रूयमाणं त्वपहतपाप्मत्वादिकं नित्याविर्भूतमेव ग्राह्यम्। नित्याविर्भूतग्रहणसम्भवे तिरोहितत्वेन असत्प्रायस्य साधनाधीनाविर्भावस्य ग्रहणायोगात्॥तर्हि किमर्थं ब्रह्मप्रकरणे ‘एष सम्प्रसाद’ इति जीवपरामर्श इत्याशंक्याह- ॥अन्यार्थश्च परामर्शः॥ मुक्ते तत्स्वभावाविर्भावयितृत्वलक्षणपरमात्ममहिमप्रकाशार्थो जीवपरामर्शइति सूत्रार्थश्च स्पष्टः॥यदुक्तं परमात्मनोऽल्पपरिमाणत्वं नोपपद्यत इति तत्राह- ॥अल्पश्रुतेरिति चेत्तदुक्तं॥ शांडिल्यविद्यायां ‘निचाय्यत्वादेवं व्योमवच्च’ इति सूत्रखण्डेन उपासनार्थं विपुलस्य अल्पत्वोपदेश उपपद्यत इति पूर्वमेवोक्तमित्यर्थः॥ननु ब्रह्मणो नित्याविर्भूतापहतपाप्मनत्वादिमत्तवं जीवस्यातथात्वञ्च यदि प्रमाणसिद्धं स्यात्, तदा दहराकाशे श्रूयमाणमपहतपाप्मत्वादिकं ब्रह्मगतं नित्याविर्भूतमेव ग्राह्यमिति शक्यते वक्तुम्। न च तदस्तीति शङ्कमानं प्रत्याह- ॥अनुकृतेस्तस्य च॥ अनुकृतिः=अनुकारः। साम्यम्। तस्य परस्य ब्रह्मण उपासनया तदनुकारो हि जीवस्य श्रूयते-‘तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैती’ति। अत एव कठवल्ल्यां -‘यथोदकं शुद्धे शुद्धमासिक्तं" तादृगेव भवती’ति सादृश्यमेवोच्यते, न तु तद्भावः। नदीसमुद्रजलयोर्वस्तुतो नैक्यं, अपि तु परमसाम्यमात्रम्। ननु अवयवातिरिक्तावयव्यंतराभाववादिनां परस्परसदृशानां घटावयवानां भिन्नानामेव एकत्वावस्थाश्रयत्ववत् नदीसमुद्रजलयोरपि मिलितयोस्संसर्गिद्रव्ययोरप्येकत्वावस्थाश्रयत्वम् अस्ति। ततश्च निर्विशेषब्रह्मैकतापत्तिरेव परममुक्तिरिति चेन्न। निर्गुणविद्याश्रेष्ठत्वेन पराभिमतायां प्रजापतिविद्यायामपि ‘स तत्र पर्येती’ति मुक्तब्रह्मणोराधाराधेयभावश्रवणात्, सत्यकामत्वसत्यसङ्कल्पत्वादिरूपधर्माणां मुक्तावाविर्भावस्य निर्गुणविद्याफलत्वेन ‘उत्तराच्चेदाविर्भूतस्वरूपस्त्वि’त्यत्र परैरप्यङ्गीकृतत्वात्। न च सत्यकामत्वं" सत्यसङ्कल्पत्वञ्च जीवस्य स्वरूपमात्रमिति शक्यते वक्तुम्। कामशब्दोदितानां कामनाविषयसृज्यपदार्थानां" सङ्कल्पशब्दोदितस्य तत्सृष्टिहेतुमायावृत्तिविशेषस्य च स्वरूपबहिर्भावावश्यम्भावात्, तेषाञ्च मुक्तावाविर्भावे कथं निर्विशेषतापत्तिः। अनाविर्भावे च प्रजापतिविद्यायां" गुणाष्टकोपदेशस्योपासनार्थत्वं सम्भवति। परैस्तत्र उपासनाविध्यनङ्गीकारात्। नापि तदवगत्यर्थमुपदेशः। मुक्त्यर्थावगतेश्शुद्धब्रह्मविषयत्वात्। ‘तत्वमसी’ त्युपदेशस्थले ब्रह्मणो जगदुपादानत्वादिवर्णनस्याध्यारोपापवादन्यायेन निष्प्रपञ्चबोधनार्थतयेव अत्र प्रकारान्तरेण सार्थकत्वोपपादनायोगात्। नापि प्रवृत्तिरुच्युत्पादनार्थः। गुणकीर्तनस्य निर्गुणविद्यारुच्युत्पादकत्वासम्भवात्। अतः निर्गुणविद्याप्रकरणे अपहतपाप्मत्वाद्युक्तेराविर्भविष्यत्तया तद्बोधनार्थतयैव साफल्यं वाच्यम्। अतश्च मुक्तौ निर्विशेषब्रह्मभावावाप्तिकथनमसङ्गतमिति यथोक्तएवार्थः॥॥अपि स्मर्यते॥ ‘इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलयेनव्यधन्तिचे’ति स्मर्यत इत्यर्थः। ततश्च तदुपासनासिद्धं तस्यैश्वर्यं तस्य तु नान्योपानसिद्धम्। अपि तु नित्याविर्भूतम्। ततश्च दहरवाक्ये श्रूयमाणमपहतपाप्मत्वादिकं ब्राह्ममेव॥ ॥इति दहराधिकरणम्॥