21 ईक्षतिकर्माधिकरणम्

॥ईक्षतिकर्मव्यपदेशात्सः॥ प्रश्नोपनिषदि- ‘अथहैनं शैव्यस्सत्यकामः पप्रच्छ’। स्पष्टोऽर्थः। ‘सयोहवै तद्भगवन्मनुष्येषु प्रायणांतमोङ्कारमभिध्यायीत कतमं वाव सतेन लोकं जयती’ति। हे भगवन् योऽधिकारी मनुष्याणां मध्ये मरणान्तमोङ्कारमभिध्यायति सः" कतमं लोकं तेन ओङ्कारेण आप्नोतीत्यर्थः। ‘तस्मै सहोवाच एतद्वै सत्यकाम ब्रह्म यदोङ्कारस्तस्माद्विद्वानेतेनैवायतनेन एकतरमन्वेति’। एतदेव परञ्चापरञ्च ब्रह्म उभयवाचकमित्यर्थः। वाच्यवाचकभावनिबन्धनं सामानाधिकरण्यम्। किं तदित्यत्राह-‘यदोङ्कार’ इत्यादि। तस्मादुपासकः एतेनैव ओङ्काररूपेण मार्गेण परमपरं वा ब्रह्म अन्वेति उपास्त इत्यर्थः। ‘सयद्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तुर्णमेव जगत्यामभिसम्पद्यते’। सः उपासकः। एकमात्रं ह्रस्वं प्रणवं उपास्ते। तेनैव एकमात्रोङ्कारकरणकपरब्रह्मध्यानेनैव संवेदितः=लब्धसत्ताकः। जगत्यां=भुवि। अभ्यर्हितः=श्रेष्ठः सम्पद्यते। ‘तमृचोमनुष्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति’। तं ऋङ्मन्त्राः मनुष्यलोकं प्रापयन्ति। सः मनुष्यलोकं नीतः" तपसा=अनशनादिना। ब्रह्मचर्येण=मैथुनवर्जनेन। श्रद्धया आस्तिक्यबुद्ध्या यदि सम्पन्नो भवति, तदा महिमानं श्रेयस्साधनं ब्रह्मोपासनमनुतिष्ठतीत्यर्थः। नच एचो ह्रस्वाभावात् कथमोङ्कारस्य ह्रस्वत्वमिति वाच्यम्। न्यूंखे ह्रस्वस्य ओङ्कारस्य दर्शनात्। अथ यदि द्विमात्रेण मनसि सम्पद्यते सोऽन्तरिक्षलोकं स सोमलोकं’। द्विमात्रेण अपरब्रह्मवाचकेन प्रणवेन यस्य मनसि अपरब्रह्मध्यानं सम्पद्यते सः अन्तरिक्षाश्रितं" सोमलोकं द्विमात्रोपासकः पुमान् यजुर्मंत्रैसन्नीयते। अन्तरिक्षसोमलोकशब्दः ऊर्ध्वमात्रोपलक्षकः। सः आमुष्मिकलोकमातर्चरः सोमलोके विभूतिमनुभूय तत्पुण्यावसाने पुनरावर्तत इति भावः। ‘यः पुनरेतं" त्रिमात्रेणैव ओमित्यनेनैवाक्षरेण परंपुरुषमभिध्यायीत’। एकमात्रत्वाद्विमात्रत्वदशायामर्वाचीनफलसाधनेन एतेनैवाक्षरेम त्रिमात्रण परमपुरुषमभिध्यायति आभिमुख्येन ध्यायति निरन्तरं ध्यायतीत्यर्थः। ‘सतेजसि सूर्ये सम्पन्नः यथा पादोदरस्त्वचा विनिर्मुच्यते एवं हैव स पाप्मना विनिर्मुक्तस्ससामभिरुन्नीयते ब्रह्मलोकं’। सामभूतैः पुरुषैः वैकुण्ठमुन्नीयत इत्यर्थः। ‘सएतस्माज्जीवघनात्परात्परं पुरिशयं" पुरुषमीक्षते’। मूर्तौ घन’ इति काठिन्यशब्दितमूर्तौ घनशब्दस्य निपातितत्वात् देहद्वारत्वादात्मनि काठिन्यस्य घनशब्दो देहिपरएव। अतो जीवघनशब्देन संसारिमण्डलमुच्यते। तस्मात् परः परिशुद्धात्मा। तस्मादपि परभूतः पुरिशयः ‘पूः" प्राणिनस्सर्वएव गुहाशयस्ये’ति सर्वेषु प्राणिषु अन्तरात्मतया शयानं ‘वासुदेव समातन’ इति निरुपाधिकपुरुषशब्दवाच्यं" परवासुदेवमित्यर्थः। अतएव ‘सामभिरुन्नीयते ब्रह्मलोक’मित्यत्र ब्रह्मलोकशब्दस्य चतुर्मुख लोकपरत्वशङ्का व्युदस्ता, चतुर्मुखलोकगतानां परवासुदेवेक्षणासम्भवादिति द्रष्टव्यम्। अत्र विचार्यते-ध्यायतीक्षतिकर्मतया व्यपदिष्टो हिरण्यगर्म एव। पूर्वमेकमात्रं प्रणवमुपासीनस्य फलत्वेन मनुष्यलोकप्राप्तिं फलं द्विमात्रमुपासीनस्य अन्तरिक्षलोकप्राप्तिं च फलमभिधाय अनन्तरं ‘यः पुनरेतं त्रिमात्रेणे’ति त्रिमात्रप्रणवमुपासीनस्य फलत्वेनोच्यमानब्रह्मलोकस्थपुरुषेक्षणकर्मभूतश्चतुर्मुखएवेति ज्ञायते। मनुष्यलोकांतरिक्षलोकसाहचर्यात् ब्रह्मलोकेऽपि क्षेत्रज्ञलोकइति निश्चीयतइति पूर्वपक्षे प्राप्ते। सिद्धांतस्तु– ‘परात्परं पुरिशयं पुरुषमीक्षत’ इति ईक्षतिकर्मतया निर्दिंष्टपुरुषविषये लोके ‘तमोकारेणैवायतनेनान्वेतिविद्वान्यत्तच्छांतमजरममृतमभयं" परञ्चे’ति निरुपाधिकशांतत्वादिव्यपदेशात् परमात्मैवायमिति निश्चीयते। एवं परमात्मत्वे निश्चिते ब्रह्मलोकशब्दश्च तत्स्थानमेवाभिदधातीत्यवगम्यते। तद्विषयोदाहृतेश्लोके ‘यत्तत्कवयोवेदयंत’ इति सूरिभिर्दृश्यत्ववचनं तदेव द्रढयति। सूत्रार्थः-ईक्षतिकर्म सः परमात्मा। ध्यायतीक्षत्योरेकविषयत्वे ध्यायतिकर्मापि स एवेत्यर्थः। व्यपदेशात् तद्विषयतया ‘शान्तममृतमजरमभयं परञ्चे’ति परमात्मधर्माणां" व्यपदेशादिति॥ ॥इति ईक्षतिकर्माधिकरणम्॥