॥अक्षरमम्बरान्तधृतेः॥ यथा जीवादूर्ध्वमुपदेशात् भूमा न जीवः, एवं प्रदानादूर्ध्वमुपदेशादक्षरं न प्रधानमिति समर्थ्यत इति सङ्गतिः। वाजसनेयके गार्गिब्राह्मणे-‘एतद्वै तदक्षरं गार्गि’। एतदधिकरणचंतोपयुक्तविषयांशो लिख्यते-‘अहं त्वा द्वाभ्यां प्रश्नाभ्यामुपोदस्थां’। गातिस्थे’ति सिचोलुक्। ‘तौमे ब्रूहीति’। याज्ञवल्क्यआह- पृच्छ गार्गीति। ‘साहोवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतञ्च भवच्च भविष्यच्चोत्याचक्षते कस्मिन् तदोतञ्च प्रोतञ्चे’ति। द्युलोकादूर्ध्वं पृथिव्याश्चाधस्तनं" यद्वस्तुजातमेतत्सर्वं कुत्र पटे दीर्घतन्तुवदोतं तिर्यक्तन्तुवत् प्रोतञ्चेति वाक्यार्थः। ‘सहोवाच यदूर्ध्वं गार्गि दिव’ इत्यादि ‘आचक्षत’ इत्येतदन्तं पूर्ववत्। ‘आकाशे तदोतञ्च प्रोतञ्चे’ति। अत्र आकाशशब्देन न वायुमदम्बरं गृह्यते। तस्य सर्वविकाराश्रयत्वाभावात्, किंत्वव्याकृताकाशः। ‘साहोवाच अपरस्मै धारयस्वेति’। द्वितीयप्रश्नाय अवधानं कुर्वित्यर्थः। ‘सहोवाच पृच्छ गार्गीति’। ‘साहोवाच यदूर्ध्वं दिव’ इत्यादि ‘आचक्षत’ इत्यन्तं पूर्ववत्। ‘आकाशएव तदोतञ्च प्रोतञ्चेति’। यआकाशस्त्वया उक्त इति शेषः। ‘कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति’। सोऽव्याकृताकाशः किमाश्रितइत्यर्थः। ‘सहोवाच एतद्वै तदक्षरं गार्गिब्राह्मणाअभिवदन्तिअस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्वनाकाशमसङ्गमरसम गन्धमचक्षुष्कमश्रोत्रमवागमनोऽतेजस्कमप्राणामसुखममात्रमनंतरमबाह्यं नतदश्नाति किंचन नूतदश्नाति कश्चने’ति। हे गार्गि तदेतत् सर्वासूपनिषत्सु प्रसिद्धम्। अश्नुत इति वा न क्षरतीति वा अक्षरं" ब्रह्म। ब्राह्मणाः=ब्रह्मविदः अभिवदन्ति। मात्राः=इंद्रियाणि। यद्वा मात्रा=परिच्छेदः। तद्रहितमित्यर्थः। ‘अनन्तरमबाह्यं=न्वाव्याप्तदेशशून्यमित्यर्थः। ‘न तदश्नाति किंचन’। तदक्षरं किंचिदपि नाश्नाति। अवाप्तकामतया भक्ष्यनिरपेक्षमित्यर्थः। तत् ब्रह्म कर्म। ‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’। वैशब्दोऽवधारणे। प्रशासने=आज्ञाचक्रे। विधृतौ=विशेषेण धृतौ। प्रकृष्टं शासनं" प्रशासनम्। क्वचिदप्यप्रतिहतत्वमेव शासनस्य प्रकर्षः। ततश्च सर्वविषयकशासनमिति फलति ‘प्रशासितारं" सर्वेषामि’ति पुराणानुसारात्। ततश्च सर्वविषयकशासनाधीनद्युपृथिव्यादिधारकत्वमर्थ इति पर्यवस्यति। तत्र प्रधानस्य जगद्धारकत्वेऽपि शासनाधीनधारकत्वाभावात् जीवस्य प्रशासन अधीनयत्किंचिद्धारकत्वेऽपि प्रशासनशब्दितसर्वविषयकशासनाधीनसर्वधारकत्वासम्भवाच्च नात्र प्रधानं जीवोवा प्रतिपाद्यते। ‘एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्धमासा ऋतवस्संवत्सरा इति विधृतास्तिष्ठन्तीति’। इतिशब्दः प्रकारवचनः। स्पष्टोऽर्थः। ‘एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योनद्यस्स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्याश्च यां यांच दिशमनु’। प्रशासन इति सप्तमी। गङ्गाद्या नद्यः" श्वेतेभ्यो हिमवदादिभ्यः लोकोपकाराय स्यन्दन्ते। तत्प्रशासनाभावे तास्स्यन्तनाय न प्रभवन्तीति भावः। ‘अन्याश्च यां यां दिशमनु’। प्रस्थिता इति शेषः। ‘एतस्या वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः" प्रशंसन्ति यजमानं देवा दर्वी पितरोऽन्वायत्ताः’। प्रशासने निमित्ते ददतः तदाज्ञया आज्ञाकैङ्कर्यबुद्ध्या दानं कुर्वतो जनान् मनुष्याः=यजमानाः। अन्वायत्ताः=अनुवशास्सन्तः प्रशंसन्ति स्तुवन्तीत्यर्थः। ‘यो वा एतदक्षरं गार्ग्यविदित्वाऽस्मिन् लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राणि अन्तवदेवास्य तद्भवति योवा एतदक्षरं गार्ग्यविदित्वा अस्माल्लोकात्प्रैति सब्राह्मणः’। ब्रह्मज्ञानमन्तरेण क्रियमाणं" होमयज्ञबहुकालसाध्यतप आदिकं सर्वं नश्वरफलसाधनं भवति, तज्ज्ञानमन्तरेण कर्तुर्लोकांतरगतस्यापि शोच्यता भवति। ब्राह्मणः=ब्रह्मवित् ब्रह्मणोऽनुभविता। मुक्तइति यावत्। यदज्ञानात्संसारप्राप्तिः" यज्ज्ञानाच्च, अमृतत्वप्राप्तिस्तदक्षरं परंब्रह्मेत्युक्तं भवति। ‘तद्वा एतदक्षरं गार्ग्य दृष्टं" द्रष्ट’। अदृष्टं=योगिभिरदृश्यं। द्रष्टृ= रूपादिसाक्षात्कर्तृ। विज्ञातृ=अध्यवसेयसाक्षात्कर्तृ। ‘नान्यदतोस्ति द्रष्टृ नान्यदतोस्ति श्रोतृ नान्यदतोऽस्ति मंतृनान्यदतोस्ति विज्ञातृ’। अन्तर्यामिब्राह्मणव्याख्यानोक्तरीत्या अत्राप्यन्यशब्दस्य तत्सदृशनिषेधपरत्वमेवं, एवमिहापि अदृष्टत्वविशिष्टनिरुपाधिकद्रष्टृत्वाश्रयस्य परमात्मनः सदृशं किमपि नास्तीत्येवार्थः। पूर्वव्याख्यायां समनिषेधः अस्यां व्याख्यायामधिकनिषेधश्च फलति।न च ‘नेह नानास्ती’ति वाक्यवत् अस्याग्नि वाक्यस्य अब्रह्मात्मकवस्तुनिषेधपरत्वोपपत्तौ समाभ्वधिकनिषेधपरतया व्याख्यानं किमर्थमिति वाच्यम्। तद्वदत्र ऐक्यविधिशेषत्वाभावेन समाभ्यधिकनिषेधपरत्वस्यैव युक्तत्वात्। उपसंहरति- ‘एतस्मिन्नु स्रलवक्षरे गार्ग्याकाश ओतश्च प्रोतश्चे’ति। अत्र विचार्यते- एतद्वै तदक्षरं" गार्गि ब्राह्मणा अभिवदन्ती’ यत्र अक्षरशब्दितं प्रधानमेव, ‘अक्षरात्परतः पर’ इत्यादावक्षरशब्दस्य प्रधाने प्रयोगात्, अस्थूलत्वादिनिषेधानांच स्थूलत्वादिप्रसक्तिमत्यचेतने सामञ्जस्यात्, ‘कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च’ त्याकाशाधारत्वेन प्रश्नस्य आकाशोपादानतया तदाधारभूतप्रधारत्वेन प्रश्नस्य आकाशोपादानतया तदाधारबूतप्रधानविषयत्वौचित्याच्चेत्येवंप्राप्त उच्यते- अक्षरमम्बरान्तधृतेः। अक्षरं" परंब्रह्म- अम्बरान्तधृत्तेः अम्बरस्य आकाशस्य अन्तः पारभूतं प्रधानं, तद्धारकत्वादित्यर्थः। अयंभावः-‘कस्मिन्नु खल्वाकाश ओतश्चप्रोतश्चे’त्यत्र आकाशो न वायुप्रकृतिभूताकाशः, अपित्वव्याकृताकाशः। ‘यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावांपृथिवी इमे यद्भूतञ्च भवच्च भविष्यच्चेत्याचक्षत आकाशएव तदोतञ्च प्रोतञ्चे’ति कालत्रयवर्तविकाराधारतयोच्यमानत्वस्य भूताकाशे असंभवेन अव्याकृताकाशएव संभवात् तस्याप्याधारतयानिर्दिश्यमानमक्षरं परंब्रह्मैव भवितुमर्हति।ननु जीवस्याप्यचेतनाधारत्वसंभवाज्जीवएवाक्षरशब्दितः किन्नस्यादित्यत्रोत्तरं– ॥सा च प्रशासनात्॥ साच अम्बरान्तधृतिः ‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत’ इत्यादिना प्रशासनाधीना श्रूयते। प्रकृष्टं शासनं प्रशासनं। शासने प्रकृष्टत्वञ्च असंकुचितसर्वविषयत्वम्। ततश्च असंकुचितचुदचिच्छासनं परमात्मधर्मः॥॥ अन्यभावव्यावृत्तेश्च॥ ‘तद्वा एतदक्षरं गार्गि अदृष्टं द्रष्टृ’ इत्यादिना उपदिश्यमानैः इतरादृष्टत्वे सति सर्वद्रष्टृत्वरूपैः" धर्मैः परमात्मनः प्रकृतिजीवभावव्यावृत्तेश्च परमात्मैवेति स्थितम्॥ ॥ इति अक्षराधिकरणम्॥