॥भूमा सम्प्रसादादध्युपदेशात्॥ मुण्डके परमात्मप्रकरणाविच्छेदेन परमात्मत्वं साधितं। तर्हि भूमविद्यायां जीवप्रकरणाविच्छेद इति शङ््क्या उत्थिता सङ्गतिः। छान्दोग्ये एतदधिकरणविषयाणामर्थ उच्यते। ‘अधीहिभगव इति होपससादसनत्कुमारंनारदः" यद्वेत्थतेनमोपसीदततस्त ऊर्ध्वं वक्ष्यामीति’। ज्ञातांशमुक्त्वा मत्समीपे उपसीद ततश्श्रुत्वा अज्ञातांशं" ते वदिष्यामीत्युक्तवानित्यर्थः। ‘सहोवाच ऋग्वेदं भगवोध्येमी’त्यारभ्य ‘सोऽहं भगवो मन्त्रविदेवास्मि नात्मवि’दित्यन्तेन मन्त्रवित् मन्त्रप्रधानकर्मविदेवास्मि नात्मविदित्यर्थः। ‘श्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति’ ‘तं मा भगवान्च्छोकस्य पारं तारयत्वि’ति। अत आत्मानमुपदिश्य शोकं तारयत्वित्यर्थः। ‘तं होवाच यद्वै किचैतदध्यगीष्ठानामैवैतत् नाम वा ऋग्वेदोयजुर्वेद’ इत्यादि। अध्यगीष्ठाः=अधीतवानसीत्यर्थः। ‘नामोपास्व’। अत्र ब्रह्मेति शेषः। ‘यो नाम ब्रह्मेत्युपासते यावन्नाम्नो गतं तत्रास्य यथा कामचारो भवति’। नामात्मकशब्दो यावति लोके वर्तते, वत्पर्यंतं सञ्चारे भवतीत्यर्थः। नाम्नि निरतिशयब्रह्मत्वलक्षणब्रह्मत्वे आत्मत्वे च श्रद्धामलभमानः" पृच्छति-‘अस्तिभगवो नाम्नो भूय’इति। गुरुराह ‘वाग्वाव नाम्नो भूयसी’ति। एवं प्रश्नप्रतिवचनरूपेण वाङ्मनस्सङ्कल्पचित्तध्यानविज्ञानबलान्नजलतेज आकाशस्मराशापर्यंतमुपन्यस्याह ‘प्राणोवा आशायाभूतानि’ति। अत्र प्राणशब्देन प्राणसहचरितो जीवोलक्ष्यते। ‘यथा वा अरानामौ समर्पिता एवमस्मिन्प्राणेसर्वंसमर्पितं’। एवमरनाभिदृष्टांतेन समस्ताचेतनभूतजातमेतच्चेतनाश्रितमित्यर्थः। समस्तात्मकत्वमेव जीवस्योपपादयति- ‘प्राणः प्राणेन याती’त्यादिना ‘प्राणोह पिता प्रणो ब्राह्मण’ इत्यन्तेन। तथाच पित्रादिरपि जीवएवेत्यर्थः। ननु परिदृश्यमानमांसपिंडविशेषाएव पित्रादिशब्दवाच्याः नजीवइति मन्यमानं प्रत्याह-‘सयदि पितरं वा मातरं वा भ्रातरं वा स्वसारंवाऽऽचार्यंवा ब्राह्मणंवा किंचिद्भृशमिवप्रत्यह धिक्त्वास्त्वित्येवैनमाहुः" पितृहावैत्वमसि मातृहावैत्वमसि भ्रातृहावैत्वमसि स्वसृहावैत्वमसि आचार्यहावैत्वसि ब्राह्मणहावैत्वमसीति। ‘अथयद्यप्येनानुत्क्रांतप्राणान् शूलेनसमासंव्यतिषन्दहेन्नैवैनं ब्रूयुः पितृहासीति नमातृहासीति नभ्रातृहासीति नस्वसृहासीति नाचार्यहासीति नब्राह्मणहासीति प्राणोह्येवैतानिसर्वाणिभवति’। सजीवेषु पित्रादिशरीरेषु धिक्त्वामित्येव किंचिद्भृशमधिक्षिपति पुरुषे पितृहेत्यादिशब्दान् प्रयुञ्जते। तेष्वेव शरीरेषु उत्क्रांतजीवेषु सत्सु शूलेन समासं=सम्पूर्वात् क्षेपार्थात् अस्यतेः णमुलन्तोऽयं" शब्दः। सम्यक्प्रक्षिप्य व्यतिषज्य सम्यग्दाहकेऽपि पुरुषे पितृहेत्यादिशब्दान् नप्रयुञ्जते। अतो निर्जीवस्य शरीरस्य पित्रादित्वाभावस्य सिद्धत्वात् जीवएव पित्रादिर्भवतीत्यर्थः। अयंभावः-‘प्राणोवा आशायाभूया’निति वाक्ये प्राणशब्दनिर्दिष्टः प्राणसहचारी प्रत्यगात्मैव। न मुख्यप्राणः। ‘प्राणोह पिता प्राणो माते’त्यादिना प्राणस्य चेतनत्वावगतेः पितृहा मातृहे’ त्यादिना सप्राणेषु पितृप्रभृतिषु उपमर्दकारिणि हिंसकत्वादिनिमित्तोपक्रोशवचनात् तेष्वेव विगतप्राणेषु अत्यन्तोपमर्दकारिणि उपक्रोशाभावाच्च अप्राणेष्वपि स्थावरेषु चेतनेषु उपमर्दभावाभावयोहिंसातदभाव दर्शनात् हिंसायोग्यतया निर्दिष्टः" प्रत्यगात्मैवेति निश्चीयते। अतएव अरनाभिदृष्टान्तोपन्यासेन प्राणशब्दनिर्दिष्टः परइति नभ्हमितव्यं। परस्यहिंसाप्रसङ्गाभावात् जीवादितरस्य भोग्यभोगोपकरणस्य अचिद्वस्तुनोजीवायत्तस्थितित्वेन प्रत्यगात्मन्येव अरनाभिदृष्टांतोपपत्तेश्च। यद्यपि ‘नायंहन्ति नहन्यत’इति निर्दिष्टस्य जीवस्य स्वतोर्हिसायोग्यत्वाभावेन देहादिसाहित्यप्रयुक्तहिंसात्वं मुख्यप्राणस्यापि सुवचं, ‘प्राणोह पिते’त्यादिवाक्यनिर्दिष्टानां" जीववाचितया लोके प्रसिद्धानां बहूनां पित्रादिशब्दानां गौणत्वकल्पनापेक्षया एकस्य प्राणशब्दस्यैव जीववाचित्वाश्रयणस्योचितत्वात्। वृत्तिकृता भगवता बोधायनेनापि एतत्सूत्रव्याख्याने ‘प्रत्यगात्मनऊर्ध्वन्नतुमुख्यप्राणादूर्ध्व’मित्युक्तत्वात् वेदनाजनकव्यापार लक्षणहंसाया वेदनाशून्ये अचेतने असम्भवाच्च प्राणादिशब्दनिर्दिष्टः प्रत्यगात्मैवे’ति। ‘सवा एषएवंपश्यन्नेवं मन्वान एवंविजानन्नतिवादीभवति’। एषजीवः स्वात्मानमुक्तेन प्रकारेण मननोपासनदर्शनानि कुर्वन्नतिवादी भवति’। एषजीवः स्वात्मानमुक्तेन प्रकारेण मननोपासनदर्शनानि कुर्वन्नतिवादी भवति। स्वोपास्यवस्तुनस्सर्वोत्कृष्टत्ववादी भवतीत्यर्थः। बृहस्पतिसमप्रत्यर्थिजनाप्रतिभाधायकस्वोपास्यदेवता पारम्यशीलत्वमतिवादित्वं स्वोपास्यदेवतातिशयएव पर्यवस्यति। ‘एवं पश्य’न्निति हेतौ शता। ततश्च स्वोपास्यदेवतासाक्षात्कारोऽतिवादित्वे हेतुरिति भावः। साक्षात्कारप्रीतस्वोपास्यदेवताऽनुग्रहादीदृशमति वादित्वं भवतीति भावः। ‘तं चेत् ब्रूयुरतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापह्णुवीत’स्पष्टोऽर्थः। अत्र पूर्वपर्यायेष्वनुक्तस्यातिवादित्वस्य कथनात्प्रक्रांत आत्मोपदेशः प्राणशब्दिते प्रत्यगात्मनि पर्यवसन्न इति ‘प्राणाद्वावभूयोऽस्ती’ति स्वयमपृच्छत्येव नारदे सनत्कुमारस्स्वयमेवततोऽप्यतिशयितं परमात्मानमुपक्षिपति ‘एषतु वा अतिवदति यस्सत्येनातिवदति’। ब्रह्मणस्सततैवकरूपत्वेन निर्विकारत्वात्सत्यत्वं। तेन ब्रह्मणा निमित्तेन योऽतिवदति एषोऽतिवादी पूर्वस्मात्प्राणातिवादिनोविशिष्ट इत्यर्थः। अत्र सत्यातिवादिनः प्राणातिवाद्यपेक्षयाऽतिशयकथनात् सत्यशब्दनिर्दिष्टस्य परस्य ब्रह्मणः प्राणशब्दनिर्दिष्टजीवापेक्षया भूयस्त्वमुक्तं भवति। नच पूर्वप्रस्तुतप्राणातिवादिन एव ‘एषतु वा अग्निहोत्री यस्सत्यं वदती’त्यादाविव सत्यवदनमङ्गतया विधीयतामिति वाच्यं। ‘एषतु वा अग्निहोत्री’ति वाक्ये द्रव्यदेवतान्तराभावेन अग्निहोत्रान्तराप्रतीतेस्तुशब्दस्वारस्यभङ्गः। इह तु प्रकृतातिवादनिमित्तप्राणव्यतिरिक्तस्य सत्यशब्दस्य ब्रह्मणोनिमित्तांतरस्य प्रतीतेश्च तत्स्वारस्यभङ्गोयुक्तः, सत्यवदनस्याङ्गतया विधाने सत्यं वदतीति निर्देशस्य युक्ततया ‘सत्येने’ति तृतीयाया ‘अती’त्युत्सर्गस्य चायोगाच्चेति द्रष्टव्यं। ‘सोहं भगवस्सत्येनाति वदानी’ति। ब्रह्मणाऽहमतिवाद्यस्मीति शिष्यः प्रार्थयामासेत्यर्थः। इतरआह ‘सत्यंत्वेव विजिशासितव्य’मिति। यदिसत्यशब्दितब्रह्मनिमित्तकातिवादितामभिलषसि, तर्हि ब्रह्मोपास्यमित्यर्थः। ब्रह्मोपासनस्यातिवादिल्वहेतुत्वं ब्रह्मसाक्षात्कारद्वारेत्याह-‘यदावैविजानात्यथसत्यंवदति’। अत्र विजानातिशब्दस्साक्षात्कारपरः, नतु शास्त्रजन्यज्ञानपरः। ‘यदा वै मनुते अथ विजानाती’ति जानाव्यर्थस्य मननसाद्ध्यत्वस्यवक्ष्यमाणत्वात्। ‘सत्यंवदति’। सत्यमतिवदतीत्यर्थः। पूर्वत्र ‘सत्येनातिवदानी’ति सत्यशब्दितस्य ब्रह्मणोतिवदनंप्रतिनिमित्तत्वेनकरणत्वविवक्षया तृतीयायाः सत्यवदनंप्रति कर्मतयाद्वितीयाया अप्युपपत्तिः। ‘नाविजानन् सत्यं वदति विज्ञानं त्वेव विजिज्ञासितव्यमि’ति। साक्षात्काराभावे नातिवादित्वं। अतस्साक्षात्काररूपं विज्ञानं विजिज्ञासितव्यंसम्पाद्यमित्यर्थः। ‘सत्यंत्वेव विजिज्ञासितव्यमि’ति। ब्रह्मोपासनस्यातिवादित्वहेतुत्वकथनात् अत्रवाक्ये साक्षात्कारस्यातिवदनहेतुत्वकथनात् ब्रह्मोपासन् तत्साक्षात्कारयोर्द्वारद्वारिभावापन्नयोरेव हेतुत्वं सिध्यतीतिभावः।‘अथ यदा वै मनुते अथ विजानाति नामत्वा विजानाति मत्वैव विजानाति मतिस्त्वेव विजिज्ञासितव्येति मतिंभगवोविजिज्ञास’ इति। ब्रह्मोपासनोपायभूतं" मननं संपाद्यमित्यर्थः। श्रवणप्रतिष्ठार्थत्वान्मननस्य मननोपदेशेन श्रवणमप्यर्थसिद्धं मत्वा श्रवणोपायभूतां" ब्रह्मणि श्रद्धां त्वरालक्षणां ‘श्रद्धात्वेव विजिज्ञासितव्ये’त्युपदिश्य पुनरपि ब्रह्मैव श्रोतव्यं" नान्यदित्यध्यवसाय रूपानिष्ठाश्रोतुः त्वरालक्षणश्रद्धोपायतया ‘यदावै निस्तिष्ठती’त्यादिना ‘निष्ठात्वेवविजिज्ञासिव्ये’ त्यन्तेनाऽभिधाय ‘यदा वै करोती’त्यादिना ‘कृतिस्त्वेव विजिज्ञासितव्येत्यन्तेन उद्योगप्रयत्नापरपर्याया श्रोतव्यां तरेषु हेयत्वानुसन्धानेन उक्तलक्षणमनसो नियमनरूपा कृतिः ब्रह्मैव श्रोतव्यमिति व्यवसायलक्षण निष्ठाहेतुत्वात्संपाद्येत्युक्त्वा ‘यदावै सुखं लभतेऽथकरोती’त्यादिना सुखंत्वेन विजिज्ञासितव्य ‘मित्यन्तेन उक्तलक्षणकृतेः श्रोतव्ये ब्रह्मणि निततिशयानुकूलत्वावगममन्तरेणासंभवात् श्रोतव्यांतरेषु हेयत्वानुसन्धाना हितमनोनियमनरुपकृतिहेतुतया तदत्यन्तानुकूलत्वलक्षणं सुखत्वं ज्ञातव्यमित्युक्तमित्यर्थः। अत्र च श्रवणमननश्रद्धादेः प्रागेव सुखप्राप्त्यसंभवात् प्राप्त्यर्थस्यापि लभतेः ज्ञानमेवार्थः। ज्ञानस्यापि प्राप्तिरूपत्वात् अत्रत्यविजिज्ञासितव्यशब्दस्य ज्ञातव्यत्वमर्थः। ‘योवै भूमा तत्सुखं नाल्पेसुखमस्ति भूमैव सुखं भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास’इति। भूमशब्दो बहुत्ववाची। बहुशब्दात् पृथ्वादित्वादिमनिचि ‘बहोर्लोपो भूच बहो’रिति प्रकृतिप्रत्यययोर्विकारे च सति तन्निष्पत्तेः। बहुत्वञ्चात्र वैपुल्यं, न संख्याविशेषः। बहुशब्दस्य ‘बहुषु बहुवचन’मित्यादौ संख्यायामिव ‘अल्पं वा बहु वा यस्य श्रुतस्योपकरोतिय’ इत्यादावल्पल्वप्रतियोगिनि वैपुल्येऽपि प्रयोगदर्शनात्, इहापि ‘नाल्पे सुखमस्ती’ति अल्पत्वप्रतिद्वंद्वितयैव भूमशब्दप्रयोगाच्च वैपुल्यमेवार्थः। वैपुल्यञ्च गुणोत्कर्षरूपं, उत्तरत्र उत्कर्षस्य प्रतिपादितत्वात्। नतु परिमाणरूपम्। अत उत्कर्षकृतवैपुल्यमेवेह भूमशब्देन विवक्षितम्। अत एव न वैपुल्यरूपधर्मपरो भूमशब्दः। सुखस्य वैपुल्यरूपत्वाभावादल्पप्रतियोगितया निर्देशाच्च। नह्यत्र वा उत्तरत्र वा अल्पत्वं भूमप्रतियोगितया निर्दिश्यते, अपित्वल्पमेव। अतोऽल्पशब्दप्रतियोगितया प्रयुज्यमानो भूमशब्दो वैपुल्याश्रयधर्मिपर एव। ततश्चायमर्थः-यदुत्कृष्टतया विपुलं तदेव सुखं अत्यन्तानुकूलमित्यर्थः। ‘नाल्पे सुखमस्ति’। सुखं सुखत्वं=अत्यन्तानुकूलत्वमित्यर्थः। ‘अपशवो वा अन्ये गोअश्वेभ्य’ इत्यत्र गवाश्वव्यतिरिक्ते अजादौ पशुत्वनिषेधस्य प्रशस्तपशुत्वनिषेधपरत्वात्। एतद्वाक्यप्रस्तुतयोः भूमाल्पशब्दयोर्थं" जिज्ञासमानं प्रत्याह-‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति सभूमा यत्रान्यत्पश्यत्यन्यच्छृणोत्य्यद्विजानाति तदल्पम्’। यत्रेति अनुभूयमानइत्यध्याहारः। यत्र यस्मिन् वस्तुनि अनुभूयमाने ततोऽन्यन्नदृश्यते न श्रूयते न विज्ञायते सभूमेत्यर्थः। यस्मिन् दृश्यमाने श्रूयमाणे विज्ञायमाने ततोऽन्यन्नदृश्यते न श्रूयते न विज्ञायत इतिवाऽर्थः। यद्वा सप्तम्याविषयत्वमर्थः। पश्यन्नित्यध्याहारः। यं पश्यन्नन्यं" न पश्यतीत्यर्थः। अत्र तदितरदर्शनाद्यभावोविष्याभावकृतः। अतश्च यतोऽन्यन्नास्ति सभूमेति पर्यवसितोऽर्थः। ननु चेतनाचेतनवर्गस्य तद्भिन्नत्वात् भूम्नोऽन्यन्नास्तीति कथमुच्यते। नच चिदचिद्विशिष्टस्यैव भूमब्रह्मशब्दार्थत्वाच्चिदचितोरपि तत्रांतर्भावात्तदन्यन्नेति निषेधश्शक्यते कर्तुमिति वाच्यम्। विशेषणभूतयोश्चिदचितोर्भूमब्रह्मशब्दार्थभूतात् विशिष्टादन्यत्वेन ततोऽन्यन्नस्तीति निषेधस्यायुक्तत्वात्। अत एव जगदैश्वस्यविशिष्टमनुभवन् तदतिरिक्तं पश्यतीत्यपि न युक्तम्। ऐश्वर्यविशिष्टादीशितव्यस्य भिन्नत्वात् सर्वज्ञत्वेन विशिष्टमनुभवंस्तदतिरिक्तंनपश्यतीति तस्यापि भूमत्वप्रसङ्गात्। ‘अथात आत्मादेश’ इति भूम्नएवात्मत्वस्य उपदेक्ष्यमाणत्वात् ‘तरति शोकमात्मविदि’ति प्रस्तुतस्यात्मोपदेशस्य भूम्नि पर्यवसानाच्च भूम्न आत्मत्वमवर्जनीयम्। न हि चिदचिद्विशिष्टस्य आत्मत्वमस्ति। विशेष्यस्यैवांतःप्रविश्य नियन्तृत्वेनात्मत्वात्। अतश्च तस्यैव भूमत्वं वक्तव्यम्। नचेदं लक्षणं तस्य सम्भवति तद्ध्यतिरिक्तस्य वस्तुनस्सत्वादिति चेत्, उच्यते-ब्रह्मशब्दवत् भूमशब्दस्यापि वस्तुपरिच्छेदशून्यत्वमेवार्थः। वस्तुपरिच्छेदो नाम इदमिदन्नेति निर्देशार्हत्वं। तद्राहित्यञ्च स्वरूपाभेदाद्वा तत्तदपृथक्सिद्धत्वाद्वा भवेत्, तत्र जीवजडयोरीश्वराभेदाभावात्तदपृथक्सिद्ध सत्ताकत्वमिति फलति। तच्च द्वेधा घटते, तत्सत्ताव्यतिरिक्तसत्ताशून्यत्वाद्वा ‘यदधीना यस्य सत्ता तत्तदित्येव फण्यत’ इति स्मृत्यनुसारेण तदधीनसत्ताकत्वाद्वा भवेत्,। तत्र तत्सत्ताव्यतिरिक्तसत्ताशून्यत्वमपि सत्तारूपविशेष्याभावेन मिथ्यात्वाद्वा भवेत्। तत्र सत्ताशून्यत्वं सकलप्रमाणविरुद्धमनभ्युपगमार्हं। तथैव तत्सत्ताभिन्नसत्ताकत्वमपि नाभ्युपगमार्हं। अपितु तत्सत्ताधीनसत्ताकत्वमेव। एवंविधस्यापृथक्सिद्धत्वस्य सिद्धांते अभ्युपगतत्वात् नानुपपत्तिः। ‘अंशोनानाव्यपदेशा’दित्यत्र अपृथक्सिद्धत्वलक्षणांशत्वस्य अभेदव्यपदेशनिर्वाहकस्य उक्तत्वादात्मभरणमिह सत्ताशब्दार्थः। उक्तञ्चहरिणा-‘आत्मानमात्मना बिभ्रदस्तीतिव्यपदिश्यत’ इति। चेतनाचेतनयोरात्मभरणलक्षणा सत्ता परमात्मसत्ताधीनेत्यर्थः। ततश्च ‘यत्र नान्य’दित्यस्यापि यत्सत्ताधीनसत्ताकं नास्ति यदनात्मकन्नास्तीत्यर्थपर्यवसानान्नानुपपत्तिः। यद्वा ‘समानेषु पूर्वत्वा’दिति साप्तमिकाधिकरणे अन्येतरादिसर्वनामशब्दानां पूर्वनिर्दिष्टसदृशवाचित्वस्य व्यवस्थापिततया ‘नान्योतोस्ति द्रष्टे’ति वाक्येष्विव ‘यत्रनान्यत्पश्यती’त्यादिवाक्येऽपि समानान्यनिषेधपरत्वावधारणान् न अनुपपत्तिः। ‘योवै भूमा तदमृतं अथ यदल्पन्तन्मर्त्यं। जननमरणादिशून्यं नित्याविर्भूत अनन्याधीनापहतपाप्मत्वादिगुणाष्टकं। इतरत्त्वनीदृशं। नित्यमुक्तादीनामप्यनन्याधीनतादृग्रूपत्वाभावान्न वाक्यार्थानुपपत्तिः। शिष्यःपृच्छति- ‘सभगवः कस्मिन् प्रतिष्ठितइति’। उत्तरमाह-‘स्वेमहिम्नीति’। स्वस्वरूपे। महिमाआधार इत्यर्थः। परमात्मन उभयविभूतिलक्षणात्मीयमहिमसद्भावेपि अनाधारस्य परमात्मनः तत्प्रतिष्ठितत्वासम्भवात्, नह्यतिशिक्षितोपि नटवपुः स्वस्कन्धमारूह्य नरीनर्तीति न्यायेन स्वस्य स्वाश्रितत्वासम्भवाच्च न द्वयमपि युज्यत इति शिष्यस्य बुद्धिर्निवर्तनीयेति मत्वा पुनराह-‘यदिवा नमहिम्नी’ति। दिवाऽन्यथा पस्यसि तदा न महिम्नीति ब्रूम इत्यर्थः। तद्विवृणोति- ‘गो अश्वमिहमहिमेत्या चक्षत’ इत्यादि ‘क्षेत्राण्यायतनानी’त्यंतं। गोअश्वमित्यादौ द्वंद्वैकवद्भावः। इतिशब्दः प्रकारवचनः। एवंजातीयकानीत्यर्थः। ‘नाहमेवं ब्रवीमीति चीतशोकः’ ‘एतां विभूतिं योगञ्चे’त्यादिश्रुतिस्मृतिषु परमात्मनो महिमवत्त्वावगमात् ‘यदि वा न महिम्नीति’ न महिमनिषेधः, अपितु विभूतिरूपमहिमप्रतिष्ठितत्वनिषेधो अवगम्यत इति स्वस्वरूपमहिमप्रतिष्ठितत्वं" निषेधति ‘अन्योह्यन्यस्मिन् प्रतिष्ठित इति’। ननु ‘नान्यत्पश्यती’त्यनुपपन्नं नानादिग्वर्तिभिन्नभिन्नचोतनाचेतनपदार्थानामुपलम्भादित्यत्राह– ‘स एवाधस्तात्स उपरिष्टात्स पश्चात्स पुरस्तात्स दक्षिणतस्स उत्तरतस्स एवेदं सर्व’मिति। सामानाधिकरण्यात् ‘स’ इति निर्दिष्टस्य भूम्नः ‘इदं सर्व’मिति निर्दिष्टस्य चिदचिद्वर्गस्य च शरीरात्मभावः फलितो भवति। शरीरात्मभावश्च व्याप्तिनिबन्धन इति ‘सएवाधस्ता’दिति श्रुत्यभिप्रायः। ततश्च ‘यत्र नान्यत्पश्यती’ति तदनात्मकान्यनिषेदे नानुपपत्तिरिति भावः। एवं सर्वात्मभूतस्य भूम्न उपासने स्वशरीरकतयोपासनं कर्तव्यमित्युपदिशति ‘अथातोऽहङ्कारादेशः’। अथशब्दः प्रकृतविषयत्वद्योतनार्थः। अहङ्कारोऽहं बुद्धिः। अतः परमहंग्रहेण भूम्न उपासनप्रकार उपदिश्यत इत्यर्थः। न तु जीवस्वरूपोपदेश इति मन्तव्यं। तथासति ‘अहमादेश’इति निर्देशस्यैव युक्तत्वात् कारपदेवैयर्थ्यात्। परमात्मनोहंग्रहेण उपासनप्रकारमेव दर्शयति-‘अहमेवाधस्ता’दित्यादिना ‘अहमेवेदं सर्व’मित्यन्तेन। सर्वदिग्वर्ती सर्वात्मा भूमा अहमेवेति ज्ञातव्यमित्यर्थः। नतु जीवस्य सर्वात्मकत्वमुपदिश्यतइति भ्रामितव्यं। जीवस्य अतथात्वात् तथात्वे कारशब्दवैयर्थ्यस्य उक्तत्वाच्च। ननु अहंबुद्धिशब्दयोर्जीवात्मविषययोः कथं भूमपर्यन्तत्वं अनहमर्थे च परमात्मनि अहंग्रहोपासनस्य यथार्थत्वमेव स्यादित्याशंक्य भूम्नः प्रत्यगात्मानं प्रत्यागात्मत्वेन तद्विषयबुद्धिशब्दानां परमात्मपर्यन्तत्वमुपपद्यत इति दर्शयन् ‘तरति शोकमात्मवि’दिति प्रक्रान्तमात्मोपदेशं" भूम्नि समाषयति-‘अथात आदेशः’। आत्मत्वोपदेशः क्रियत इत्यर्थः। ‘आत्मैवाधस्ता’दित्यादिना ‘आत्मैवेदं" सर्व’मित्यन्तेन सर्वात्मतया उपदिश्यमानो भूमा उपासकस्यात्मेति प्रतिपाद्यते। ततश्च अहं बुद्धिशब्दयोर्यथार्थत्वमेवेति भावः। ननु ‘अथातआदेश’ इति आत्मोपदेशः प्रकृतभूमविषयइति कथमवसीयत इति चेन्न- भिन्नयोर्द्वयोस्सार्वात्म्यायोगेन एकविषयत्वस्य सिद्धत्वात्। नच ‘सएवाधस्ता’दित्यनेनैव सार्वात्म्यस्य सिद्धतया उपासकात्मत्वमपि सिद्धमिति ‘अथातआदेश’ इत्युपदेशो व्यर्थ इति वाच्यं। यद्यपि ‘सएवेदं सर्व’मिति सामानाधिकरण्येनात्मत्वं" फलति, अथापि कण्ठोक्त्या उपासकात्मत्वसिद्ध्यर्थं विशिष्यात्मोपदेशः। नच ‘अथातआत्मादेश’ इति उपासकं प्रत्यात्मोपदेशे न तन्नियामकमिति वाच्यं। ‘एवं विजानतआत्मतः प्राण’ इति विद्वदात्मनः प्राणाद्युपादानत्वेन सार्वात्म्यस्य उत्तरत्र प्रतिपादयिष्यमाणत्वात्। यत्तु अत्र परैरहङ्कारस्य आत्मैकत्वेन प्रत्यक्षसिद्धस्य ‘अथातोऽहङ्कारादेशः, अथातआदेश’ इति पृथगुपदेशो भेदार्थः, बूमात्मनोः ब्रह्मत्वेन प्रत्यक्षसिद्धयोः" पृथमुपदेश ऐक्यार्थः, द्वयोस्सार्वात्म्यायोगादि’ति तदसारं। अहमर्थादन्यस्यात्मनो भूमाख्यब्रह्माभिन्नत्वेन प्रत्यक्षसिद्धत्वात्तयोरुपदेशऐक्यार्थ इति वैषरीत्यस्यापि सुवच्तवादित्यास्तां तावत्। अत्र विचार्यते-‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति सभूमे’ति वाक्ये सभूमेति निर्दिश्यमानोभूमा प्राणशब्दनिर्दिष्टोजीवएव। प्राणादूर्ध्वं ‘अस्ति भगवः" प्राणाद्भूय’ इति प्रश्नस्य ‘अदोवाव प्राणाद्भूय’ इति प्रतिवचनस्य वा अदर्शनेन ‘सोऽहं मन्त्रविदेवास्मि नात्मवित् श्रुतं ह्येव मे भगवदृशेभ्यस्तरति शोकमात्मवि’दिति प्रक्रान्तात्मोपदेशस्य तत्रैव पर्यवसानात्। अत्तश्च संत्यपि ब्रह्मलिङ्गानि तत्रैव यथा कथञ्चिद्योजयितव्यानीति पूर्वपक्षे प्राप्तउच्यते–भूमा संप्रसादादध्युपदेशात्। भूमा परमात्मा। सम्प्रसादाज्जीवादिधिकत्वेन तस्योपदेशात्। ‘एषसम्प्रसादोऽस्माच्छरीरात्समुत्थाये’त्यत्र सम्प्रसादशब्दस्य जीवे प्रयुक्तत्वात्सम्प्रसादो जीवः। ‘एषतुवा अतिवदति यस्सत्येनातिवदती’ति सत्यत्वनिमित्तकातिवादिनः" प्राणशब्दनिर्दिष्टजीवातिवाद्यपेक्षया तुशब्देनाधिकत्वेन ुपदिश्यमानतयाऽतिवदननिमित्तस्य सत्यशब्दनिर्दिष्टस्य प्राणशब्दिताज्जीवादधिकत्वप्रतीतेः न प्राणशब्दनिर्दिष्टोजीवो भूमा॥॥धर्मोपपत्तेश्च॥ ‘स्वे महिम्नि प्रतिष्ठितः’ ‘सएवेदं सर्व’ मित्यादिभिः प्रतिपादितस्वमहिमप्रतिष्ठितत्वसर्वात्मत्वादि धर्माणां ‘आत्मतः प्राणआत्मत आशे’त्यादि वाक्यसन्दर्भप्रतिपादितप्राणशब्दितजीवप्रभृदिसकलप्रपञ्च उपादानत्वस्य प्राणशब्दिते जीवे असम्भवाच्च भूमा परमात्मेति सिद्धांतः॥ ॥इति भूमाधिकरणम्॥