18 द्युभ्वाद्यधिकरणम्

॥द्युभ्वाद्यायतनं स्वशब्दात्॥ ‘यस्मिन् द्यौः पृथिवीचान्तरिक्षमोतं मनस्सह प्राणैश्च सर्वैस्तमेवैकं जानथात्मानमन्यावाचो विमुञ्चथामृतस्यैषसेतुः’। यस्मिन्नक्षरे द्युपृथिव्यन्तरिक्षमनः प्राणादिकं समवेतं, तमेकमेव स्वेतरसमस्तवस्तुनियन्तृत्वेन व्यापकतया आत्मानं जानीथ। अनात्मविषयावाचस्सन्त्यजत। ‘अमृतस्यैषसेतुः’। नद्यादिषु सेतुर्हि कुलस्य प्रतिलंभकः, संसारार्णवपारभूतस्य अमृतस्यैषप्रतिलंभक इत्यर्थः। ‘अराइव रथनाभौ संहतायत्र ना़ड्यः" सएषोऽन्तश्चरते बहुधा जायमानः’। सन्ततं सिराभिस्तु लंबत्याकोशसन्निभ’मित्युक्तरीत्या यत्र हृदये रथनाभौ समर्पिता अराइव नाड्यस्संगताः, तत्र मद्ध्ये स एषः प्रकृत आत्मा ‘अजायमानो बहुधा विजायते। तस्य धीराः परिजानन्ति योनि’मिति देवादीनां समाश्रयणीयत्वाय तत्तज्जातीयस्वरूपसंस्थानगुणकर्मसमन्वितः" स्वीयस्वभावमजहदेव स्वेच्छया बहुधा जायमानस्सन्, चरते=वर्तत इत्यर्थः। ‘ओमित्येवं ध्यायथात्मानम्’। स्पष्टोऽर्थः। ‘स्वस्ति वः पाराय तमसः परस्तात्’। तमसः परस्माद्वर्तमानाय वः पाराय=तीराय। ‘पारावारे परार्वाची तीर’ इति नैघण्टुकाः। प्राप्यभूतायेति यावत्। तत्पदप्राप्तये ध्यायतेत्यन्वयः। एवं ध्यानाय प्रवृत्तेभ्यो युष्मभ्यं स्वस्ति भवतु। ‘यस्सर्वज्ञस्सर्ववित्’। उक्तोऽर्थः। ‘यस्यैषमहिमाभुवि’। लोके संसारतंत्रप्रवर्तनरूपः एष महिमा यदीयः। ‘दिव्ये ब्रह्मपुरे ह्येष व्योमन्यात्मा प्रतिष्ठितः’। वैकुण्ठाख्ये ब्रह्मपुरे दिव्ये व्योम्नि अयमात्मा प्रतिष्ठित इत्यर्थः। एवं च वाक्यद्वयेन उभयविभूतिनियामकत्वमुक्तं" भवति। ‘भिद्यते हृदयग्रंथिः’। हृत्स्थानमयत इति व्युत्पत्त्या हृदयशब्दितो जीवः, तस्य ग्रंथिवत् दुर्मोचा रागद्वेषादयः। ‘छिद्यन्ते सर्वसंशयाः’। ब्रह्मज्ञानेन सार्वज्ञ्यसिद्धेरिति भावः। ‘क्षीयंते चास्य कर्माणि’। प्रारब्धव्यतिरिक्तानि पूर्वाणि अनेकभवार्जितानि कर्माणि च नश्यन्ति। नाशो नाम कर्मणां फलजननशक्तिविनाशः, शक्तिश्च परमपुरुषाप्रीतिरेव। एतत्सर्वं कदेत्याह–‘तस्मिन् दृष्टे परावर’इति। परे अवरा यस्मात्सः परावरः। सर्वोतकृष्टा अपि ब्रह्मादयो यस्मान्निकृष्टा इत्यर्थः। तस्मिन् दर्शनसमानाकारविषयीकृत इत्यर्थः। ‘द्वसुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्यः" पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीति’ युज्यत इति युक्। युक्शब्दे गुणपरः। सयुजौ=समानगुणकौ। सखायौ=अपहतपाप्मत्वादिगुणैः परस्परं समानौ। द्वौ सुपर्णौ=द्वौ पक्षिसदृशौ। समानं वृक्षं=वृक्षवच्छेदनार्हं शरीरम्। समाश्रितावित्यर्थः। तयोरन्यः स्वादु परिपग्वं पिप्पलं" कर्मफलं भुङ्क्ते। अन्यस्तु परमात्मा अभुञ्जान एव प्रकाशते। अत्र शरीरतदाश्रयजीवपरादिविषयवाचकशब्दनिगरणेन विषयिवाचकवृक्षसुपर्मादिशब्दैर्वक्षत्वाध्यवसानलक्षण रूपकातिशयोक्तिर्विच्छित्तिविशेषायेति द्रष्टव्यम्। ‘समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः’। अनीशया=भोग्यभुतया प्रकृत्या। मुह्यमानः=तिरोहेतपरमात्मशेषत्वज्ञानानन्दादिलक्षणस्वरुपस्सन्। वृक्षइवछेदनार्हे शरीरे जीवः स्थूलोऽहं कृशोऽहमित्यादि तादात्म्यबुद्ध्यापांसूदकवत्तदेकतामापन्नस्सन् तत्संसर्गकृतानि दुःखान्यनुभवतीन्यर्थः। ‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशाकः’। इतिशब्दो बुद्धिस्थप्रकारवचनः। चशब्दश्चाध्याहर्तव्यः। यदाऽसौ जीवो निमग्नात्स्वस्माद्धारकत्वनियन्तृत्वशेषित्वादिना विलक्षणं" स्वकर्मभिः प्रीतं परमात्मानं अखिलजगदीशलक्षणमस्य महिमानञ्च यदा पश्यति तदा वीतशोको भवतीत्यर्थः। ‘यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिं। तदा विद्वान् पुण्यपापे विधूय निरञ्चनः" परमं साम्यमुपैति’। कर्तारं=जगत्कर्तारम्। ईशं=जगदीशितारम्। ‘तस्मादेतद्ब्रह्मे’ति निर्दिष्टाव्याकृत ब्रह्मोपादानभूतं ‘भगवानिति शब्दोऽय’ मित्युक्तरीत्या पुरुषशब्दनिर्दिष्टं वासुदेवं यदा पश्यति तदा निरस्तप्रकृतिलेपस्सन् अपहतपाप्मत्वादिगुणाष्टकलक्षणेन ब्राह्मेण रूपेण परमं साम्यमुपैतीत्यर्थः। एतावन्त्येव विषयवाक्यानि चिन्तोपयुक्तानि। अत्र शंक्यते-यस्मिन् द्यौरिति वाक्ये ‘ओतं मनस्सह प्राणैश्च सर्वे’रिति मनःप्राणसम्बन्धिनः प्रतिपादनात्, ‘अराइव रथनाभौ संहता यत्र ना़ड्यः स एषोऽन्तश्चरते बहुधा जायमान’इति जीवलिङ्गाच्च, भूतयोन्यक्षरं भुङ्त्वा जीवपरत्वमेवास्य सन्दर्भस्याश्रयणीयमिति। अत्रोच्यते-द्युभ्वाद्यायतनं स्वशब्दात्। द्युभ्वाद्यायतनं परमात्मा। ‘अमृतस्यैषसेतु’रिति मोक्षप्रदत्वलक्षणा साधानणधर्मश्रवणात्, ‘तमेवैकं जानथात्मान’मिति व्यापकार्थकस्यात्मशब्दस्य च श्रवणात्॥॥मुक्तोपसृप्यव्यपदेशाच्च॥ ‘नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्य’मिति परमात्ममात्रासाधारणमुक्तप्राप्यत्वव्यपदेशात्॥॥नानुमानमतच्छब्दात्प्राणभृच्च॥ अनुमानं प्रधानमस्मिन् प्रकरणे यथा तत्प्रतिपादकशब्दाभावान्न प्रतिपाद्यम्, एवं प्राणभृज्जीवोपि तत्प्रतिपादकशब्दाभावान्नप्रतिपाद्यः॥॥भेदव्यपदेशाच्च॥ ‘जुष्टंयदापश्यत्यन्य’मिति प्रकरणप्रतिपाद्यस्य ईशस्य जीवभेदव्यपदेशाच्च॥॥प्रकरणात्॥ भूतयोन्यक्षरप्रकरणाच्च॥॥स्थित्यदनाभ्याञ्च॥ ‘तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति’ति जीवस्य कर्मफलभोक्तृत्वं परमात्मनस्तु तदंतरेण शरीरे अवस्थानमिति परमात्मनएव प्रकरणतात्पर्यपर्यवसानभूमितया आविष्कृतत्वाच्च परमात्मैव मु़डंकोपनिषत्प्रतिपाद्य इति। ननु ‘द्वासुपर्णे’ति मंत्रस्य कथं जीवपरमात्मभेद परत्वं, अन्तः करणजीवपरत्वेन पैङ्गिरहस्यब्रह्मणेनैव व्याख्यातत्वात्। तथा हि–‘तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वं, अनश्नन्योअभिचाकशीतीतिज्ञः, तावेतौसत्वक्षेत्रज्ञौ’। नच सत्वक्षेत्रज्ञशब्दौ जीवपरमात्मपराविति वाच्यम्। तयोश्शब्दयोरन्तः" करणजीवपरतया प्रसिद्धत्वात्, ‘तत्सत्वं येन स्वप्नं पश्यति अथ योऽयं शारीर उपद्रष्टा सक्षेत्रज्ञः" तावेतौ सत्वक्षेत्रज्ञा’विति सत्वक्षेत्रज्ञशब्दयोरन्तः करणजीवपरतया पैङ्गिश्रुत्यैव व्याख्यातत्वाच्च, ‘येन पश्यती’ति करणत्वप्रतीतेः सत्वं ह्यन्तःकरणं जीवः परइति चेन्न। नतावज्जीवपरमात्मपरत्वमस्यापवदितुं" शक्यते। अनेन मंत्रेण तुल्यार्थतया प्रत्यभिज्ञायमाने ‘समाने वृक्षेपुरुषो निमग्न’इति तयोरैकार्थ्यंहि प्रतीयते। ‘समानेवृक्ष’ इति मंत्रे च पुरुषो जीवः, अन्तःकरणस्य पुरुषशब्दवाच्यत्वाभावात्, ‘शोचति मुह्यमानः’ ‘पश्यति वीतशोक’इति पदानामस्वारस्याच्च। अन्यश्च परमात्मा। ईशशब्दोक्तत्वात् स्वविषयज्ञानेन वीतशोकत्वहेतुत्वाच्च। नकेवलमनन्तरमन्त्रैकार्थ्यात् ‘द्वासुपर्णे’ति मंत्रस्य परमात्मपरत्वं, किन्तु स्ववाक्ये ‘स्वाद्वत्यनश्नन्नन्य’इति भोक्तृत्वाभोक्तृत्वश्रवणाच्च तदवसीयते। चक्षुश्श्रोत्रादीनां" द्रष्टृत्वश्रोतृत्वादिवत् अन्तः करणस्यापि करणत्वादेव भोक्तृत्वं नहि संभवति। जीवस्य वृक्षशब्दोक्तदेहपरिष्वङ्गदशायामेव अनश्नत्त्वमपि नोपपद्यते। तर्हि पैङ्गिश्रुतेः" कोऽर्थः। उच्यते-सत्यं बद्धजीवः। ‘द्रव्यामुख्यवसायेषु सत्त्वमस्त्रीतु जन्तुप्वि’ति शासनात् जन्तुपरत्वावगतेः। जन्तुश्च प्राणी, ‘जन्तुजन्यशरीरिण’ इति नामपाठात्, ‘वनयान्विनेष्यन्निव दुष्टसत्वा’निति प्रयोगाच्च, ‘न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः। सत्वं प्रकृतिजैर्मुक्तं यदेभिस्स्यास्त्रिभिर्गुणै’रिति दर्शनाच्च। क्षेत्रज्ञशब्दश्च अत्र परमात्मपरः, अर्थान्तरप्रसिद्धाकाशप्राणादिशब्दवत् अर्थानुपपत्त्या परमात्मपरत्वोपपत्तेः, विष्णोर्नामसहस्रंम’ इत्युपक्रम्य ‘क्षेत्रज्ञोऽक्षरएवचे’ति प्रयोगात्, क्षेत्रं जानातीत्यवयवार्थस्य तस्मिन्नेव पुष्कलत्वाच्च। मोक्षधर्मे-‘ततस्त्रैगुण्य हीनास्ते परमात्मानमंजसा। प्रविशन्ति द्विजश्रेष्ठ क्षेत्रज्ञं निर्गुणात्मक’मिति ‘सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धि तत्वत’ इति तत्रैव ‘विश्वमूर्द्धा विश्वभुजो विश्वपादाक्षिनासिकः। एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखं॥ क्षेत्राणिच शरीराणि ज्ञानानिच शुभाशुभे। तानि वेत्ति सयोगात्मा ततः क्षेत्रज्ञउच्यत’इति प्रयोगात्, तत्रैव कपिलासुरसंवादे ‘ज्ञातानामासुरे श्रेष्ठो ज्ञोद्रष्टाशुचिरुपेक्षक’ इति, तत्रैव पञ्चविंशतितत्वानि तत्तच्छब्देनोक्त्वा ‘एतस्माद्वर्गादपवृत्तोपवर्गश्शुचिरुपेक्षकः बुद्ध्यमानाप्रतिबुद्धयोः परस्मा’दिति तत्रैव ‘अन्यदुदकमन्यत्पुष्करपर्णं तथाऽन्यत्क्षेत्रमन्यः" पुरुषः पञ्चविंशकः अन्यश्चास्मात् क्षेत्रज्ञ’ इति प्रयोगात्, सनत्कुमारनारदसंवादेच ‘पश्यः पश्यति पश्यन्तमपश्यन्तञ्च पश्यति। पश्यन्तं पश्यपश्यत्वात् पश्यापश्ये नपश्यत’ इति श्लोकमुक्त्वा ‘प्रकृतिं" क्षेत्रं क्षेत्रज्ञञ्च अपरः क्षेत्रज्ञः षड्विंशकोऽनुपश्यति नतु प़ञ्चविंशकः क्षेत्रज्ञः प्रकृतिर्वा परं क्षेत्रज्ञं पश्यती’ति प्रयोगाच्च। ‘येन स्वप्नं पश्यती’त्यत्र इत्थंभावे तृतीया। येन विशिष्टः" परमात्मा स्वप्नं पश्यतीत्युच्यते। ‘काठिन्यवान् यो बिभर्ती’ति पृथिवीद्वारा काठिन्यवत् स्वप्नद्रष्टृत्वं" जीवद्वारा परमात्मविशेषणं भवतीति नविराधः। शारीरशब्दश्च ‘तस्यैषएवशारीर आत्मे’तिवत् स्वव्यतिरिक्तसमस्तचिदचिच्छरीरके परमात्मन्युपपद्यते। ‘उपद्रष्टेति निरुपाधिकद्रष्टृत्वं तस्यैवोपपद्यते। एवं ‘शारीरउपद्रष्टे’ति पदद्वयेन परस्य क्षेत्रज्ञशब्दावाच्यत्वमुपपादितं भवति। अतः ‘द्वासुपर्णे’ति मन्त्रो जीवपरमात्मपरः। किञ्च ‘इयदामनना’दित्यधिकरणे ‘द्वासुपर्णे’ति मंत्रे भोक्तृभोक्त्रोः प्रतिपाद्यता। ‘ऋतंपिबन्ता’वित्यत्र तु भोक्त्रोः प्रतिपाद्यता। ‘पिबन्ता’विति श्रवणात्। नच ‘पिबन्ता’वित्येतच्छत्रिन्यायेन पिबदपिबत्समुदायलक्षकमिति वाच्यम्। मुख्यार्थपरित्यागे कारणाभावादिति पूर्वपक्षं कृत्वा ‘ऋतंपिबन्तौ,द्वासुपर्णा’ इत्यत्र च द्वित्वसंख्या प्रतीतेरैक्यं प्रतीयते। तत्र च ‘द्वासुपर्णे’ति मंत्रे ‘तयोन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्य’इति अशनायाद्यतीतः परमात्मा प्रतीयते। अत एव ‘जुष्टं यदा पश्यत्यन्यमीश’ मिति वाक्यशेषे परमात्मन एव प्रतिपादनं दृश्यते। ‘ऋतंपिबन्तौ’विति मंत्रे च ‘अन्यत्र धर्मा’दित्युपक्रमेण परमात्मनः प्रकृतत्वात् ‘यस्सेतुरीजानानामक्षरं ब्रह्म यत्पर’मिति परमात्मविषयवाक्यशेषाच्च परमात्मैवात्र प्रतिपाद्यः। अतः ‘ऋतं पिबन्तावि’त्येतत् छत्रिन्यायेन योज्यम्। अतो वेद्याभेदाद्विद्याभेद इति तदीयभाष्य एव प्रतिपादिततया तयोर्मंत्रयोः भिन्नार्थत्वसमर्थनस्य तद्विरुद्धत्वात्। तस्मात् ‘द्वासुपर्णे’ति मंत्रो जीवपरमात्मपरएव। सत्वक्षेत्रज्ञशब्दावपि तत्परावित्येव युक्तम्॥ ॥इति द्युभ्वाद्यधिकरणम्॥