17 वैश्वानराधिकरणम्

॥वैश्वानरस्साधारणशब्दविशेषात्॥ त्रैलोक्यात्मकरूपोपन्यासात् अक्षरवद्वैश्वानरोऽपि परमात्मेति निर्णीयत इति सङ्गतिः। छान्दोग्ये ‘यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते ससर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति’। अभिविमानं सर्वाभिव्याप्ततया विगतमानं विश्वेषां नराणां नेतारं एतमात्मानं" प्रादेशमात्रं द्युलोकादिप्रदेशसंबंधिनी प्रादेशीमात्रा यस्य तं प्रादेशमात्रं। द्युप्रभृतिप्रदेशपरिच्छिन्नं" यउपास्ते ससर्वलोकसर्वभूतसर्वात्मवृत्तिब्रह्मरूपमन्नमत्ति। सर्वत्र वर्तमानं सदन्नं भोग्यं तत् स्वत एव अनधिकातिशयमानन्दं ब्रह्मानुभवतीत्यर्थः। अनेन वैश्वानरोपासनस्य ब्रह्मप्राप्तिफलकत्वमुक्तं" भवति। यत्तु सर्वैः कर्मवश्यैरात्मभिः प्रत्येकमनन्यसाधारणमन्नं भुज्यते तन्मुमुक्षुभिस्त्याज्यत्वादिह न गृह्यते। न च अपरिच्छिन्नस्य परस्य ब्रह्मणो द्युप्रभृदिपृथिव्यन्तप्रदेशसम्बन्धिन्या मात्रया कथं परिच्छिन्नत्वमिति चोदनीयं। परिच्छिन्नत्वे बुद्धिसौकर्यलक्षणाभिव्यक्तेस्सम्भवात्। प्राणाहुत्याधारत्वत्रिविधाग्नि पारिकल्पन जाठराग्निशरीरकद्युमूर्धत्वादि विशिष्टात्मत्वभाविते स्वशरीरे क्रियमाणप्राणाद्याहुतिभिः" वैश्वानरविद्यानिष्ठेन परमात्मा समाराधनीय इति प्रतिपादयति– ‘तस्य हवा एतस्यात्मनो वैश्वानरस्य मूर्द्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा सन्देहो बहुलो वास्तिरेव रयिः पृथिव्येव पादावुरएव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः’। एतस्योपासकस्यात्मनः" मूर्द्धैव तस्य वैश्वानरस्य ‘मूर्द्धात्वेष आत्मन’ इति वैश्वानरमूर्द्धत्वेन निर्दिष्टसुतेजा इत्यर्थः। नच ‘तस्य हवा एतस्ये’ति पदयोस्सामानाधिकरण्यमेवास्तु, नत्वेतस्येत्युपासकपरामर्शित्वमिति शंक्यम्। ‘उर एव वेदि’ रित्यादावुपासकोरः परामर्शस्यावश्यंभावात् ‘मूर्द्धे’त्यत्रापि उपासकमूर्द्धैव परामृश्यते। तस्मादेतस्येति पदस्योपासकपरत्वमेव सिद्धम्। अयमस्य प्रकरणस्यार्थः– ‘यस्त्वेतमेव’मित्यादिना त्रैलोक्यशरीरस्य परमात्मनो वैश्वानरस्योपासनं विधाय ‘सर्वेषु लोके’ष्वित्यादिना ब्रह्मप्राप्तिफलमुपदिश्य अस्यैव उपासनस्याङ्गभूतं प्राणाग्निहोत्रं ‘तस्यहवा एतस्ये’ त्यादिना उपदिशति। यः पूर्वं उपास्यतया उपदिष्टो वैश्वानरः तस्यावयवभूतान् द्यावादित्यादीन् सुतेजोविश्वरूपादिनामधेयान् उपासकशीरे मूर्द्धादिपादान्तेषु संपादयति-मूर्द्धैव सुतेजाः=उपासकस्य मूर्द्धैव परमात्ममूर्द्धभूता द्यौरित्यर्थः। तच्चक्षुः विश्वरूपः=आदित्य इत्यर्थः। प्राणः पृथग्वर्त्मात्मा=वायुरित्यर्थः। सन्देरोबहुलः=उपासकमध्यकायएव परमात्ममध्यकायभूत आकाश इत्यर्थः। पृथिव्येव पादौ=अस्य पादावेव तत्पादभूता पृथिवीत्यर्थः। एवमुपासकः स्वशरीरे परमात्मानं" त्रैलोक्यशरीरकं वैश्वानरं सन्निहितमनुसंधाय स्वकीयानि उरोलोमहृदयास्यानि प्राणाहुत्याधारस्य परमात्मनो वैश्वानरस्य वेदिबर्हिर्गार्हपत्यान्वाहार्यपचनाहवनीयान् अग्निहोत्रोपकरण भूतान् परिकल्प्य प्राणाहुतेश्च अग्निहोत्रत्वं परिकल्प्य एवंविधेन प्राणाग्निहोत्रेण परमात्मानं वैश्वानरमाराधयेदिति। अत्र ‘यस्त्वेतमेवं" प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्त’ इति वाक्ये वैश्वानरशब्दार्थोऽशक्यनिर्णयः। वैश्वानरशब्दस्य जाठराग्नौ महाभूततृतीये देवताविशेषे परमात्मनि च वैदिकप्रयोगदर्शनात्, अस्मिन् प्रकरणे सर्वेषां" लिङ्गोपलब्धेश्च इति पूर्वपक्षे प्राप्त उच्यते– वैश्वानरस्साधारणशब्दविशेषात्॥ वैश्वानरः" परमात्मा। ‘को न आत्मा किं ब्रह्मेति’ सर्वेषां जीवानामात्मभूतं ब्रह्म किमिति प्रश्नकरणात्, उत्तरे च ‘आत्मानं वैश्वानर’मिति ब्रह्मशब्दस्थानेसर्वत्रवैश्वानरशब्दप्रयोगात्, जाठरादिचतुष्टयसाधानणस्यापि वैश्वानरशब्दस्य अस्मिन्प्रकरणे अभिविमानशब्देन अभिव्याप्त्यर्थकेन ‘ब्रह्मरूपमन्नमत्ती’त्येनेन मुमुक्षुभोग्यत्वार्थकेन प्रतिपन्नैः मुमुक्षुजिज्ञास्यत्वसर्वात्मकत्वादिब्रह्मलिंगैर्विशेषितत्वादिति॥॥स्मर्यमाणमनुमानं स्यादिति॥ ‘अग्निर्मूर्द्धा चक्षुषी चन्द्रसूर्यौ दिशश्श्रोत्रे वाग्विवृताश्च वेदाः। वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा’। अग्निरिहद्युलोकः। ‘असौवैलोकोऽग्नि’रिति श्रुतेः। स्मरन्तिच मुनयः ‘द्यां मूर्द्धानं यस्य विप्रा वदंति खं वै नाभिश्चन्द्रसूर्यौच नेत्र’ इति श्रुत्यन्तरप्रतिपादितं" ईश्वरत्वाभिज्ञानं इह ‘मूर्द्धैव सुतेजा’ इत्यादिनाद्युप्रभृतिपृथिव्यन्तं रूपमिह स्मर्यमाणं प्रत्यभिज्ञायमानं" वैश्वानरस्य परमात्मत्वे अनुमापकं स्यादिति॥॥शब्दादिभ्योऽन्तः प्रतिष्ठानाच्च नेते चेन्न तथा दृष्ट्युपदेशादसंभवात्पुरुषमपि चैनमधीयते॥ वाजिनां वैश्वानरविद्याप्रकरणे ‘सएषोऽग्निर्वैश्वानर’ इति वैश्वानरशब्दसामानाधिकरण्येन अग्निशब्दशश्रूयते। अत्र च प्रकरणे ‘हृदयं गार्हपत्य’ इत्यादिना वैश्वानरस्य हृदयादिस्थस्याग्नित्वपरिकल्पनं प्राणाहुत्याधारत्वमित्याद्यग्निलिंगानि। वैश्वानरस्य शरीरान्तः प्रतिष्ठितत्वश्रवणाच्च वैश्वानरस्य जाठराग्नित्वप्रतीतेः नायं परमात्मेति शक्यो निर्णय इति चेन्न। ‘अग्निर्वैश्वानरः पुरुषेऽन्तः प्रतिष्ठित’ इत्यादौ जाठराग्निशरीरतया वैश्वानरस्य परमात्मन उपदेशात् केवलजाठराग्नेः त्रैलोक्यशरीरत्वासंभवाच्च। वाजिनः तत्रैव ‘स एषोऽग्निर्वैश्वानरो यत्पुरुष’इति एनं वैश्वानरपुरुषमधीयते, पुरुषश्च परमात्मैव, ‘पुरुष एवेदं सर्वं’ ‘पुरुषान्नपरंकॢञ्चि’दित्यादिषु प्रसिद्धेरिति॥॥अतएव न देवता भूतञ्च॥ यतस्त्रैलोक्यशरीरोऽसौ, यतश्च निरुपाधिकशब्दनिर्दिष्टः, अत एव नाग्न्याख्या देवता, न तेजस्संज्ञं भूतञ्च वैश्वानर इति॥॥साक्षादप्यविरोधं जैमिनिः॥ अग्निशरीरतया वैश्वानरस्य उपासनार्थं अग्निशब्दसामानाधिकरण्यनिर्देश इत्युक्तम्। विश्वेषां नराणां" नेतृत्वादिसम्बन्धेन यथा वैश्वानरशब्दः परमात्मनि वर्तते, तथैव अग्निशब्दस्य अग्रनयनादियोगेन साक्षात्परमात्मनि वृत्तौ न कश्चिद्विरोध इति जैमिनिर्मन्यत इति॥अपरिच्छिन्नस्य परस्य ब्रह्मणो द्युप्रभृतिप्रदेशसम्बन्धिन्या मात्रयाः कथं परिच्छिन्नत्वमित्यत्राह– ॥अभिव्यक्तेरित्याश्मरथ्यः॥ बुद्धिसौकर्यलक्षणाभिव्यक्तेर्हेतोरभिविमानस्यापि ब्रह्मणः प्रादेश मात्रत्वमुपदिश्यत इत्याश्मरथ्य आचार्यो मन्यत इति॥ननु अभिव्यक्त्यर्थं परिच्छिन्नत्वोपदेशेऽपि मूर्द्धप्रभृत्यवयवविशेषैः पुरुषविधत्वं परस्य ब्रह्मणः किमर्थमिति न चोदनीयं, तथोपासनार्थत्वात् इत्याह– ॥अनुस्मृतेर्बादरिः॥ अनुस्मृतिः=उपासनम्। अनुस्मृतेर्हेतोः पुरुषविधत्वरूपणमिति बादरिराचार्यो मन्यत इति॥ननु अयं वैश्वानरः परमात्मा त्रैलोक्यशरीर उपास्य उपदिश्यते चेत् ‘उर एव वेदि’रित्यादिना उरः प्रभृत्युपासकशरीरावयवानां" वेद्यादित्वपरिकल्पनं किमर्थमिति शङ्कायामाह– ॥सम्पत्तेरिति जैमिनिस्तथाहि दर्शयति॥ वैश्वानरविद्याङ्गभूताया उपासकैरहरहः क्रियमाणायाः प्राणाहुतेरग्निहोत्रसम्पत्त्यर्थं उरःप्रभृतीनां" वेद्यादित्वोपपत्तेरिति जैमिनिराचार्यो मन्यते। तथा अग्निहोत्रसम्पत्तिमेव दर्शयति श्रुतिः, प्राणाहुतीर्विधाय ‘य एतदेवं विद्वानग्निहोत्रं जुहोती’ति। सर्वत्राचार्यग्रहणं पूजार्थं न तु विकल्पनार्थमिति द्रष्टव्यम्॥॥आमनन्तिचैनमस्मिन्॥ एनं पुरुषं द्युमूर्द्धत्वादिविशिष्टं वैश्वानरं अस्मिन् उपासकशरीरे प्राणाहुत्याधारत्वाय आमनन्ति॥ ॥इति वैश्वानराधिकरणम्॥ ॥इति श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य द्वितीयः पादः॥